च.वि.१.१६

विकिपुस्तकानि तः
Jump to navigation Jump to search

सूत्रम् -
पिप्पल्यो हि कटुकाः सत्यो मधुरविपाका गुर्व्योनात्यर्थं स्निग्धोष्णाः प्रक्लेदिन्यो भेषजाभिमताश्चताः सद्यः; शुभाशुभकारिण्यो भवन्ति; आपातभद्राः, प्रयोगसमसाद्गुण्यात्; दोषसञ्चयानुबन्धाः;-सततमुपयुज्यमाना हि गुरुप्रक्लेदित्वाच्छ्लेष्माणमुत्क्लेशयन्ति, औष्ण्यात् पित्तं, न च वातप्रशमनायोपकल्पन्तेऽल्पस्नेहोष्णभावात्; योगवाहिन्यस्तु खलु भवन्ति; तस्मात् पिप्पलीर्नात्युपयुञ्जीत॥ च.वि.१.१६॥

पदच्छेदः-
पिप्पल्यः हि कटुकाः सत्यः मधुरविपाकाः गुर्व्यः न अत्यर्थं स्निग्धोष्णाः प्रक्लेदिन्यः भेषज-अभिमताः च ताः सद्यः; शुभ-अशुभ-कारिण्यः भवन्ति; आपात-भद्राः, प्रयोग-सम-साद्गुण्यात्;दोषसञ्चय-अनुबन्धाः;- सततम् उपयुज्यमानाः हि गुरु-प्रक्लेदित्वात् श्लेष्माणम् उत्क्लेशयन्ति, औष्ण्यात् पित्तं, न च वातप्रशमनाय उपकल्पन्ते अल्पस्नेहोष्णभावात्; योगवाहिन्यः तु खलु भवन्ति; तस्मात् पिप्पलीः न अति उपयुञ्जीत॥ च.वि.१.१६॥

अन्वयः-
हि पिप्पल्यः कटुकाः सत्यः मधुरविपाकाः गुर्व्यः न अत्यर्थं स्निग्धोष्णाः प्रक्लेदिन्यः भेषज-अभिमताः च ताः सद्यः; शुभ-अशुभ-कारिण्यः भवन्ति; आपात-भद्राः, प्रयोग-सम-साद्गुण्यात्;दोषसञ्चय-अनुबन्धाः;- सततम् उपयुज्यमानाः हि गुरु-प्रक्लेदित्वात् श्लेष्माणम् उत्क्लेशयन्ति, औष्ण्यात् पित्तं, न च वातप्रशमनाय उपकल्पन्ते अल्पस्नेहोष्णभावात्; तु योगवाहिन्यः खलु भवन्ति; तस्मात् पिप्पलीः न अति उपयुञ्जीत॥ च.वि.१.१६॥

सरलार्थः-
पिप्पल्यः कटुकाः तथापि मधुरविपाकाः सन्ति।ताः गुरुगुणयुक्ताः भवन्ति।ताः अतिस्निग्धाः न, तथा अत्युष्णाः अपि न।ताः प्रक्लेदनं कुर्वन्ति।भेषजप्रयोगे ताः सम्मताः।ताः अल्पेन कालेन शुभम् अशुभं वा कुर्वन्ति।ताः आरम्भे शुभाः सन्ति। यतो हि तासां समः प्रयोगः गुणावहः अस्ति।सततम् उपयुक्ताः चेत् दोषसञ्चयः भवति।ताः सततम् उपयुक्ताः चेत् गुरुगुणेन प्रक्लेदनकर्मणा च कफस्य उत्क्लेशं जनयन्ति।उष्णगुणयोगात् पित्तस्य उत्क्लेशं कुर्वन्ति।तासु स्नेहः अल्पः तथा औष्ण्यम् अल्पम्।अतः वातशमनाय ताः समर्थाः न भवन्ति।परन्तु ताः योगवाहिन्यः भवन्ति।अतः पिप्पलीनाम् अतिप्रयोगः न कार्यः। च.वि.१.१६

