च.वि.१.२५

विकिपुस्तकानि तः
Jump to navigation Jump to search

सूत्रम् -
तस्य साद्गुण्यमुपदेक्ष्यामः उष्णमश्नीयात्; उष्णं हि भुज्यमानं स्वदते, भुक्तंचाग्निमौदर्यमुदीरयति, क्षिप्रं जरां गच्छति, वातमनुलोमयति, श्लेष्माणं च परिह्राससयति ; तस्मादुष्णमश्नीयात्। च.वि.१. (२५.१)

पदच्छेदः-
तस्य साद्गुण्यम् उपदेक्ष्यामः- उष्णम् अश्नीयात्; उष्णं हि भुज्यमानं स्वदते, भुक्तं च अग्निम् औदर्यम् उदीरयति, क्षिप्रं जरां गच्छति, वातम् अनुलोमयति, श्लेष्माणं च परिह्रासयति तस्माद् उष्णम् अश्नीयात् च.वि.१. (२५.१)

अन्वयः-
तस्य साद्गुण्यम् उपदेक्ष्यामः- उष्णम् अश्नीयात्; उष्णं हि भुज्यमानं स्वदते, भुक्तं च अग्निम् औदर्यम् उदीरयति, क्षिप्रं जरां गच्छति, वातम् अनुलोमयति, श्लेष्माणं च परिह्रासयति तस्माद् उष्णम् अश्नीयात् च.वि.१. (२५.१)

सरलार्थः-
स्निग्धमश्नीयात्; स्निग्धं हि भुज्यमानं स्वदते, भुक्तं चानुदीर्णमग्निमुदीरयति, क्षिप्रंजरां गच्छति, वातमनुलोमयति, शरीरमुपचिनोति, दृढीकरोतीन्द्रियाणि,बलाभिवृद्धिमुपजनयति, वर्णप्रसादं चाभिनिर्वर्तयति; तस्मात् स्निग्धमश्नीयात्। च.वि.१. (२५.२)

पदच्छेदः-
स्निग्धम् अश्नीयात्; स्निग्धं हि भुज्यमानं स्वदते, भुक्तं च अनुदीर्णम् अग्निम् उदीरयति, क्षिप्रं जरां गच्छति, वातम् अनुलोमयति, शरीरम् उपचिनोति, दृढीकरोति इन्द्रियाणि, बल-अभिवृद्धिम् उपजनयति, वर्णप्रसादं च अभिनिर्वर्तयति; तस्मात् स्निग्धम् अश्नीयात्। च.वि.१. (२५.२)

अन्वयः-
स्निग्धम् अश्नीयात्; स्निग्धं हि भुज्यमानं स्वदते, भुक्तं च अनुदीर्णम् अग्निम् उदीरयति, क्षिप्रं जरां गच्छति, वातम् अनुलोमयति, शरीरम् उपचिनोति, इन्द्रियाणि दृढीकरोति, बल-अभिवृद्धिम् उपजनयति, वर्णप्रसादं च अभिनिर्वर्तयति; तस्मात् स्निग्धम् अश्नीयात्। च.वि.१. (२५.२)

सरलार्थः-
स्निग्धं खादेत्।यतो हि यः स्निग्धं खादति, तस्य आहारः रुचिकरःभवति।स्निग्धः आहारः अदीप्तम् अग्निं दीपयति।स्निग्धम् अन्नं अल्पेन कालेन पच्यते।तद् वातस्य अनुलोमनं करोति, शरीरस्य उपचयं करोति, इन्द्रियाणां दृढीकरणं करोति, बलं वर्धयति, वर्णस्य प्रसन्नतां जनयति।अतः स्निग्धं खादेत्। च.वि.१.२५.२

आयुर्वेददीपिका-
तस्य इति उष्णादिगुणयुक्तस्य अन्नस्य। साद्गुण्यम् इति प्रशस्तगुणयोगिताम्। परिह्रासयति इति भिन्नसङ्घातं करोति॥ च.वि.१.२५.१,२

सुशीला पञ्जिका-
साद्गुण्यम् इति। चक्रपाणिः लिखति –

साद्गुण्यम् इति प्रशस्तगुणयोगिताम्।
सत्ये साधौ विद्यमाने प्रशस्ताभ्यर्हिते च सत्॥अमरः३.३.८३

