च.वि.१.१८

विकिपुस्तकानि तः
Jump to navigation Jump to search

सूत्रम् -
लवणं पुनरौष्ण्यतैक्ष्ण्योपपन्नम्, अनतिगुरु, अनतिस्निग्धम्, उपक्लेदि,विस्रंसन-समर्थम्, अन्नद्रव्यरुचिकरम्, आपातभद्रं प्रयोगसमसाद्गुण्यात्, दोषसञ्चयानुबन्धं, तद्रोचनपाचनोपक्लेदनविस्रंसनार्थमुपयुज्यते।तदत्यर्थमुपयुज्यमानं ग्लानिशैथिल्य-दौर्बल्याभिनिर्वृत्तिकरं शरीरस्य भवति। ये ह्येनद्ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते, ते भूयिष्ठं ग्लास्नवः शिथिलमांसशोणिताअपरिक्लेशसहाश्च भवन्ति।तद्यथा-बाह्लीकसौराष्ट्रिकसैन्धवसौवीरकाः; ते हि पयसाऽपि सह लवणमश्नन्ति।येऽपीह भूमे-रत्यूषरा देशास्तेष्वोषधिवीरुद्वनस्पतिवानस्पत्याः न जायन्तेऽल्पतेजसो वाभवन्ति, लवणोपहतत्वात्।तस्माल्लवणं नात्युपयुञ्जीत। ये ह्यतिलवणसात्म्याः पुरुषास्तेषा-मपि खालित्यपालित्यानि वलयश्चाकाले भवन्ति॥ च.वि.१.१८॥

पदच्छेदः-
लवणं पुनः औष्ण्य-तैक्ष्ण्य-उपपन्नम्, अनतिगुरु, अनतिस्निग्धम्, उपक्लेदि, विस्रंसन-समर्थम्,अन्नद्रव्य-रुचिकरम्, आपातभद्रं प्रयोगसमसाद्गुण्यात्, दोषसञ्चय-अनुबन्धं, तद् रोचन-पाचन-उपक्लेदन-विस्रंसनार्थम् उपयुज्यते।तद् अत्यर्थम् उपयुज्यमानं ग्लानि-शैथिल्य-दौर्बल्य-अभिनिर्वृत्तिकरं शरीरस्य भवति। ये हि एनद् ग्राम-नगर-निगम-जनपदाः सततम् उपयुञ्जते, ते भूयिष्ठं ग्लास्नवः शिथिल-मांस-शोणिताः अपरिक्लेशसहाः च भवन्ति।तद् यथा-बाह्लीक-सौराष्ट्रिक-सैन्धव-सौवीरकाः; ते हि पयसा अपि सह लवणम् अश्नन्ति।ये अपि इह भूमेः अति- ऊषरा देशाः, तेषु ओषधि-वीरुध्-वनस्पति-वानस्पत्याः न जायन्ते अल्पतेजसः वा भवन्ति, लवण-उपहतत्वात्।तस्मात् लवणं न अति उपयुञ्जीत। ये हि अति-लवण-सात्म्याः पुरुषाः तेषाम् अपि खालित्य-पालित्यानि वलयः च अकाले भवन्ति॥ च.वि.१.१८॥

अन्वयः-
लवणं पुनः औष्ण्य-तैक्ष्ण्य-उपपन्नम्, अनतिगुरु, अनतिस्निग्धम्, उपक्लेदि, विस्रंसन-समर्थम्,अन्नद्रव्य-रुचिकरम्, आपातभद्रं प्रयोगसमसाद्गुण्यात्, दोषसञ्चय-अनुबन्धं, तद् रोचन-पाचन-उपक्लेदन-विस्रंसनार्थम् उपयुज्यते।तद् अत्यर्थम् उपयुज्यमानं शरीरस्य ग्लानि-शैथिल्य-दौर्बल्य-अभिनिर्वृत्तिकरं भवति। ये हि एनद् ग्राम-नगर-निगम-जनपदाः सततम् उपयुञ्जते, ते भूयिष्ठं ग्लास्नवः शिथिल-मांस-शोणिताः अपरिक्लेशसहाः च भवन्ति।तद् यथा-बाह्लीक-सौराष्ट्रिक-सैन्धव-सौवीरकाः; ते हि पयसा अपि सह लवणम् अश्नन्ति।ये अपि इह भूमेः अति- ऊषरा देशाः, तेषु ओषधि-वीरुध्-वनस्पति-वानस्पत्याः न जायन्ते अल्पतेजसः वा भवन्ति, लवण-उपहतत्वात्।तस्मात् लवणं न अति उपयुञ्जीत। ये हि अति-लवण-सात्म्याः पुरुषाः तेषाम् अपि खालित्य-पालित्यानि वलयः च अकाले भवन्ति॥ च.वि.१.१८॥