आयुर्वेददीपिका-
‘कटुकाः सत्यो मधुरविपाकाः’ इत्यादि पिप्पलीगुणकथनम् अनभ्यास-प्रयोगे दोषवैपरीत्येन दोषप्रशमन-उपदर्शनार्थं; तथा, अति-अभ्यासे ‘गुरुप्रक्लेदित्वा-च्छ्लेष्माणमुत्क्लेशयन्ति’ इत्यादि-ग्रन्थ-वक्तव्य-दोषकरणयोग्यता-उपदर्शनार्थं च। भेषज-अभिमताः च सद्यः इति च्छेदः। सद्यः इति अनभ्यासे।शुभ-अशुभकारिण्यः भवन्ति इति सद्यः शुभकारिण्यः,अति-अभ्यासप्रयोगे तु अशुभकारिण्यः। एतद् एव शुभ-अशुभकारित्वं दर्शयति आपातभद्राः इत्यादिना।प्रयोग-सम-साद्गुण्याद् इति समस्य प्रयोगस्य सद्गुणत्वात्, समे अल्पकाले अल्पमात्रे च पिप्पल्यादिप्रयोगे सद्गुणाः भवन्ति इति अर्थः। दोषसञ्चय-अनुबन्धः अति-उपयोगः यासां ताः दोषसञ्चय-अनुबन्धाः। एतद् एव दोषसञ्चय-अनुबन्धत्वं विवृणोति सततम् इत्यादि। पिप्पलीधर्मकथनप्रस्तावाद् गुणान्तरम् आह योगवाहिन्यः तु इत्यादि। योगवाहित्वेन कटुकानाम् अपि पिप्पलीनां वृष्यप्रयोगेषु योगः, तथा ज्वरगुल्मकुष्ठ-हरादिप्रयोगेषु ज्वरादीन् हन्ति पिप्पली। अयं च पिप्पली-अतियोगनिषेधः अपवादं परित्यज्य ज्ञेयः। तेन, पिप्पलीरसायनप्रयोगः तथा गुल्मादिषु च पिप्पलीवर्धमानक-प्रयोगः न विरोधम् आवहति। उक्ते हि विषये यथोक्तविधानेन निर्दोषाः एव पिप्पल्यः इति ऋषिवचनाद् उन्नीयते। अन्ये तु, अन्न-संस्करणे पिप्पल्यादीनाम् अतिप्रयोगः निषिध्यते, न तु स्वातन्त्र्येण इति ब्रुवते। सततम् उपयुज्यमानाः इति अतिमात्रत्वेन तथा सततप्रयोगेण च इति ज्ञेयम्॥ च.वि.१.१६॥

सुशीला पञ्जिका-
मधुरविपाकाः इति।मधुरः विपाकः यासां ताः मधुरविपाकाः। पिप्पलीविशेषणमिदम्।
स्निग्धोष्णाः इति।स्निग्धाः च ताः उष्णाः च स्निग्धोष्णाः इति कर्मधारयः।
भेषजाभिमताः इति।भेषजे अभिमताः।भेषजप्रयोगे सम्मताः इत्यर्थः।
सद्यः इति अनभ्यस्ताः, वारंवारं न प्रयुक्ताः।यदि पिप्पल्यः सद्यः प्रयुक्ताः, वारंवारं न प्रयुक्ताः तर्हि भेषजे सम्मताः भवन्ति।
शुभाशुभकारिण्यः इति।शुभानि च अशुभानि च शुभाशुभानि।

कृञो हेतुताच्छील्यानुलोम्येषु ।अष्टा.३.२.२०

इति अनेन सूत्रेण शुभाशुभानि कर्तुं शीलं यस्य सः शुभाशुभकारी इति णिनिप्रत्ययान्तरूपम् ।तस्य स्त्रीलिङ्गे द्योत्ये

ऋन्नेभ्यो ङीप्।अष्टा.४.१.५

इत्यनेन भवति रूपं शुभाशुभकारिणी इति।तस्य बहुवचने रूपं शुभाशुभकारिण्यः।
आपातभद्राः इति।आपाते प्रथमप्रयोगे भद्राः शुभकारिण्यः।
प्रयोगसमसाद्गुण्यादिति।समः प्रयोगः प्रयोगसमः इति कर्मधारयः। समप्रयोगस्य साद्गुण्यं प्रयोगसमसाद्गुण्यम् इति तत्पुरुषः।
साद्गुण्यमिति। सद्गुणस्य भावः साद्गुण्यम्।