अतः सद्गुणः इत्युक्ते प्रशस्तगुणः।तस्य भावः साद्गुण्यम्।अन्नस्य साद्गुण्यम् इति अन्ने विद्यमानानां प्रशस्तगुणानां भावः।अयमेवाभिप्रायः चक्रपाणिवचनस्य
औदर्यम् इति।( च.वि.१.२५.१)

शरीरावयवाच्च ।(अष्टा.४.३.५५)

इत्यनेन यत्प्रत्ययः।उदरे भवः उदर्यः।ततः स्वार्थे अण्।

शर्करादिभ्योऽण्।(अष्टा.५.३.१०७)

उदर्यः इव औदर्यः।‘यः उदरे भवति, सः’ इत्यर्थः।अग्निविशेषणम्।
अनुदीर्णम् इति।उदीर्णः इति उद्दीप्तः।न उदीर्णः अनुदीर्णः।अनुदीर्णम् अग्निम् उदीरयति इति अदीप्तमग्निं दीपयति।
बल-अभिवृद्धिम् इति।बलस्य अभिवृद्धिः बलाभिवृद्धिः।ताम् उपजनयति इति अन्वयः।
वर्णप्रसादम् इति।वर्णस्य प्रसादः वर्णप्रसादः।प्रसादः प्रसन्नता।वर्णस्य प्रसादम् अभिनिर्वर्तयति इति अन्वयः।( च.वि.१.२५.२)

सूत्रम् -
मात्रावदश्नीयात्; मात्रावद्धि भुक्तं वातपित्तकफानपीडयदायुरेव विवर्धयति केवलं, सुखंगुदमनुपर्येति, न चोष्माणमुपहन्ति, अव्यथं च परिपाकमेति; तस्मान्मात्रावदश्नीयात् च.वि.१. (२५.३)

पदच्छेदः-
मात्रावद् अश्नीयात्; मात्रावद् हि भुक्तं वातपित्तकफान् अपीडयद् आयुः एव विवर्धयति केवलं, सुखं गुदम् अनुपर्येति, न च उष्माणम् उपहन्ति, अव्यथं च परिपाकम् एति; तस्मात् मात्रावद् अश्नीयात्। च.वि.१. (२५.३)

अन्वयः-
मात्रावद् अश्नीयात्; मात्रावद् हि भुक्तं वातपित्तकफान् अपीडयद् केवलम् आयुः एव विवर्धयति , सुखं गुदम् अनुपर्येति, उष्माणम् च न उपहन्ति, अव्यथं च परिपाकम् एति; तस्मात् मात्रावद् अश्नीयात्। च.वि.१. (२५.३)

सरलार्थः-
उचितमात्रायुक्तम् अन्नं खादेत्।यतो हि मात्रायुक्तम् अन्नं वातपित्तकफानां पीड्नं न करोति।तद् अन्नं केवलम् आयुषः वृद्धिं करोति।तत् सुखेन गुदपर्यन्तं गच्छति।अग्नेः उपघातं न करोति।पाककाले काम् अपि व्यथां न करोति।अतः मात्रायुक्तम् अन्नं खादेत्। च.वि.१.२५.३

आयुर्वेददीपिका-
मात्रावद् इति प्रशंसायां मतुप्; तेन प्रशस्तमात्रम् इति अर्थः।अपीडयद् इति अनति-मात्रत्वेन स्वस्थान-स्थितं सद् वातादीन् स्थान-अपीडनाद् प्रकोपयत्। गुदम् अनुपर्येति इति परिणतं सद् अनुरूपतया निःसरति इति अर्थः।ऊष्माणं वह्निम्॥ च.वि.१.२५.३

सुशीला पञ्जिका-
मात्रावद् इति।

तदस्यास्त्यस्मिन् इति मतुप्।(अष्टा.५.२.९४)

इति सूत्रेण मात्राशब्दात् मतुप्प्रत्ययः।अयं प्रत्ययः नैकेषु अर्थेषु भवति यथा –

भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने।
संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः॥ काशिका(अष्टा.५.२.९४)

