च.शा.१.००१-०१५
चरकसंहिता-आयुर्वेददीपिकयोः अरुन्धती-पद्धतिः
००१-००२
[सम्पाद्यताम्]अथातः कतिधापुरुषीयं शारीरं व्याख्यास्यामः॥१॥
इति ह स्माह भगवानात्रेयः॥२॥
पदच्छेदः-
अथ अतः कतिधापुरुषीयं शारीरं व्याख्यास्यामः॥१॥इति ह स्म आह भगवान आत्रेयः॥२॥
आयुर्वेददीपिका
निदानस्थाने ज्ञातहेत्वादिना तथा विमाने प्रतीतरसदोषादिमानेन कर्तव्यचिकित्सायाः अधिकरणं शरीरं ज्ञातव्यं भवति; यतः अप्रतिपन्ने अशेषविशेषतः शरीरे न शरीर-विज्ञान-अधीना चिकित्सा साध्वी भवति; अतः शरीरं कारण-उत्पत्ति-स्थिति-वृद्धि-आदि-विशेषैः प्रतिपादयितुं शारीरं स्थानम् उच्यते।अत्र अपि च अत्यन्तदुःख-उपरम-मोक्षकारण-चिकित्सा-उपयुक्त-पुरुषभेद-आदि-प्रतिपादकतया प्रधानत्वेन कतिधापुरुषीयः अध्यायः अभिधीयते ॥१-२॥
अरुन्धतीपद्धतिः –
ऱाजशेखरस्य काव्यमीमांसाग्रन्थे शास्त्रनिर्देशाख्ये द्वितीये अध्याये व्याख्याभेदाः उक्ताः।तत्र पद्धतिव्याख्याविषये उक्तम् –
सूत्राणां सकलसारविवरणं वृत्तिः ।
सूत्रवृत्तिविवेचनं पद्धतिः ।
प्रकृते चरकसंहिता इति सूत्रग्रन्थः।आयुर्वेददीपिका इति वृत्तिग्रन्थः।यतो हि चरकसूत्राणां सारविवरणपरा सा टीका।
चरकसंहिता तथा आयुर्वेददीपिका इति उभयोः विवेचनम् अत्र चिकीर्षितम्।अतः एषः पद्धतिग्रन्थः।
शारीरस्थानस्य आरम्भसूत्रमिदम्।मूले अथ इति आनन्तर्ये प्रयुक्तः शब्दः।कस्य आनन्तर्यम् इति विवृणोति चक्रपाणिः निदानस्थाने इत्यादिना।
अतः इति मूले हेत्वर्थकः शब्दः।शारीरविज्ञानस्य हेतुः कः इति इति टीकाकारः स्पष्टीकरोति यतोऽप्रतिपन्ने इत्यादिना।
भिषजा इति तृतीयान्तं पदम् अध्याहर्तव्यम् अस्मिन् चक्रपाणिवचने। ज्ञातहेत्वादिना तथा प्रतीतरस-दोषादिमानेन इति द्वे अपि भिषजा इत्यस्य विशेषणे। ज्ञाताः हेत्वादयः येन सः ज्ञातहेत्वादिः वैद्यः। प्रतीतं रसदोषादीनां मानं येन सः प्रतीतरसदोषादिमानः वैद्यः। एतादृशेन वैद्येन या कर्तव्या चिकित्सा तस्याः अधिकरणमस्ति शरीरम्।तद् वैद्येन अवश्यं ज्ञातव्यम्।
अशेषविशेषतः इति सर्वैः विशेषैः।अप्रतिपन्ने इति अज्ञाते।अप्रतिपन्ने शरीरे सति चिकित्सा साध्वी न भवति।कुतः?चिकित्सा शरीरविज्ञानस्य अधीना अस्ति अतः।
अनेन शारीरस्थानस्य प्रयोजनम् उक्तं टीकाकारेण।अधुना शारीरस्थानस्य विषयः उच्यते कारणोत्पत्त्यादिना समस्तेन पदेन।
कारणं च उत्पत्तिः च स्थितिः च वृद्धिः च कारणोत्पत्तिस्थितिवृद्धयः।ताः आदिः येषां ते कारणोत्पत्तिस्थिति-वृद्ध्यादयः विशेषाः । तान् विशेषान् प्रतिपादयितुम् इदं स्थानम् आरभ्यते। एष एव विषयः अस्य स्थानस्य।
अस्मिन् स्थाने कतिधापुरुषीयशारीरम् आदौ किमर्थं प्रतिपाद्यते इति विवृणोति चक्रपाणिः अत्रापि चेत्यादिना।
अत्यन्तदुःखोपरमः एव मोक्षः अत्यन्तदुःखोपरममोक्षः।तस्य मोक्षस्य कारणभूता या चिकित्सा सा अत्यन्तदुःखोपरममोक्षकारणचिकित्सा। तस्यां चिकित्सायाम् उपयुक्ताः पुरुषभेदादयः विचाराः।ते च विचाराः प्रधानभूताः।अतः तस्य प्रतिपादनम् अग्रे स्थानमर्हति। तत्प्रतिपादनपरः अयं कतिधापुरुषीयः अध्यायः, अतः आदौ उच्यते।
००३
[सम्पाद्यताम्]कतिधा पुरुषो धीमन्! धातुभेदेन भिद्यते।
पदच्छेदः-
कतिधा पुरुषः धीमन्! धातुभेदेन भिद्यते।
अन्वयः-
हे धीमन्! पुरुषः धातुभेदेन कतिधा भिद्यते?