सरलार्थः-
लवणम् उष्णतीक्ष्णगुणयुक्तम्।तद् अतिगुरु नास्ति, अतिस्निग्धं नास्ति।तद् उपक्लेदं जनयति।विस्रंसनकर्म कर्तुं तत् समर्थम् अस्ति।तद् अन्नद्रव्यस्य रुचिं जनयति।यदि प्रयोगः उचितः भवति,तर्हि तद् आरम्भे लाभकरं भवति।परं प्रयोगस्य अनुबन्धः भवति चेत् दोषसञ्चयः भवति।रोचनाय, पाचनाय, उपक्लेदनाय, विस्रंसनाय तस्य उपयोगः भवति।तस्य अति-उपयोगः भवति चेत् शरीरे ग्लानिः, शैथिल्यं, दौर्बल्यम् उत्पद्यते।ये ग्राम-नगर-निगम-जनपदवासिनः लवणस्य सततं प्रयोगं कुर्वन्ति, तेषाम् अतिशयेन ग्लानिः मांसरक्तशैथिल्यं तथा क्लेशासहिष्णुत्वं भवति।यथा बाह्लीकदेशस्थाः, सौराष्ट्रस्थाः, सिन्धुदेशस्थाः, सौवीरदेशस्थाः च। ते जनाः दुग्धेन सह अपि लवणं खादन्ति।अस्यां भूम्याम् ये देशाः अतिलवणयुक्ताः ,तेषु ओषधयः, वीरुधः, वनस्पतयः, वानस्पत्याः च न उद्भवन्ति।यदि जायन्ते, तर्हि ते लवणेन उपहताः भवन्ति।तेन तेषाम् ओषध्यादीनां तेजः अल्पं भवति।अतः लवणस्य अतिप्रयोगः न कार्यः।येषां पुरुषाणाम् अतिलवणं सात्म्यं, तेषाम् अपि खालित्यं पालित्यं वलयः च अकाले भवन्ति। च.वि.१.१८

आयुर्वेददीपिका-
ग्लानिः मांस-अपचयः हर्षक्षयः वा। न केवलं लवण-अतियोगशरीर-उपघातकरः; किन्तु भूमेः अपि उपघातकरः इति आह ये अपि इह इत्यादि। ऊषराः इति लवण-प्रधानाः। लवणं न अति-उपयुञ्जीत इति न अतिमात्रं लवणं सततम् उपयुञ्जीत, अन्नद्रव्यसंस्कारकं तु स्तोकमात्रम् अभ्यासेन अपि उपयोजनीयम् एव। बाह्लीकादि-व्यतिरिक्ते अपि देशे ये अतिलवणम् अश्नन्ति तेषाम् अपि दोषान् आह ये हि इत्यादि।एतेन च अन्यत्र अपि देशे अतिमात्रलवणसात्म्यानां लवण-अत्युपयोगकृतः एव शैथिल्यादिदोषः उन्नीयते, न देशस्वभावकृतः॥ च.वि.१.१८॥

सुशीला पञ्जिका-

औष्ण्य-तैक्ष्ण्य-उपपन्नम् इति।औष्ण्यं च तैक्ष्ण्यं च औष्ण्यतैक्ष्ण्ये। औष्ण्यतैक्ष्ण्याभ्याम् उपपन्नम् औष्ण्य-तैक्ष्ण्य-उपपन्नम्। उपपन्नमिति समवेतम्।
अनतिगुरु इति।अतिशयितं गुरु अतिगुरु।न अतिगुरु अनतिगुरु।लवणविशेषणम्।
अनतिस्निग्धम् इति।अतिशयितं स्निग्धम् अतिस्निग्धम्।न अतिस्निग्धम् अनतिस्निग्धम्। लवणविशेषणम्।
उपक्लेदि इति।उपक्लेदयति आद्रीकरोति इति उपक्लेदि।
...ग्रह्यादिभ्यः णिनिः (अष्टा.३.१.१३४)

इति णिनिप्रत्ययः।लवणस्य विशेषणमिदम्।

विस्रंसन-समर्थम् इति।विस्रंसने कर्मणि समर्थम् इति तत्पुरुषः।एतदपि लवणस्य विशेषणम्।
अन्नद्रव्य-रुचिकरम् इति।अन्नं च तद् द्रव्यं च अन्नद्रव्यम् इति कर्मधारयः।अन्नद्रव्यस्य रुचिः अन्नद्रव्यरुचिः।अन्नद्रव्यरुचेः करम् अन्नद्रव्यरुचि-करम्।करोति इति करम्।
पचादिभ्यः अच् (अष्टा.३.१.१३४)

इति कृधातोः अच्प्रत्ययः।

आपातभद्रम् इति।आपातः इति आरम्भः।आपाते भद्रम् आपातभद्रम्।

प्रयोगसमसाद्गुण्यात् इति।प्रयोगसमसाद्गुण्यम् इति पदं पूर्वं (च.वि.१.१६) सविस्तरं भञ्जितम् अतः नात्र पुनरुच्यते। प्रयोगसमसाद्गुण्यात् इति पञ्चमी विभक्तिः।

विभाषा गुणेऽस्त्रियाम् । अष्टा.२.३.२५

इति अनेन हेत्वर्थे पञ्चमी एषा।‘समप्रयोगः प्रशस्तगुणयुक्तः भवति अतः’ इति अस्य समस्तपदस्य अर्थः।