‘मात्रावत्’ इत्यत्र एषु कः अर्थः अभिप्रेतः?चक्रपाणिः टीकते -

मात्रावद् इति प्रशंसायां मतुप्; तेन प्रशस्तमात्रम् इति अर्थः।

वातपित्तकफान् इति।वातः च पित्तं च कफः च वातपित्तकफाः।तान् वातपित्तकफान्।अपीडयत् इत्यस्य कर्म।
अव्यथम् इति।अविद्यामाना व्यथा यथा स्यात् तथा इति अव्यथम्। परिपाकमेति इति क्रियायाः विशेषणमिदम्। च.वि.१. (२५.३)

सूत्रम् -
जीर्णेऽश्नीयात्; अजीर्णे हि भुञ्जानस्याभ्यवहृतमाहारजातं पूर्वस्याहारस्य रसम-परिणतमुत्तरेणाहाररसेनोपसृजत् सर्वान् दोषान् प्रकोपयत्याशु, जीर्णे तु भुञ्जानस्यस्वस्थानस्थेषु दोषेष्वग्नौ चोदीर्णे जातायां च बुभुक्षायां विवृतेषु च स्रोतसां मुखेषु विशुद्धे चोद्गारे हृदये विशुद्धे वातानुलोम्ये विसृष्टेषु च वातमूत्रपुरीषवेगेष्वभ्यवहृतमा-हारजातंसर्वशरीरधातूनप्रदूषयदायुरेवाभिवर्धयति केवलं; तस्माज्जीर्णेऽश्नीयात् च.वि.१. (२५.४)

पदच्छेदः-
जीर्णे अश्नीयात्; अजीर्णे हि भुञ्जानस्य अभ्यवहृतम् आहारजातं पूर्वस्य आहारस्य रसम् अपरिणतम् उत्तरेण आहार-रसेन उपसृजत् सर्वान् दोषान् प्रकोपयति आशु, जीर्णे तु भुञ्जानस्य स्वस्थानस्थेषु दोषेषु अग्नौ च उदीर्णे जातायां च बुभुक्षायां विवृतेषु च स्रोतसां मुखेषु विशुद्धे च उद्गारे हृदये विशुद्धे वातानुलोम्ये विसृष्टेषु च वात-मूत्र-पुरीष-वेगेषु अभ्यवहृतम् आहारजातं सर्वशरीरधातून् अप्रदूषयद् आयुः एव अभिवर्धयति केवलं; तस्मात् जीर्णे अश्नीयात् च.वि.१. (२५.४)

अन्वयः-
जीर्णे अश्नीयात्; अजीर्णे हि भुञ्जानस्य अभ्यवहृतम् आहारजातं पूर्वस्य आहारस्य रसम् अपरिणतम् उत्तरेण आहार-रसेन उपसृजत् सर्वान् दोषान् आशु प्रकोपयति, जीर्णे तु भुञ्जानस्य स्वस्थानस्थेषु दोषेषु अग्नौ च उदीर्णे जातायां च बुभुक्षायां विवृतेषु च स्रोतसां मुखेषु विशुद्धे च उद्गारे हृदये विशुद्धे वातानुलोम्ये विसृष्टेषु च वात-मूत्र-पुरीष-वेगेषु अभ्यवहृतम् आहारजातं सर्वशरीरधातून् अप्रदूषयद् केवलम् आयुः एव अभिवर्धयति ; तस्मात् जीर्णे अश्नीयात् च.वि.१. (२५.४)

सरलार्थः-
पूर्वान्ने जीर्णे सति खादेत्।यतो हि अजीर्णे सति यः खादति, तस्य भुक्तम् अन्नं पूर्वस्य आहारस्य अपरिणतं रसं तथा उत्तरस्य आहारस्य रसं मेलयति।ततः सर्वान् दोषान् सत्वरं प्रकोपयति।परन्तु यदा पूर्वाहारः जीर्णः अस्ति, यदा सर्वे दोषाः स्वस्थाने सन्ति, यदा अग्निः उदीर्णः अस्ति, यदा बुभुक्षा उत्पन्ना अस्ति, यदा स्रोतोमुखानि विवृतानि सन्ति, यदा उद्गारः विशुद्धः अस्ति, यदा हृदयं विशुद्धम् अस्ति, यदा वातः अनुलोमः अस्ति, यदा च वातमूत्रपुरीषवेगाः विसृष्टाः सन्ति, तदा भुक्तम् अन्नं शरीरधातून् न प्रदूषयति, केवलम् आयुः एव वर्धयति अतः पूर्वान्ने जीर्णे सति खादेत्। च.वि.१.२५.४