सरलार्थः-
हे धीमन् धातुभेदेन पुरुषस्य कति भेदाः सम्भवन्ति?
आयुर्वेददीपिका
कतिधा इति कतिप्रकारः। पुरुषः इति अनेन च अविशेषेण पुरुषशब्द-अभिधेयः अर्थः अभिधीयते; यतः ‘खादयश्चेतनाषष्ठा’ इत्यादिना, तथा चतुर्विंशतिकभेद-भिन्नः च कर्मपुरुषः एव शरीरी वाच्यः, तथा ‘चेतनाधातुरप्येकः स्मृतःपुरुषसञ्ज्ञकः’ इति अनेन आत्मा एव शरीररहितः पुरुषशब्द-अर्थत्वेन वाच्यः।
अरुन्धतीपद्धतिः –
अग्निवेशः पुनर्वसुं प्रति प्रश्नान् पृच्छति।तत्र प्रथमः अयं प्रश्नः।
अग्निवेशस्य प्रश्ने पुरुषः इति शब्दः विद्यते।अस्य शब्दस्य नैके अर्थाः सम्भवन्ति।तेषु कः अर्थः ग्राह्यः इति सन्देहस्य उत्तरं सप्रमाणं वदति चक्रपाणिः पुरुष इत्यारभ्य।अविशेषेण इति सामान्यतः।अभिधेयोऽर्थः इति वाच्यार्थः।पुरुषशब्दस्य सामान्यतः यः यः वाच्यार्थः भवति सः सः अत्र ग्राह्यः इति आशयः।कुतः? पुनर्वसोः उत्तरात्।उत्तरे पुनर्वसुना खादयश्चेतनाषष्ठा इति एकः कर्मपुरुषः उक्तः।अपरः चतुर्विंशतिकः कर्मपुरुषः उक्तः।चेतनाधातुः इत्यनेन शरीरं विना केवलं चैतन्यं पुरुषशब्देन उक्तम्।अतः अग्निवेशस्य प्रश्ने पुरुषशब्दस्य एते सर्वे अर्थाः अभिप्रेताः आसन् इति गम्यते।
आयुर्वेददीपिका
पुरुषधारणात् धातुः; तेन धातुभेदेन इति पुरुषधारण-अर्थभेदेन।
अरुन्धतीपद्धतिः –
धातुशब्दः अस्मिन् शास्त्रे क्वचित् वातादिदोषेषु प्रयुज्यते, क्वचित् रसादिषु धातुषु प्रयुज्यते।अत्र तौ उभौ अपि अर्थौ न विवक्षितौ।अत्र धातुशब्दस्य विवक्षितम् अर्थं पदार्थतन्त्रयुक्त्या विशदयति टीकाकारः पुरुषधारणात् इति।धारणात् धातुः इति धातुशब्दस्य व्युत्पत्तिसिद्धः अर्थः।कस्य धारणम्? प्रकृतत्वात् पुरुषस्य धारणम्।अतः धातुभेदेन इत्यस्य अर्थः पुरुषधारकभेदेन। पुरुषः धातुभेदेन कतिधा भिद्यते इति प्रश्नस्य पुरुषधारकानुसारं पुरुषभेदाः कति भवन्ति इति अर्थः।
आयुर्वेददीपिका
धीमन् इति विशेषणेन यः एव धीमान् स एव पुरुषभेद-आदिकम् इमं वक्ष्यमाणं सुसूक्ष्मं वक्तुं समर्थः इति दर्शयति।
अरुन्धतीपद्धतिः –
मूले धीमन् इति पुनर्वसोः सम्बोधनम्।तस्य आशयं टीकाकारः प्रदर्शयति धीमन्निति विशेषणेन इत्यारभ्य।
पुरुषः कारणं कस्मात्, प्रभवः पुरुषस्य कः॥३॥
पदच्छेदः-
पुरुषः कारणं कस्मात्, प्रभवः पुरुषस्य कः॥३॥
अन्वयः-
‘पुरुषः कारणम्’ (इति) कस्मात्? पुरुषस्य प्रभवः कः?॥३॥
सरलार्थः-
पुरुषः संसारस्य कारणम् इति कस्माद् उच्यते? पुरुषस्य प्रभवः कः?
