च.वि.१.२४

विकिपुस्तकानि तः
Jump to navigation Jump to search

सूत्रम् -
तत्रेदमाहारविधिविधानमरोगाणामातुराणां चापि केषाञ्चित् काले प्रकृत्यैव हिततमंभुञ्जानानां भवति उष्णं, स्निग्धं, मात्रावत्, जीर्णे वीर्याविरुद्धम्, इष्टे देशे, इष्ट-सर्वोपकरणं, नातिद्रुतं, नातिविलम्बितम्, अजल्पन्, अहसन्, तन्मना भुञ्जीत, आत्मानमभिसमीक्ष्य सम्यक्॥ च.वि.१.२४॥

पदच्छेदः-
तत्र इदम् आहार-विधि-विधानम् अरोगाणाम् आतुराणां च अपि केषाञ्चित् काले प्रकृत्या एव हिततमं भुञ्जानानां भवति उष्णं, स्निग्धं, मात्रावत्, जीर्णे वीर्य-अविरुद्धम्, इष्टे देशे, इष्ट-सर्व-उपकरणं, न अतिद्रुतं, न अतिविलम्बितम्, अजल्पन्, अहसन्, तन्मनाः भुञ्जीत, आत्मानम् अभिसमीक्ष्य सम्यक्॥ च.वि.१.२४॥

अन्वयः-
तत्र इदम् आहार-विधि-विधानम् अरोगाणां केषाञ्चित् आतुराणां च अपि काले प्रकृत्या एव हिततमं भुञ्जानानां भवति उष्णं, स्निग्धं, मात्रावत्, जीर्णे वीर्य-अविरुद्धम्, इष्टे देशे, इष्ट-सर्व-उपकरणं, न अतिद्रुतं, न अतिविलम्बितम्, अजल्पन्, अहसन्, तन्मनाः आत्मानम् सम्यक् अभिसमीक्ष्य भुञ्जीत ॥ च.वि.१.२४॥

सरलार्थः-
इदानीम् स्वस्थानां कृते तथा केषाञ्चिद् आतुराणां कृते अपि काले स्वभावतः हितकरम् आहारविधिविधानम् उपदिशामः।तद् एवं भवति- उष्णं, स्निग्धं, प्रशस्तमात्रायुतं भुञ्जीत।पूर्वान्ने जीर्णे सति भुञ्जीत।वीर्य-अविरुद्धं भुञ्जीत।इष्टे देशे, इष्टैः सर्वैः उपकरणैः सह भुञ्जीत।अतिद्रुतं न भुञ्जीत।अतिविलम्बितं न भुञ्जीत।जल्पं विना, हसनं विना भुञ्जीत।आहारे मनः एकाग्रं कृत्वा, स्वस्य सम्यग् आलोचनं कृत्वा भुञ्जीत। च.वि.१.२४

आयुर्वेददीपिका-
तत्र इत्यादौ इदम् इति वक्ष्यमाणम्। आहारविधिः विधीयते येन उष्णस्निग्धादिना वक्ष्यमाणेन तद् आहारविधिविधानम्। आतुराणां च केषाञ्चिद् इति पदेन रक्तपित्तिनां शीतम् एव, कफरोगिणां रूक्षम् एव हितम् इत्यादि विपर्ययं दर्शयति। केषाञ्चिद् भुञ्जानानाम् इदम् आहारविधिविधानं हिततमं भवति इति योजना। प्रकृत्या एव इति स्वभावेन एव हिततमं हिततमम् इति उक्तं ; तेन यत् प्रकृत्या हितं तत् कदाचिद् एव कञ्चिद् एव पुरुषम् आसाद्य अहितं भवति, तत् च कादाचित्कत्वाद् अनादृतं; तेन प्रायिकत्वाद् एनं हिततमं वक्ष्यामहे इति भावः। उष्णम् इत्यादौ सम्यग् इति छेदः॥ च.वि.१.२४॥

सुशीला पञ्जिका-
आहार-विधि-विधानम् इति।आहारस्य विधिः आहारविधिः। आहारविधिः विधीयते येन तद् आहारविधिविधानम्।
अरोगाणाम् इति।न रोगः विद्यते येषां ते अरोगाः।स्वस्थाः इत्यर्थः
मात्रावत् इति।मात्रा अस्ति अस्मिन् इति मात्रावद्।

तदस्त्यस्यास्मिन् इति मतुप्।(अष्टा.५.२.९४)

अनेन मतुप्प्रत्ययः।ततः-

मादुपधायाश्च मतोर्वोऽयवादिभ्यः।(अष्टा.८.२.९)

इति मत्-प्रत्ययस्य वत् भवति।
मात्रावद् इति विशेषणमिदम्।अन्नम् इति तस्य विशेष्यम् अध्याहार्यम्।
वीर्य-अविरुद्धम् इति।न विरुद्धम् अविरुद्धम्।वीर्येण अविरुद्धं वीर्याविरुद्धम्।
इष्ट-सर्व-उपकरणम् इति।इष्टानि च सर्वाणि च इष्टसर्वाणि।इष्टसर्वाणि उपकरणानि सन्ति यस्मिन् तद् इष्टसर्वोपकरणम्।विशेषणम् एतत्।अन्नमिति अस्य विशेष्यम् अध्याहार्यम्।
तन्मनाः इति।तस्मिन् भोजने मनः यस्य सः तन्मनाः।आहारे चित्तमेकाग्रं कृत्वा इत्यर्थः॥ च.वि.१.२४॥

च.वि.१.२३      चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका         च.वि.१.२५
"https://sa.wikibooks.org/w/index.php?title=च.वि.१.२४&oldid=6444" इत्यस्माद् प्रतिप्राप्तम्