आयुर्वेददीपिका-
पूर्वस्य इति दिनान्तरकृतस्य। अपरिणतम् इति असम्यग्जातम्। आहाररसेन इति आहारपरिणामगतेन मधुरादिना;किंवा आहारजेन रसेन।स्वस्थानस्थेषु दोषेषु इत्यादि जीर्णाहारस्य लक्षणम्॥ च.वि.१.२५.४

सुशीला पञ्जिका-
आहारजातमिति।जातशब्दस्य समूहः इत्यर्थः वाचस्पत्ये उक्तः।सोऽत्र ग्राह्यः।आहारस्य जातम् इत्युक्ते आहारस्य समूहः।
आहार-रसेन इति।आहारात् रसः आहाररसः।आहारस्य अवस्थापाकेषु मधुर-अम्ल-कटुरसाः क्रमात् जायन्ते। ते अत्र आहाररसशब्देन अभिप्रेताः।अथवा आहारात् जातः रसः यः अन्नरसः इत्युच्यते, सोऽत्र आहाररसशब्देन अभिप्रेतः।उभौ अपि अर्थौ चक्रपाणिना दर्शितौ।
सर्वशरीरधातून् इति।शरीरे धातवः शरीरधातवः।सर्वे च ते शरीरधातवः सर्वशरीरधातवः।( च.वि.१.२५.४)

सूत्रम् -
वीर्याविरुद्धमश्नीयात्; अविरुद्धवीर्यमश्नन् हि विरुद्धवीर्याहारजैर्विकारैर्नोपसृज्यते;तस्माद्वीर्याविरुद्धमश्नीयात्। (च.वि.१.२५.५)

पदच्छेदः-
वीर्य-अविरुद्धम् अश्नीयात्; अविरुद्धवीर्यम् अश्नन् हि विरुद्धवीर्य-आहारजैः विकारैः न उपसृज्यते; तस्माद् वीर्य-अविरुद्धम् अश्नीयात्। (च.वि.१.२५.५)

अन्वयः-
वीर्य-अविरुद्धम् अश्नीयात्; अविरुद्धवीर्यम् अश्नन् हि विरुद्धवीर्य-आहारजैः विकारैः न उपसृज्यते; तस्माद् वीर्य-अविरुद्धम् अश्नीयात्। (च.वि.१.२५.५)

सरलार्थः-
वीर्यतः अविरुद्धम् अन्नं खादेत्।यः वीर्यतः विरुद्धम् अन्नं भुङ्क्ते, सः विरुद्धवीर्याहारजन्यैः रोगैः न पीड्यते।अतः वीर्यतः अविरुद्धम् अन्नं खादेत्। च.वि.१.२५.५

आयुर्वेददीपिका-
विरुद्ध-वीर्य-आहारजैः इति कुष्ठ-आन्ध्य-विसर्पाद्यैः आत्रेयभद्रकाप्यीय-उक्तैः॥ च.वि.१.२५.५

सुशीला पञ्जिका-
विरुद्ध-वीर्य-आहारजैः इति ।विरुद्धे वीर्ये विरुद्धवीर्ये।विरुद्धवीर्ययुतः आहारः विरुद्धवीर्याहारः। शाकपार्थिवादिवत्समासः।

पञ्चम्यामजातौ।(अष्टा.३.२.९८)

इति अनेन जनिधातोः डप्रत्ययः।तेन विरुद्धवीर्याहारात् जाताः विरुद्धवीर्याहारजाः। तैः विकारैः इति विशेषणविशेष्यभावः। च.वि.१.२५.५

सूत्रम् -
इष्टे देशे इष्टसर्वोपकरणं चाश्नीयात्; इष्टे हि देशे भुञ्जानो नानिष्टदेशजैर्मनोविघात-करैर्भावैर्मनोविघातं प्राप्नोति, तथैवेष्टैः सर्वोपकरणैः;तस्मादिष्टे देशे तथेष्टसर्वोपकरणं चाश्नीयात् ।( च.वि.१.२५.६)