आयुर्वेददीपिका
पुरुषः कारणं कस्माद् इति कस्मात् हेतोः पुरुषः संसारे प्रधानं स्थायिकारणम् इति अर्थः। प्रभवति अस्माद् इति प्रभवः कारणम्।
अरुन्धतीपद्धतिः –
अग्निवेशस्य प्रश्नौ अत्र स्तः।प्रभवशब्दस्य कारणम् इत्यर्थः।सः अर्थः कथं निष्पद्यते इति दर्शयति प्रभवति अस्मात् इति निरुक्त्या।
००४-००५
[सम्पाद्यताम्]किमज्ञो ज्ञः, स नित्यः किं किमनित्यो निदर्शितः। प्रकृतिः का, विकाराः के, किं लिङ्गं पुरुषस्य च॥४॥
निष्क्रियं च स्वतन्त्रं च वशिनं सर्वगं विभुम्।वदन्त्यात्मानमात्मज्ञाः क्षेत्रज्ञं साक्षिणं तथा॥५॥
पदच्छेदः-
किम् अज्ञः ज्ञः, सः नित्यः किं किम् अनित्यः निदर्शितः। प्रकृतिः का, विकाराः के, किं लिङ्गं पुरुषस्य च॥४॥
निष्क्रियं च स्वतन्त्रं च वशिनं सर्वगं विभुम्।वदन्ति आत्मानम् आत्मज्ञाः क्षेत्रज्ञं साक्षिणं तथा॥५॥
अन्वयः-
सः किम् अज्ञः (अथवा)ज्ञः?सः किं नित्यः?सः किम् अनित्यः निदर्शितः? प्रकृतिः का? विकाराः के? पुरुषस्य लिङ्गं च किम्? ॥४॥आत्मज्ञाः आत्मानं निष्क्रियं च स्वतन्त्रं च वशिनं सर्वगं विभुम् क्षेत्रज्ञं तथा साक्षिणं वदन्ति ॥५॥
सरलार्थः-
सः पुरुषः किम् अज्ञः अस्ति अथवा ज्ञः अस्ति?सः पुरुषः किं नित्यः अथवा अनित्यः निदर्शितः अस्ति?प्रकृतिः नाम का? विकाराः के सन्ति? पुरुस्य चिह्नं किम्? यथा दूरे पर्वतस्थितस्य चक्षुषा अग्राह्यस्य अग्नेः लिङ्गं धूमः, तथा इन्द्रियाग्राह्यस्य पुरुषस्य लिङ्गं किम्? पुरुषः निष्क्रियः अस्ति, स्वतन्त्रः अस्ति, वशी अस्ति, सर्वगः अस्ति, विभुः अस्ति, क्षेत्रज्ञः अस्ति, साक्षी अस्ति इति आत्मज्ञाः पण्डिताः वदन्ति।
अरुन्धतीपद्धतिः –
पुरुषवर्णने यानि एतानि निष्क्रियादीनि विशेषणानि तेषु एकमेकम् आदाय अग्रे अग्निवेशः स्वस्य प्रश्नम् उपस्थापयिष्यति।
००६
[सम्पाद्यताम्]निष्क्रियस्य क्रिया तस्य भगवन्! विद्यते कथम्।स्वतन्त्रश्चेदनिष्टासु कथं योनिषु जायते॥६॥
पदच्छेदः-
निष्क्रियस्य क्रिया तस्य भगवन्! विद्यते कथम्।स्वतन्त्रः चेद् अनिष्टासु कथं योनिषु जायते॥६॥
अन्वयः-
भगवन्! निष्क्रियस्य तस्य क्रिया कथं विद्यते?(पुरुषः)स्वतन्त्रः चेत्, (सः) अनिष्टासु योनिषु कथं जायते॥६॥
सरलार्थः-
हे भगवन्, यदि पुरुषः निष्क्रियः तर्हि तस्य क्रिया कथं विद्यते?यदि पुरुषः स्वतन्त्रः तर्हि अनिष्टासु योनिषु कथं जन्म लभते?