गुणवचनब्राह्मणादिभ्यः कर्मणि च।अष्टा.५.१.१२४

इति अनेन ष्यञ्-प्रत्ययान्तरूपम्।
ननु
प्रयोग-सम-साद्गुण्याद् इति समस्य प्रयोगस्य सद्गुणत्वात्,
इति चक्रपाणिः टीकते।प्रयोगसमः इति समासस्य विग्रहः समः प्रयोगः इति तेन कृतः।स च अनुचितः।यतो हि समः प्रयोगः इति अर्थः अभिप्रेतः चेत् समासे समशब्दस्य पूर्वनिपातः अपेक्ष्यते।

विशेषणं विशेष्येण बहुलम् ।अष्टा.२.१.५७

इति सूत्रेण कर्मधारयसमासे विशेषणस्य पूर्वनिपातः उक्तः।प्रकृते समः इति विशेषणं, प्रयोगः इति विशेष्यम्।तस्मात् प्रयोगसमः इति समस्तपदस्य चक्रपाणिकृतं भञ्जनम् असाधु इति चेद् उच्यते।
समशब्दः कडारादिगणे समाविष्टः।

कडाराः कर्मधारये ।अष्टा.२.२.३८

इति सूत्रेण कर्मधारये तस्य पूर्वनिपातः अपि सम्भवति, उत्तरनिपातः अपि सम्भवति।अतः चक्रपाणिकृतः विग्रहः साधुः एव।
दोषसञ्चयानुबन्धाः इति।दोषस्य सञ्चयः दोषसञ्चयः।दोषसञ्चयः अनुबन्धः यासां ताः दोषसञ्चयानुबन्धाः।अनुबन्धः इति अत्यभ्यासः।
ननु पिप्पलीनाम् अनुबन्धः दोषसञ्चयस्य कारणम्।अतः दोषसञ्चयकर-अनुबन्धाः इति वक्तव्यम्।तेन दोषसञ्चयकरः अनुबन्धः यासाम् इति अर्थः बुद्ध्यते। कथमत्र उच्यते दोषसञ्चयः एव अनुबन्धः यासाम् इति?
उच्यते।कार्यकारणयोः अभेदोपचारादेवम् उच्यते।
गुरुप्रक्लेदित्वादिति।गुर्व्यः च ताः प्रक्लेदिन्यः च गुरुप्रक्लेदिन्यः।पिप्पलीनां विशेषणम् इदम्।गुरुप्रक्लेदिनीनां भावः गुरुप्रक्लेदित्वम्।गुरुप्रक्लेदित्वात् इति पञ्चम्यन्तं रूपम्।नैषा अपादाने पञ्चमी।

विभाषा गुणेऽस्त्रियाम्। अष्टा.२.३.२५

इति अनेन हेतौ पञ्चमी एषा।अतः ‘पिप्पलीसु गुरुत्वम् अस्ति, प्रक्लेदित्वम् अस्ति, अतः ताः श्लेष्माणम् उत्क्लेशयन्ति’ इत्यर्थः गम्यते।
अग्रे ‘औष्ण्यात् पित्तम्’ इत्यत्रापि हेतौ पञ्चमी। ‘अल्पस्नेहोष्णभावात्’ इत्यपि हेतौ पञ्चमी।
अल्पस्नेहोष्णभावादिति।अल्पस्नेहः च उष्णः च अल्पस्नेहोष्णौ गुणौ।तयोः गुणयोः भावः अल्पस्नेहोष्णभावः।
योगवाहिन्यः इति।

...ग्रह्यादिभ्यः णिनिः।अष्टा.३.१.१३४

इति अनेन वहति इति वाही।

ऋन्नेभ्यो ङीप्।(अष्टा.४.१.५)

इत्यनेन तस्य स्त्रीलिङ्गं ङीप्प्रत्ययान्तं भवति वाहिनी इति।योगस्य वाहिनी योगवाहिनी।ताः योगवाहिन्यः। च.वि.१.१६

च.वि.१.१५       चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका        च.वि.१.१७
"https://sa.wikibooks.org/w/index.php?title=च.वि.१.१६&oldid=6436" इत्यस्माद् प्रतिप्राप्तम्