पदच्छेदः-
इष्टे देशे इष्ट-सर्व-उपकरणं च अश्नीयात्; इष्टे हि देशे भुञ्जानः न अनिष्टदेशजैः मनोविघातकरैः भावैः मनोविघातं प्राप्नोति, तथैव इष्टैः सर्वोपकरणैः; तस्माद् इष्टे देशे तथा इष्टसर्वोपकरणं च श्नीयात् ।( च.वि.१.२५.६)

अन्वयः-
इष्टे देशे इष्ट-सर्व-उपकरणं च अश्नीयात्; हि इष्टे देशे भुञ्जानः अनिष्टदेशजैः मनोविघातकरैः भावैः मनोविघातं न प्राप्नोति, तथैव इष्टैः सर्वोपकरणैः; तस्माद् इष्टे देशे तथा इष्टसर्वोपकरणं च अश्नीयात् ।( च.वि.१.२५.६)

सरलार्थः-
इष्टे देशे खादेत् तथा इष्टैः सर्वैः उपकरणैः सह खादेत्।यतो हि इष्टे देशे यः खादति, तस्य अनिष्टदेशजन्यैः मनोविघातकरैः भावैः मनोविघातस्य सम्भवः नास्ति।तथा एव इष्टैः सर्वैः उपकरणैः यः खादति तस्य अपि मनोविघातकरैः भावैः मनोविघातस्य सम्भवः नास्ति।अतः इष्टे देशे खादेत् तथा इष्टैः सर्वैः उपकरणैः खादेत्। च.वि.१.२५.६

आयुर्वेददीपिका-
मनोविघातकरैः भावैः इति त्रिविधकुक्षीये (वि.अ.२)वक्ष्यमाणैः कामादिभिः चित्त-उपतापकरैः चित्तविकारैः इति अर्थः। तथा इष्टैः च सर्वोपकरणैः भुञ्जानः मनो-विघातं न प्राप्नोति इति योजना; अनिष्टभोजनादेः मनोविघातः भवति॥ च.वि.१. २५.६

सुशीला पञ्जिका-
अनिष्टदेशजैः इति।न इष्टः अनिष्टः।अनिष्टः देशः अनिष्टदेशः।अनिष्टदेशे जातः अनिष्टदेशजः।

सप्तम्यां जनेर्डः ।(अष्टा.३.२.९७)

इत्यनेन डप्रत्ययः।
मनोविघातकरैः इति।करोतीति करः।

पचादिभ्यः अच् (अष्टा.३.१.१३४)

मनसः विघातः मनोविघातः।मनोविघातस्य करः मनोविघातकरः।तैः मनोविघातकरैः भावैः इत्यन्वयः। च.वि.१.२५.६

सूत्रम् -
नातिद्रुतमश्नीयात्; अतिद्रुतं हि भुञ्जानस्योत्स्नेहनमवसादनं भोजनस्याप्रतिष्ठानं च, भोज्यदोषसाद्गण्योपलब्धिश्च न नियता; तस्मान्नातिद्रुतमश्नीयात् (च.वि.१.२५.७)

पदच्छेदः-
न अतिद्रुतम् अश्नीयात्; अतिद्रुतं हि भुञ्जानस्य उत्स्नेहनम् अवसादनं भोजनस्य अप्रतिष्ठानं च, भोज्य-दोष-साद्गण्य-उपलब्धिः च न नियता; तस्मात् न अतिद्रुतम् अश्नीयात् च.वि.१. (२५.७)

अन्वयः-
न अतिद्रुतम् अश्नीयात्; अतिद्रुतं हि भुञ्जानस्य उत्स्नेहनम् अवसादनं भोजनस्य अप्रतिष्ठानं च, भोज्य-दोष-साद्गण्य-उपलब्धिः च न नियता; तस्मात् अतिद्रुतम् न अश्नीयात् (च.वि.१.२५.७)