आयुर्वेददीपिका
योनिषु इति जातिषु।
अरुन्धतीपद्धतिः –
पुरुषस्य निष्क्रियत्वं तथा स्वातन्त्र्यम् इति विशेषणद्वयम् आदाय अग्निवेशः एतौ प्रश्नौ पृच्छति।
देवगन्धर्वादयः उत्तमाः योनयः।कीटपिपीलिकादीनाम् अधमाः योनयः।पुरुषः यदि कुत्रापि जन्म लब्धुं स्वतन्त्रः तर्हि सः देवादियोनिषु एव किमर्थं न जायते? अनिष्टासु कीटादियोनिषु कथं जायते इति आशयः।
याज्ञवल्क्येन अपि एषः प्रश्नः उपस्थापितः-
यद्येवं स कथं ब्रह्मन् पापयोनिषु जायते? याज्ञ.स्मृतिः यतिधर्मप्रकरणम्१२९
००७
[सम्पाद्यताम्]वशी यद्यसुखैः कस्माद्भावैराक्रम्यते बलात्।सर्वाः सर्वगतत्वाच्च वेदनाः किं न वेत्ति सः॥७॥
पदच्छेदः-
वशी यदि असुखैः कस्माद् भावैः आक्रम्यते बलात्।सर्वाः सर्वगतत्वात् च वेदनाः किं न वेत्ति सः॥७॥
अन्वयः-
(पुरुषः) यदि वशी,(तर्हि सः) असुखैः भावैः बलात् कस्माद् आक्रम्यते ? सः च सर्वगतत्वात् सर्वाः वेदनाः किं न वेत्ति ?॥७॥
सरलार्थः-
यदि पुरुषः वशी अस्ति तर्हि सः दुःखकरैः भावैः बलात् कस्मात् आक्रान्तः भवति?यदि पुरुषः सर्वगः तर्हि सर्वाः वेदनाः सः किमर्थं न वेत्ति?
आयुर्वेददीपिका
सर्वाः इति परपुरुषगताः अपि।
अरुन्धतीपद्धतिः –
पुरुषस्य वशित्वम् आदाय अयं प्रश्नः । वशी इति स्वाधीनः ।बलात् इति अनिच्छया।कोऽपि जीवः दुःखं नेच्छति।सर्वे सुखमेव इच्छन्ति।तथापि पुरुषः दुःखेन आक्रान्तो भवति इति लोके दृष्टम्। पुरुषः यदि स्वाधीनः अस्ति तर्हि सः अनिच्छन् अपि दुःखेन किमर्थम् आक्रान्तो भवति? इति अग्निवेशस्य आशयः।याज्ञवल्क्यस्मृतौ अपि एषः प्रश्नः विमृष्टः-
ईश्वरः सकथं भावैरनिष्टैः सम्प्रयुज्यते?याज्ञ.स्मृतिः यतिधर्मप्रकरणम्१२९
इदानीं पुरुषस्य सर्वगत्वम् आदाय प्रश्नं पृच्छति अग्निवेशः। ‘देहे यत्र कुत्रापि वर्तमाना वेदना’ इति सर्वशब्दस्य अर्थः सम्भवेत् तथापि अत्र सः अर्थः न ग्राह्यः।देहे कुत्रापि वेदना जायते चेत् पुरुषः तां वेदनां वेत्ति एव।किमर्थं न वेत्ति इति प्रश्नः अनुपपन्नः।अतः चक्रपाणिः सर्वशब्दस्य अर्थं वदति परपुरुषगताः इति।परपुरुषगतस्य सुखदुःखस्य अज्ञानम् इति वाक्याधिकरणम् अस्ति, न तु स्वदेहगतस्य सुखदुःखस्य अज्ञानम्।अस्मिन् देहे वर्तमानः पुरुषः परपुरुषगतं सुखं वा दुःखं वा न जानाति।पुरुषः सर्वगतः अस्ति तथापि सः परपुरुषगतं सुखं दुःखं वा किमर्थं न जानाति इति प्रश्नः।
प्रश्नोऽयं याज्ञवल्क्यस्मृतौ अपि उत्थापितः-
वेत्ति सर्वगतां कस्मात् सर्वगोऽपि न वेदनाम्?याज्ञ.स्मृतिः यतिधर्मप्रकरणम्१३०
००८-००९
[सम्पाद्यताम्]न पश्यति विभुः कस्माच्छैलकुड्यतिरस्कृतम्।
पदच्छेदः-
न पश्यति विभुः कस्मात् शैल-कुड्य-तिरस्कृतम्।
अन्वयः-
विभुः (अपि पुरुषः) शैल-कुड्य-तिरस्कृतं कस्मात् न पश्यति?
सरलार्थः-
पुरुषः सर्वत्र अस्ति तथापि शैलेन कुड्येन वा तिरस्कृतं द्रव्यं किमर्थं द्रष्टुं न शक्नोति?
अरुन्धतीपद्धतिः –
पुरुषस्य विभुत्वम् उद्दिश्य कृतः अयं प्रश्नः। शैलं पर्वतः।कुड्यं भित्तिः।तिरस्कृतम् आवृतम् अन्तरितं वा।
सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम्।
पुरुषः विभुः अस्ति चेत् सर्वैः मूर्तद्रव्यैः तस्य संयोगः अस्ति।परं पुरुषः शैलस्य वा भित्तेः वा परत्र विद्यमानं पदार्थं ज्ञातुम् असमर्थः।तत्कथम्?
