च.वि.१.२६-२८
सूत्रम् -
भवति चात्र-
रसान् द्रव्याणि दोषांश्च विकारांश्च प्रभावतः।
वेद यो देशकालौ च शरीरं च स नो भिषक्॥ च.वि.१.२६॥
पदच्छेदः-
भवति च अत्र-
रसान् द्रव्याणि दोषान् च विकारान् च प्रभावतः।
वेद यः देशकालौ च शरीरं च सः नः भिषक्॥ च.वि.१.२६॥
अन्वयः-
भवति च अत्र-
यः रसान् द्रव्याणि दोषान् च विकारान् च प्रभावतः वेद, देशकालौ च शरीरं च वेद, सः नः भिषक्॥ च.वि.१.२६॥
सरलार्थः-
यः वैद्यः रसान्, द्रव्याणि,दोषान् तथा विकारान् प्रभावशः जानाति, देशं जानाति, कालं जानाति, शरीरं च जानाति, सः अस्माकम् अभिमतः वैद्यः। च.वि.१.२६
आयुर्वेददीपिका-
अध्याय-उक्त-रसप्रभावादिज्ञानं स्तौति रसानित्यादि। स नः भिषग् इति नः अस्माकं सम्मतः इति अर्थः॥ च.वि.१.२६॥
सुशीला पञ्जिका-
प्रभावतः इति।
- आद्यादिभ्य उपसङ्ख्यानम्।(वार्तिकम्, अष्टा.५.४.४३)
इत्यनेन सार्वविभक्तिकः तसिप्रत्ययः।प्रभावेण इत्यर्थः। देशकालौ इति।देशः च कालः च देशकालौ।वेद इत्यस्य कर्म। च.वि.१.२६॥
सूत्रम् -
तत्र श्लोकौ-
विमानार्थो रसद्रव्यदोषरोगाः प्रभावतः।
द्रव्याणि नातिसेव्यानि त्रिविधं सात्म्यमेव च॥ च.वि.१.२७॥
आहारायतनान्यष्टौ भोज्यसाद्गुण्यमेव च।
विमाने रससङ्ख्याते सर्वमेतत् प्रकाशितम्॥ च.वि.१.२८॥
पदच्छेदः-
तत्र श्लोकौ-
विमान-अर्थः रस-द्रव्य-दोष-रोगाः प्रभावतः।
द्रव्याणि न अतिसेव्यानि त्रिविधं सात्म्यम् एव च॥ च.वि.१.२७॥
आहार-आयतनानि अष्टौ भोज्य-साद्गुण्यम् एव च।
विमाने रससङ्ख्याते सर्वम् एतत् प्रकाशितम्॥ च.वि.१.२८॥
अन्वयः-
तत्र श्लोकौ-
विमान-अर्थः, प्रभावतः रस-द्रव्य-दोष-रोगाः , न अतिसेव्यानि द्रव्याणि त्रिविधं सात्म्यम् एव च॥ च.वि.१.२७॥ अष्टौ आहार-आयतनानि भोज्य-साद्गुण्यम् एव च, सर्वम् एतत् रससङ्ख्याते विमाने प्रकाशितम्॥ च.वि.१.२८॥
सरलार्थः-
तत्र अध्यायसारभूतौ श्लोकौ –
विमानशब्दस्य अर्थः,रसानां, द्रव्याणां दोषाणां रोगाणां च प्रभावः, अनतिसेव्यानि द्रव्याणि, सात्म्यस्य त्रयो भेदाः, अष्टौ आहारविधिविशेषायतनानि, भोज्यस्य अन्नस्य गुणाः, इति एतत् सर्वं रससङ्ख्याते विमाने स्पष्टीकृतम्॥ च.वि.१.२८
आयुर्वेददीपिका-
दोषविकारौ च यद्यपि त्रिविधकुक्षीये(वि.अ.२)प्रभावविस्तारेण वक्तव्यौ, तथा अपि इह सङ्क्षेपेण उक्तौ एव; तेन दोषविकारप्रभावौ अपि उक्तौ इति यद् उच्यते सङ्ग्रहे तत् साधु।तैलादि-द्रव्य-त्रय-कथनं च द्रव्यप्रभावगृहीतम् इति कृत्वा न पृथक् सङ्ग्रहे पठितम् ॥ च.वि.१.२७-२८॥
सुशीला पञ्जिका-
विमान-अर्थः इति।विमानस्य अर्थः।विमानशब्दस्य अर्थः इति यावत्।
प्रभावतः इति।प्रभावेण इत्यर्थः।अत्र तसिप्रत्ययः विद्यते इति पूर्वम् (च.वि.१.२६) उक्तम्।
रस-द्रव्य-दोष-रोगाः इति।रसाः च द्रव्याणि च दोषाः च रोगाः चेति द्वन्द्वः ॥ च.वि.१.२७॥
भोज्य-साद्गुण्यम् इति।भोज्यस्य साद्गुण्यम्।भोज्यस्य इति आहारस्य। आहारस्य प्रशस्तगुणयोगिता इत्यर्थः।
रससङ्ख्याते इति।रसाः सङ्ख्याताः यस्मिन् तद् रससङ्ख्यातम्। विमाने इत्यस्य विशेषणम्।यस्मिन् अध्याये रसाः सङ्ख्याताः, गणिताः तस्मिन् विमाने एतत् सर्वं प्रकाशितम् इत्यर्थः।
अथवा रसेन सङ्ख्यातं रससङ्ख्यातम्।रसेन इति रसशब्देन।सङ्ख्यातम् इति संज्ञितम्।विमाने इत्यस्य विशेषणम्।रसशब्देन यस्य संज्ञा, नामकरणं कृतं, तस्मिन् विमाने इत्यर्थः। रसविमानाध्याये एतत् सर्वं प्रकाशितम्। च.वि.१.२८॥
सूत्रम् -
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रसविमानं नाम प्रथमोऽध्यायः॥१॥
पदच्छेदः-
इति अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रसविमानं नाम प्रथमः अध्यायः॥१॥
अन्वयः-
इति अग्निवेशकृते चरकप्रतिसंस्कृते तन्त्रे विमानस्थाने रसविमानं नाम प्रथमः अध्यायः॥१॥
सरलार्थः-
इति अग्नेवेशेन कृते, चरकेण प्रतिसंस्कृते ग्रन्थे विमानस्थाने रसविमानसंज्ञकः प्रथमः अध्यायः समाप्तः॥१॥
आयुर्वेददीपिका-
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायाम् आयुर्वेददीपिकायां विमानस्थाने रसविमानं नाम प्रथमः अध्यायः॥१॥
- ॥ चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका ॥
च.वि.१.२५ चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका