च.वि.१.१७

विकिपुस्तकानि तः
Jump to navigation Jump to search

सूत्रम् -
क्षारः पुनरौष्ण्यतैक्ष्ण्यलाघवोपपन्नः क्लेदयत्यादौ पश्चाद्विशोषयति ,सपचनदहन-भेदनार्थमुपयुज्यते; सोऽतिप्रयुज्यमानः केशाक्षिहृदयपुंस्त्वोपघातकरः सम्पद्यते। ये ह्येनं ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते त आन्ध्य-षाण्ढ्य-खालित्य-पालित्य-भाजो हृदयापकर्तिनश्च भवन्ति, तद्यथा- प्राच्याश्चीनाश्च;तस्मात् क्षारं नात्युपयुञ्जीत ॥ च.वि.१.१७॥

पदच्छेदः-
क्षारः पुनः औष्ण्य-तैक्ष्ण्य-लाघव-उपपन्नः क्लेदयति आदौ पश्चात् विशोषयति ,स पचन-दहन-भेदनार्थम् उपयुज्यते; सः अतिप्रयुज्यमानः केश-अक्षि-हृदय-पुंस्त्व-उपघातकरः सम्पद्यते। ये हि एनं ग्राम-नगर-निगम-जनपदाः सततम् उपयुञ्जते ते आन्ध्य-षाण्ढ्य-खालित्य-पालित्य-भाजः हृदय-अपकर्तिनः च भवन्ति, तद् यथा - प्राच्याः चीनाः च; तस्मात् क्षारं न अति उपयुञ्जीत॥ च.वि.१.१७॥

अन्वयः-
क्षारः पुनः औष्ण्य-तैक्ष्ण्य-लाघव-उपपन्नः आदौ क्लेदयति पश्चात् विशोषयति ,स पचन-दहन-भेदनार्थम् उपयुज्यते; सः अतिप्रयुज्यमानः केश-अक्षि-हृदय-पुंस्त्व-उपघातकरः सम्पद्यते। हि ये एनं ग्राम-नगर-निगम-जनपदाः सततम् उपयुञ्जते ते आन्ध्य-षाण्ढ्य-खालित्य-पालित्य-भाजः हृदय-अपकर्तिनः च भवन्ति, तद् यथा - प्राच्याः चीनाः च; तस्मात् क्षारं न अति उपयुञ्जीत॥ च.वि.१.१७॥

सरलार्थः-
क्षारः उष्णतीक्ष्णलघुगुणयुक्तः भवति।सः प्रथमं क्लेदनं करोति अनन्तरं विशोषणं करोति।पचनाय, दहनाय, भेदनाय तस्य उपयोगः भवति।यदि तस्य अतिप्रयोगः भवति, तर्हि तेन केशानां, नेत्रस्य, हृदयस्य, पुंस्त्वस्य च उपघातः भवति।ये ग्राम-नगर-निगम-जनपदवासिनः जनाः क्षारस्य सततम् उपयोगं कुर्वन्ति, तेषाम् अन्धत्व, षण्ढत्वं, खालित्यं, पालित्यं जायते।तेषां हृदयवेदना च जायते।यथा पूर्वदेशस्थाः, अथवा चीनदेशस्थाः।अतः क्षारस्य अतिप्रोगः न कार्यः॥ च.वि.१.१७

आयुर्वेददीपिका-
हृदयापकर्तिनः इति हृदय-परिकर्तनरूप-वेदनायुक्ताः॥ च.वि.१.१७॥

सुशीला पञ्जिका-
औष्ण्यतैक्ष्ण्यलाघवोपपन्नः इति।उष्णस्य भावः औष्ण्यम्।तीक्ष्णस्य भावः तैक्ष्ण्यम्।उभयत्र