क्षेत्रज्ञः क्षेत्रमथवा किं पूर्वमिति संशयः॥८॥
ज्ञेयं क्षेत्रं विना पूर्वं क्षेत्रज्ञो हि न युज्यते।क्षेत्रं च यदि पूर्वं स्यात् क्षेत्रज्ञः स्यादशाश्वतः॥९॥
पदच्छेदः-
क्षेत्रज्ञः क्षेत्रम् अथवा किं पूर्वम् इति संशयः॥८॥
ज्ञेयं क्षेत्रं विना पूर्वं क्षेत्रज्ञः हि न युज्यते।क्षेत्रं च यदि पूर्वं स्यात् क्षेत्रज्ञः स्याद् अशाश्वतः॥९॥
अन्वयः-
क्षेत्रज्ञः अथवा क्षेत्रम् (एतयोः) किं पूर्वम् इति संशयः (अस्ति)॥८॥हि ज्ञेयं क्षेत्रं विना पूर्वं क्षेत्रज्ञः न युज्यते।यदि च क्षेत्रं पूर्वं स्यात् , क्षेत्रज्ञः अशाश्वतः स्याद् ॥९॥
सरलार्थः-
आत्मा तथा प्रपञ्चः इति एतयोः पूर्वं किं जातम् इति मम संशयः अस्ति।यतो हि यदि क्षेत्रज्ञः पूर्वं जातः इति मन्यामहे तर्हि क्षेत्रं विना क्षेत्रज्ञत्वं न सम्भवति।क्षेत्रं पूर्वं जातम् इति मन्यामहे चेत् क्षेत्रज्ञः अनित्यः इति सिद्ध्यति।
आयुर्वेददीपिका
क्षेत्रज्ञः आत्मा।क्षेत्रम् अव्यक्तवर्जितं सर्वं वक्ष्यमाणम्। ज्ञेयम् इत्यादि। असति क्षेत्रे क्षेत्र-ज्ञानाभावात् न क्षेत्रज्ञत्वम् उपपद्यते इति भावः।
अरुन्धतीपद्धतिः –
हे धीमन्, क्षेत्रज्ञः पूर्वम् अथवा क्षेत्रं पूर्वम् इति मम संशयः।अस्य संशयस्य बीजम् अग्रे सः एव कथयति ज्ञेयं विना इत्यादिना।
यदि क्षेत्रज्ञः पूर्वः तर्हि ‘ज्ञेयं क्षेत्रं विना तस्य अस्तित्वम अस्ति’ इति वचनं न युक्तियुतं भवति। यदि क्षेत्रं पूर्वं मन्यामहे तर्हि क्षेत्रज्ञः आत्मा अशाश्वतः इति सिद्धं भवति।
पुरुषः क्षेत्रज्ञः अस्ति इति विद्वांसः वदन्ति।पुरुषस्य क्षेत्रज्ञत्वविषये अत्र सन्देहः क्रियते अग्निवेशेन।
क्षेत्रं जानाति इति क्षेत्रज्ञः।अतः क्षेत्रज्ञस्य सिद्ध्यर्थं पूर्वं क्षेत्रम् आवश्यकम्।क्षेत्रमेव यदा नास्ति तदा क्षेत्रस्य ज्ञाता कथं सम्भवति?अतः क्षेत्रं विना क्षेत्रज्ञः इति वचनम् अयुक्तम्।
अथ क्षेत्रं पूर्वमिति मन्यामहे।तदा क्षेत्रज्ञः क्षेत्राद् उत्तरकाले जातः इति प्राप्तम्।एतदपि अयुक्तं वचनम्। यद् यद् जायते, तत् तद् म्रियते इति व्याप्तिः सर्वमान्या। यदि क्षेत्रज्ञः जातः इति मन्यामहे तर्हि अनया व्याप्त्या पुरुषः अशाश्वतः इति आपद्यते।अशाश्वतः इति अनित्यः। पुरुषः तु अस्मिन् मते नित्यः मतः।एवं मिथः विरुद्धार्थ-प्रतिपादकम् एतद् युक्तिद्वयं मम संशयस्य बीजमिति अग्निवेशस्य अभिप्रायः।
०१०
[सम्पाद्यताम्]साक्षिभूतश्च कस्यायं कर्ता ह्यन्यो न विद्यते।
पदच्छेदः-
साक्षिभूतः च कस्य अयं कर्ता हि अन्यः न विद्यते।
अन्वयः-
अयं च (पुरुषः) कस्य साक्षिभूतः? हि अन्यः कर्ता न विद्यते।
सरलार्थः-
यदि पुरुषः साक्षी अस्ति तर्हि कस्य साक्षी अस्ति? यतः अस्य प्रपञ्चस्य कर्ता अन्यः नास्ति।
आयुर्वेददीपिका