सरलार्थः-
अतित्वरया न खादेत्।यतो हि यः अतित्वरया खादति, तस्य भोजनम् ऊर्ध्वं गच्छति, अथवा अधः गच्छति अथवा कोष्ठं न प्राप्नोति(उपरि एव सक्तं तिष्ठति)। अतित्वरया यः खादति, सः अन्नस्य दोषं वा गुणं वा कदाचित् जानाति, कदाचित् नापि जानाति।अतः अतित्वरया न खादेत्। च.वि.१.२५.७

आयुर्वेददीपिका-
उत्स्नेहनम् उन्मार्गगमनम्। अवसदनम् अवसादः। अप्रतिष्ठानं हृदयस्थत्वेन कोष्ठ-अप्रवेशः। भोज्यगतानां दोषाणां केशादीनां, साद्गुण्यस्य च स्वादुत्वादेः, उपलब्धिः न नियता भवति कदाचिद् उपलभ्यते कदाचित् न इति।तत्र दोष-अनुपलब्ध्या सदोषस्य एव भक्षणं, साद्गुण्य-अनुपलब्ध्या च प्रीति-अभावः॥ च.वि.१.२५.७

सुशीला पञ्जिका-
भोज्य-दोष-साद्गण्य-उपलब्धिःइति।दोषाः च साद्गुण्यं च दोषसाद्बुण्यानि। भोज्ये दोषसाद्गुण्यानि भोज्यदोषसाद्गुण्यानि।भोज्यदोषसाद्गुण्यानाम् उपलब्धिः भोज्य-दोष-साद्गुण्य-उपलब्धिः।एषा उपलब्धिः न नियता इति अन्वयः। उपलब्धिः ज्ञानम्।भोज्ये ये दोषाः सन्ति, चे प्रशस्तगुणाः सन्ति, तेषां ज्ञानं कदाचिद् भवति, कदाचिद् नापि भवति इति ‘भोज्यदोषसाद्गुण्योपलब्धिः अनियता’ इति वचनस्य अर्थः। च.वि.१.२५.७

सूत्रम् -
नातिविलम्बितमश्नीयात्; अतिविलम्बितं हि भुञ्जानो न तृप्तिमधिगच्छति, बहु भुङ्क्ते,शीतीभवत्याहारजातं, विषमं च पच्यते; तस्मान्नातिविलम्बितमश्नीयात् च.वि.१.२५.८

पदच्छेदः-
न अतिविलम्बितम् अश्नीयात्; अतिविलम्बितं हि भुञ्जानो न तृप्तिम् अधिगच्छति, बहु भुङ्क्ते,शीतीभवति आहारजातं, विषमं च पच्यते; तस्मात् न अतिविलम्बितम् अश्नीयात् । च.वि.१.२५.८

अन्वयः-
न अतिविलम्बितम् अश्नीयात्; अतिविलम्बितं हि भुञ्जानो तृप्तिं न अधिगच्छति, बहु भुङ्क्ते, आहारजातं शीतीभवति, विषमं च पच्यते; तस्मात् अतिविलम्बितम् न अश्नीयात् । च.वि.१.२५.८

सरलार्थः-
अतिमन्दं न खादेत्।यतो हि यः अतिमन्दगत्या खादति, सः तृप्तिं न लभते।बहु खादति।तस्य अन्नं शीतं भवति।तस्य पचनं समं न भवति।अतः अतिमन्दं न खादेत्। च.वि.१.२५.८

आयुर्वेददीपिका-
विषमं च पच्यते इति चिरकाल-भोजनेन अग्निसम्बन्धस्य वैषम्याद् इति भावः॥ च.वि.१.२५.८

सुशीला पञ्जिका-
शीतीभवति इति।

कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः।(अष्टा.५.४.५०)

इत्यनेन च्विप्रत्ययः।अशीतम् अन्नं शीतं सम्पद्यते इति अर्थः। उष्णमन्नं पात्रे परिवेषितं चेदपि मन्दं भुञ्जानस्य तदन्नं शनैः शनैः शीतं भवति इति मन्दभोजनस्य दोषः।च.वि.१.२५.८

सूत्रम् -
अजल्पन्नहसन् तन्मना भुञ्जीत; जल्पतो हसतोऽन्यमनसो वा भुञ्जानस्य त एव हि दोषा भवन्ति, य एवातिद्रुतमश्नतः; तस्मादजल्पन्नहसंस्तन्मना भुञ्जीत। च.वि.१.२५.९