गुणवचनब्राह्मणादिभ्यः कर्मणि च ।अष्टा.५.१.१२४

इति अनेन ष्यञ् इति भावप्रत्ययः।
लघोः भावः लाघवम्।अत्र

इगन्ताच्च लघुपूर्वात् ।५.१.१३१

इत्यनेन अण् इति भावप्रत्ययः।
औष्ण्यं च तैक्ष्ण्यं च लाघवं च औष्ण्यतैक्ष्ण्यलाघवानि।तैः उपपन्नः, औष्ण्यतैक्ष्ण्यलाघवोपपन्नः।उपपन्नः इति समवेतः।औष्ण्यादिभिः गुणैः समवेतः इत्यर्थः।क्षारस्य विशेषणमिदम्।
पचनदहनभेदनार्थमिति।पचनं दहनं च भेदनं च पचनदहनभेदनानि।तानि एव अर्थः प्रयोजनं यथा स्यात् तथा पचनदहनभेदनार्थम्।अस्य क्रियाविशेषणस्य ‘उपयुज्यते’ इति क्रियया सह अन्वयः।
केश-अक्षि-हृदय-पुंस्त्व-उपघातकरः इति।केशाः च अक्षिणी च हृदयं च पुंस्त्वं च केशाक्षिहृदयपुंस्त्वानि इति द्वन्द्वः।केश-अक्षि-हृदय-पुंस्त्वानाम् उपघातः केश-अक्षि-हृदय-पुंस्त्व-उपघातः इति तत्पुरुषः।केश-अक्षि-हृदय-पुंस्त्व-उपघातस्य करः केश-अक्षि-हृदय-पुंस्त्व-उपघातकरः।करोतीति करः।

...पचादिभ्यः अच् (अष्टा. ३.१.१३४)

इत्येन अच्-प्रत्ययः।
ग्राम-नगर-निगम-जनपदाः इति। ग्रामाः च नगराणि च निगमाः च जनपदाः च ग्राम-नगर-निगम-जनपदाः ।
आन्ध्य-षाण्ढ्य-खालित्य-पालित्य-भाजः इति।आन्ध्यं च षाण्ढ्यं च खालित्यं च पालित्यं च आन्ध्य-षाण्ढ्य-खालित्य-पालित्यानि।आन्ध्यं षाण्ढ्यं, खालित्यं तथा पालित्यम् इति एतानि चत्वारि अपि भावप्रत्ययान्तरूपाणि।

गुणवचनब्राह्मणादिभ्यः कर्मणि च।अष्टा.५.१.१२४

इति अनेन ष्यञ्-प्रत्ययान्तरूपाणि एतानि।अतः अन्धस्य भावः आन्ध्यं, षण्ढस्य भावः षाण्ढ्यं, खलितस्य भावः खालित्यं पलितस्य भावः पालित्यम् इति अर्थः । आन्ध्य-षाण्ढ्य-खालित्य-पालित्यानि भजन्ते इति आन्ध्य-षाण्ढ्य-खालित्य-पालित्य-भाजः।

भजो ण्विः (अष्टा.३.२.६२ )

इति कर्तरि ण्विप्रत्ययः।
आन्ध्य-षाण्ढ्य-खालित्य-पालित्य- भज्+ण्विः
ण्विः इति सर्वापहारः प्रत्ययः।अयं च प्रत्ययः णित् अस्ति, अतः

तद्धितेष्वचामादेः।(अष्टा.७.२.११७)

इत्यनेन आदिस्वरस्य वृद्धिः जाता आन्ध्य-षाण्ढ्य-खालित्य-पालित्य- भाज् इति।

चोः कुः (अष्टा.८.२.३०)

इत्यनेन जकारस्य गकारः जातः आन्ध्य-षाण्ढ्य-खालित्य-पालित्य- भाग् इति।

खरि च।(अष्टा.८.४.५५)

इत्यनेन गकारस्य ककारादेशः। आन्ध्य-षाण्ढ्य-खालित्य-पालित्य-भाक् इति।तस्य प्रथमाविभक्तौ बहुवचने रूपम् आन्ध्य-षाण्ढ्य-खालित्य-पालित्य- भाज:।
हृदयापकर्तिनः इति।अपकर्तः इत्युक्ते कर्तनपीडा।हृदये अपकर्तः हृदयापकर्तः।हृदयापकर्तः अस्य अस्तीति हृदयापकर्ती।प्रथमाविभक्तौ बहुवचने रूपं हृदयापकर्तिनः इति।

अत इनिठनौ ।(अष्टा.५.२.११५)

इति सूत्रेण विहितः मत्त्वर्थीयः इनिप्रत्ययः अयम्।एतं मत्त्वर्थं मनसि निधाय एव चक्रपाणिः टीकते- ‘हृदयापकर्तिनः इति हृदय-परिकर्तनरूप-वेदनायुक्ताः’ इति।सूत्रे ग्रामनगरनिगमजनपदाः इति पदं विद्यते, तस्य विशेषणम् इदं हृदयापकर्तिनः इति। च.वि.१.१७

च.वि.१.१६       चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका       च.वि.१.१८
"https://sa.wikibooks.org/w/index.php?title=च.वि.१.१७&oldid=6437" इत्यस्माद् प्रतिप्राप्तम्