साक्षिभूतः इति साक्षिसदृशः।
अरुन्धतीपद्धतिः –
पुरुषः साक्षी अस्ति इति आत्मज्ञाः वदन्ति।पुरुषस्य साक्षित्वम् उद्दिश्य कृतः अयं प्रश्नः।
प्रश्नस्य आकूतम् एवमस्ति।बोद्धृत्वे सति अकर्तृत्वं साक्षित्वस्य लक्षणम्।पुरुषः साक्षी अस्ति इति आत्मज्ञानां मतम्।तदङ्गीकारे पुरुषः प्रपञ्चस्य केवलं बोद्धा भवितुम् अर्हति, न कर्ता। तर्हि प्रपञ्चस्य कर्ता कः? यतो हि पुरुषाद् अन्यः कोऽपि कर्ता नास्ति इति आत्मज्ञानां तम्।‘चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते’ (च.शा.१.७६) इति अत्रैव अग्रे प्रतिपादयिष्यति च।यदि आत्मनः कर्तृत्वम् अङ्गीक्रियते तर्हि तस्य साक्षित्वं न घटते ।यदि आत्मनः कर्तृत्वं नाङ्गीक्रियते तर्हि प्रपञ्चस्य अन्यः कर्ता कोऽपि न उपलभ्यते।एवं विरुद्धार्थप्रतिपादक-उपपत्ति-द्वयम् अग्निवेशस्य सन्देहं जनयति।
ननु असाक्षी साक्षी सम्पद्यते इति साक्षीभूतः।एतं सरलं विग्रहं विहाय ‘साक्षिसदृशः’ इति विग्रहं चक्रपाणिः किमर्थं करोति?
उच्यते।असाक्षी साक्षी सम्पद्यते इति विग्रहः उचितः स्याद् यदि नाम साक्षिसदृशः इति च्विप्रत्ययान्तं रूपं स्यात्।साक्षिभूतः इति च्विप्रत्ययान्तं रूपं नास्ति अतः चक्रपाणिना तथा विग्रहः न कृतः।साक्षी इव भूतः इति कर्मधारयः अत्र विद्यते।साक्षी इव भूतः इत्यस्य अर्थः प्रतिपादितः चक्रपाणिना साक्षिसदृशः इति।एवमेव खेटभूतः इत्यस्य खेटसदृशः इति अर्थम् अग्रे (च.शा.४.५) वक्ष्यति।
स्यात् कथं चाविकारस्य विशेषो वेदनाकृतः॥१०॥
पदच्छेदः-
स्यात् कथं च अविकारस्य विशेषः वेदनाकृतः॥१०॥
अन्वयः-
अविकारस्य च (पुरुषस्य) वेदनाकृतः विशेषः कथं स्यात् ?१०
सरलार्थः-
पुरुषः विकाररहितः अस्ति इति आत्मज्ञानां मतम्।अविकारस्य वेदनाजन्यः विशेषः कथं भवति?
आयुर्वेददीपिका
विशेषो वेदनाकृतः इति पुत्रादिज्ञान-रूपवेदनाजनितः हर्षादिविशेषः इत्यर्थः।
अरुन्धतीपद्धतिः –
मूले ‘वेदनाकृतः विशेषः’ इति द्वे पदे विद्येते।तयोः अर्थं वदति चक्रपाणिः पुत्रेति।वेदना इत्युक्ते ज्ञानम्।पुत्रः जातः इति वेदना।ततः पुरुषस्य हर्षः भवति।पुत्रः मृतः इति वेदना।ततः पुरुषस्य खेदः भवति।पुरुषस्य हर्षः, पुरुषस्य खेदः इति एते पुरुषस्य वेदनाजन्याः विशेषाः जगति दृश्यन्ते। यदि पुरुषः विकाररहितः, तर्हि एते विशेषाः कथं भवन्ति इति प्रश्नस्य आशयः।
०११-०१२
[सम्पाद्यताम्]अथ चार्तस्य भगवंस्तिसृणां कां चिकित्सति।अतीतां वेदनां वैद्यो वर्तमानां भविष्यतीम्॥११॥
भविष्यन्त्या असम्प्राप्तिरतीताया अनागमः। साम्प्रतिक्या अपि स्थानं नास्त्यर्तेः संशयो ह्यतः॥१२॥
पदच्छेदः-
अथ च आर्तस्य भगवन् तिसृणां कां चिकित्सति।अतीतां वेदनां वैद्यः वर्तमानां भविष्यतीम्॥११॥