दोषसञ्चय-अनुबन्धम् इति। इदं पदमपि पूर्वं (च.वि.१.१६) भञ्जितम्।
रोचन-पाचन-उपक्लेदन-विस्रंसनार्थम् इति।रोचनं च पाचनं च उपक्लेदनं च विस्रंसनं च रोचनपाचनोपक्लेदनविस्रंसनानि। तानि एव अर्थः प्रयोजनं यथा स्यात् तथा रोचन-पाचन-उपक्लेदन-विस्रंसनार्थम् ।अस्य क्रियाविशेषणस्य ‘उपयुज्यते’ इति क्रियया सह अन्वयः।
ग्लानि-शैथिल्य-दौर्बल्य-अभिनिर्वृत्तिकरमिति।ग्लानिः च शैथिल्यं च दौर्बल्यं च ग्लानिशैथिल्यदौर्बल्यानि।तेषाम् अभिनिर्वृत्तिः निर्मितिः ग्लानिशैथिल्यदौर्बल्या-भिनिर्वृतिः। ग्लानिशैथिल्यदौर्बल्याभिनिर्वृत्तेः करं ग्लानि-शैथिल्य-दौर्बल्य-अभिनिर्वृत्तिकरम्।
ग्राम-नगर-निगम-जनपदाः इति।समस्तपदमिदं भञ्जितं पूर्वम् (च.वि.१.१६)
ग्लास्नवः इति।
ग्लाजिस्थश्च क्स्नुः।(अष्टा.३.२.१३९)

इत्यनेन ग्लैधातोः स्नुप्रत्ययः। ग्लायतीति ग्लास्नुः।ग्लानः इत्यर्थः।

शिथिल-मांस-शोणिताः इति।मांसं च शोणितं च मांसशोणिते।शिथिले मांसशोणिते येषां ते शिथिलमांसशोणिताः इति बहुव्रीहिः।ग्रामनगरनिगमजनपदाः इत्यस्य विशेषणमेतत्।
अपरिक्लेशसहाः इति।सहन्ते इति सहाः।
पचादिभ्यः अच् (अष्टा.३.१.१३४)

इति अच्प्रत्ययः।परिक्लेशस्य सहाः परिक्लेशसहाः। न परिक्लेशसहाः अपरिक्लेशसहाः इति नञ्समासः। ग्रामनगरनिगमजनपदाः इत्यस्य विशेषणमेतत्।

बाह्लीक-सौराष्ट्रिक-सैन्धव-सौवीरकाः इति।बाह्लीकाः च सौराष्ट्रिकाः च सैन्धवाः च सौवीरकाः च बाह्लीक-सौराष्ट्रिक-सैन्धव-सौवीरकाः।
तत्र भवः (अष्टा.४.३.५३)

इति अनेन साधिताः एते चत्वारः शब्दाः।बह्लीदेशे भवन्ति ते बाह्लीकाः। सौराष्ट्रदेशे भवन्ति, ते सौराष्ट्रिकाः।सिन्धुदेशे भवन्ति ते सौराष्ट्रिकाः।सुवीरदेशे भवन्ति, ते सौवीरकाः।एतेषां विशेष्यं ‘पुरुषाः’ इति।

ओषधि-वीरुध्-वनस्पति-वानस्पत्याः इति।ओषधयः च वीरुधः च वनस्पतयः च वानस्पत्याः च ओषधि-वीरुध्-वनस्पति-वानस्पत्याः।
अल्पतेजसः इति।अल्पं तेजः येषां ते अल्पतेजसः। ओषधि-वीरुध्-वनस्पति-वानस्पत्याः इत्यस्य विशेषणम्।
लवण-उपहतत्वात् इति।लवणेन उपहतः लवणोपहतः।उपहतः इति बाधितः।
तस्य भावः त्वतलौ।(अष्टा. ५.१.११९)

इति अनेन लवणोपहतस्य भावः लवणोपहतत्वम् ।

अति-लवण-सात्म्याः इति।अतिशयितं लवणम् अतिलवणम्।अतिलवणं सात्म्यं येषां ते अतिलवणसात्म्याः।पुरुषविशेषणमेतत्।
खालित्य-पालित्यानि इति।खालित्यानि च पालित्यानि च खालित्यपालित्यानि।
अकाले इति।न कालः अकालः। नञः षड् अर्थाः सन्ति-
सादृश्यं तदभावश्च तदन्यत्वं तदल्पता।
अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः॥

एतेषु अप्राशस्त्यम् इत्यर्थः अत्र ग्राह्यः।तेन अप्रशस्तः कालः अकालः। खालित्य-पालित्यानाम् अप्रशस्तकालः इत्युक्ते बाल्यं वा तारुण्यं वा। च.वि.१.१८

च.वि.१.१७       चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका        च.वि.१.१९
"https://sa.wikibooks.org/w/index.php?title=च.वि.१.१८&oldid=6438" इत्यस्माद् प्रतिप्राप्तम्