पदच्छेदः-
अजल्पन् अहसन् तन्मनाः भुञ्जीत; जल्पतः हसतः अन्यमनसः वा भुञ्जानस्य ते एव हि दोषाः भवन्ति, ये एव अतिद्रुतम् अश्नतः; तस्माद् अजल्पन् अहसन् तन्मनाः भुञ्जीत। च.वि.१.२५.९

अन्वयः-
अजल्पन् अहसन् तन्मनाः भुञ्जीत; जल्पतः हसतः अन्यमनसः वा भुञ्जानस्य ते एव हि दोषाः भवन्ति, ये एव अतिद्रुतम् अश्नतः; तस्माद् अजल्पन् अहसन् तन्मनाः भुञ्जीत। च.वि.१.२५.९

सरलार्थः-
जल्पनं विना, हसनं विना खादेत्।अन्ने चित्तम् आधाय खादेत्।यः जल्पन् हसन् अन्यत्र वा चित्तं कृत्वा खादति, तस्य ते एव दोषाः भवन्ति, ये अतिद्रुतं खादतः पुरुषस्य भवन्ति।अतः जल्पनं विना हसनं विना तथा अन्ने चित्तम् आधाय खादेत्। च.वि.१.२५.९

आयुर्वेददीपिका-
ये एव अतिद्रुतम् अश्नतः दोषाः इति उत्स्नेहन-आदयः॥ च.वि.१.२५.९

सुशीला पञ्जिका-
अन्यमनसः इति।अन्यस्मिन् मनः यस्य सः अन्यमनाः।तस्य अन्यमनसः।भुञ्जानस्य इति विशेष्यस्य विशेषणमिदम्। च.वि.१.२५.९

सूत्रम् -
आत्मानमभिसमीक्ष्य भुञ्जीत सम्यक्; इदं ममोपशेते इदं नोपशेत इत्येवं विदितंह्यस्यात्मनआत्मसात्म्यं भवति;तस्मादात्मानमभिसमीक्ष्य भुञ्जीत सम्यगिति॥ च.वि.१.२५

पदच्छेदः-
आत्मानम् अभिसमीक्ष्य भुञ्जीत सम्यक्; इदं मम उपशेते इदं न उपशेते इति एवं विदितं हि अस्य आत्मनः आत्मसात्म्यं भवति; तस्माद् आत्मानम् अभि-समीक्ष्य भुञ्जीत सम्यग् इति॥ च.वि.१.२५.

अन्वयः-
आत्मानम् अभिसमीक्ष्य सम्यक् भुञ्जीत ; इदं मम उपशेते इदं न उपशेते इति हि एवं विदितं अस्य आत्मनः आत्मसात्म्यं भवति; तस्माद् आत्मानम् अभि-समीक्ष्य सम्यग् भुञ्जीत इति॥ च.वि.१.२५.

सरलार्थः-
स्वस्य सम्यग् आलोचनं कृत्वा खादेत्।एतत् मम सात्म्यम्, एतद् मम असात्म्यम् इति पुरुषस्य ज्ञानम् अस्ति चेत् स्वस्य सात्म्यस्य सेवनं सम्भवति। अतः स्वस्य सम्यग् आलोचनं कृत्वा खादेत्। च.वि.१. २५

आयुर्वेददीपिका-
न उपशेते इति अत्र इतिशब्देन सात्म्य-असात्म्य-विधान-उपदर्शकेन विचारफलम् ओकसात्म्यसेवनं दर्शयति।आत्मनः इति पदेन आत्मना एव आत्मसात्म्यं प्रति-पुरुषं ज्ञायते, न शास्त्र-उपदेशेन इति दर्शयति।। च.वि.१.२५॥

सुशीला पञ्जिका-
आत्मसात्म्यम् इति।आत्मना सात्म्यम् आत्मसात्म्यम्। च.वि.१.२५

 च.वि.१.२४       चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका         च.वि.१.२६-२८
"https://sa.wikibooks.org/w/index.php?title=च.वि.१.२५&oldid=6445" इत्यस्माद् प्रतिप्राप्तम्