भविष्यन्त्याः असम्प्राप्तिः अतीतायाः अनागमः। साम्प्रतिक्याः अपि स्थानं न अस्ति अर्तेः संशयः हि अतः॥१२॥
अन्वयः-
अथ च हे भगवन्, वैद्यः आर्तस्य तिसृणां कां चिकित्सति? अतीतां वेदनां चिकित्सति? वर्तमानां चिकित्सति?भविष्यतीं चिकित्सति?॥११ हि भविष्यन्त्याः अर्तेः असम्प्राप्तिः। अतीतायाः अर्तेः अनागमः।साम्प्रतिक्याः अपि अर्तेः स्थानं न अस्ति ।अतः संशयः ॥१२॥
सरलार्थः-
हे भगवन्, तिसॄणां दुःखरूपवेदनानां मध्ये वैद्यः कां वेदनां चिकित्सति?किम् अतीतां वेदनां चिकित्सति?किं वर्तमानां वेदनां चिकित्सति?अथवा किं भविष्यन्तीं वेदनां चिकित्सति? भविष्यन्त्याः वेदनायाः इदानीं प्राप्तिः नास्ति । अतीतवेदनायाः इदानीम् आगमनं नास्ति । सम्प्रति विद्यमाना वेदना अपि स्थिरा नास्ति अतः संशयः मम इति अग्निवेशस्य प्रश्नः।
आयुर्वेददीपिका
तिसृणाम् इति अतीत-अनागत-वर्तमानानां दुःखरूपाणां मध्ये कां चिकित्सति। अतीताम् इत्यादौ किंशब्दः अध्याहार्यः, तेन किम् अतीतां चिकित्सति, किं वर्तमानां, किंवा भविष्यतीम् इति योज्यम्।स्थानं नास्ति इति क्षणिकत्वेन चिकित्सायाः प्रवृत्तियोग्यकाल-अवस्थानं न अस्ति।
अरुन्धतीपद्धतिः –
अथेति पक्षान्तरे। ‘अथ चेत् त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि’ इति भगवद्गीतावचने पक्षान्तरार्थकः अथशब्दः ।तथैव अत्रापि।पुरुषविषये प्रश्नाः समाप्ताः अन्यः पक्षः इदानीम् आरभ्यते इति अर्थः सूच्यते अथशब्देन अत्र।
मूले तिसॄणाम् इति विशेषणम्।तस्य विशेष्यं न पठितम्।तथापि प्रकरणं वेदनायाः अस्ति अतः प्रकरणतन्त्रयुक्तेः वेदनानाम् इत्येव विशेष्यं तत्र न्याय्यम्।वेदनाशब्दः ज्ञानार्थकः इति पूर्वसूत्रस्य टीकायां चक्रपाणिना स्पष्टीकृतम्।सा च वेदना सुखरूपा दुःखरूपा इति लोकसिद्धम्।परन्तु अत्र ‘चिकित्साविषयः’ इति अधिकरणम् अस्ति।सुखरूपा वेदना न चिकित्साविषयः। अतः अत्र वेदनाशब्देन केवलं दुःखरूपा वेदना ग्राह्या।एतद् ज्ञापयितुं टीकाकारः मूले अविद्यमानमपि ‘दुःखरूपाणाम्’ इति पदं प्रयुङ्कते।
मूले संशयस्य कोटित्रयं ब्रूते अग्निवेशः।अयं स्थाणुः वा पुरुषः वा इति सन्देहे यघा कोटिद्वयं वर्तते तथात्र कोटित्रयं वर्तते।सन्देहस्थले कोटिः प्रश्नस्वरूपेण एव निरूप्यते।परं मूले तु प्रश्नार्थकं पदमेव नास्ति।अतः चक्रपाणिः किम् इति प्रश्नार्थकं पदम् अध्याहरति।ततः वाक्ययोजनाख्यया तन्त्रयुक्त्या सन्देहस्य कोटित्रयं वर्णयति किमतीतामित्यादिना।
भूतकालिकी वेदना इदानीं नागता अतः तस्याः चिकित्सा न शक्या।भविष्यन्ती वेदना इदानीं नास्ति अतः तस्याः चिकित्सा न शक्या। इदानीं वर्तमाना अपि क्षणिकत्वेन अग्रिमे क्षणे न भविष्यति।चिकित्सायाः प्रवृत्तिः भवेत् इति एतावत्कालं तस्याः वेदनायाः अवस्थानम् एव नास्ति।कथं सा चिकित्स्या?
अत्र क्षणभङ्गवादः अभ्युपगम्य प्रश्नः कृतः।न एतावता क्षणभङ्गवादः अस्मिन् तन्त्रे अङ्गीकृतः भवति।क्षणभङ्गवादः अभ्युपगतः चेदपि चिकित्सायाः अवसरः अस्ति इति अग्रे वक्ष्यति मुनिः।क्षणभङ्गवादः अङ्गीकार्यः वा न वेति प्रतिपादनम् अस्य प्रकरणस्य विषयः नास्ति। क्षणभङ्गवादं मन्यामहे चेत् चिकित्सा शक्या वा न वेति प्रतिपाद्यते अत्र।
०१३
[सम्पाद्यताम्]कारणं वेदनानां किं, किमधिष्ठानमुच्यते।
पदच्छेदः-
कारणं वेदनानां किं, किम् अधिष्ठानम् उच्यते।
अन्वयः-
वेदनानां कारणं किम् उच्यते?वेदनानाम् अधिष्ठानं किम् उच्यते ।
सरलार्थः-
वेदनानां कारणं किम् अस्ति, वेदनानाम् अधिष्ठानं किम् उच्यते इति प्रश्नः।
आयुर्वेददीपिका-
वेदनानां कारणम् अधिष्ठानं च यद्यपि दीर्घञ्जीवितीये अपि उक्तं, तथा अपि इह प्रकरणवशाद् विशेषप्रतीति-आकाङ्क्षया च विशिष्टाः पुनः प्रश्नाः।
अरुन्धतीपद्धतिः –
वेदनानाम् अधिष्ठानं मनो देहश्च सेन्द्रियः इति वचनं सूत्रस्थानस्य प्रथमे अध्याये विद्यते।पुनः अत्र किमर्थं प्रश्नः क्रियते? अस्य प्रश्नस्य समाधानं करोति चक्रपाणिः प्रकरणवशादिति।वेदनानां प्रकरणमारब्धं चेत् अयं प्रश्नः औचित्यं भजते एव।अतः पुनः प्रश्नः कृतः।ननु अनेन पुनरुक्तिदोषः भवति इति आक्षेपे वदति विशेषप्रतीत्याकाङ्क्षया इति।प्रतीतिः ज्ञानम्।विशेष-प्रतीतिः विशेषस्य ज्ञानम्।विशेषप्रतीतेः आकाङ्क्षा विशेषप्रतीत्याकाङ्क्षा। दीर्घञ्जीवितीये यदुक्तं तत् सामान्यज्ञानम् आसीत्।अत्र तु विशेष-ज्ञानस्य आकाङ्क्षा अस्ति अग्निवेशस्य मनसि।तत्र सामान्यमुक्तम्, अत्र विशेषः उच्यते अतः न पुनरुक्तदोषः।
क्व चैता वेदनाः सर्वा निवृत्तिं यान्त्यशेषतः॥१३॥
पदच्छेदः-
क्व च एताः वेदनाः सर्वाः निवृत्तिं यान्ति अशेषतः॥१३॥
अन्वयः-
एताः सर्वाः वेदनाः च क्व अशेषतः निवृत्तिं यान्ति ?१३
सरलार्थः-
अग्निवेशः पृच्छति एताः सर्वाः वेदनाः अशेषतः क्व निवृत्तिं यान्ति?
अरुन्धतीपद्धतिः –
वेदनानां चिकित्सा इति प्रकरणं प्रवर्तते।तत्र सर्वासां वेदनानां निवृत्तिविषये अग्निवेशस्य अयं प्रश्नः न अप्रासङ्गिकः।
०१४-०१५
[सम्पाद्यताम्]सर्ववित् सर्वसन्न्यासी सर्वसंयोगनिःसृतः।एकः प्रशान्तो भूतात्मा कैर्लिङ्गैरुपलभ्यते॥१४॥
इत्यग्निवेशस्य वचः श्रुत्वा मतिमतां वरः। सर्वं यथावत् प्रोवाच प्रशान्तात्मा पुनर्वसुः॥१५॥
पदच्छेदः-
सर्ववित् सर्वसन्न्यासी सर्वसंयोगनिःसृतः।एकः प्रशान्तः भूतात्मा कैः लिङ्गैः उपलभ्यते॥१४॥
इति अग्निवेशस्य वचः श्रुत्वा मतिमतां वरः।सर्वं यथावत् प्रोवाच प्रशान्तात्मा पुनर्वसुः॥१५॥
अन्वयः-
सर्ववित् सर्वसन्न्यासी सर्वसंयोगनिःसृतः।एकः प्रशान्तः भूतात्मा कैः लिङ्गैः उपलभ्यते॥१४॥ इति अग्निवेशस्य वचः श्रुत्वा मतिमतां वरः प्रशान्तात्मा पुनर्वसुःसर्वं यथावत् प्रोवाच ॥१५॥
सरलार्थः-
यः सर्ववेत्ता अस्ति, सर्वसंन्यासी अस्ति, सर्वसंयोगविमुक्तः अस्ति,एकाकी अस्ति, प्रशान्तः अस्ति, भूतानाम् आत्मा अस्ति, तस्य ज्ञानं कैः चिह्नैः भवति? इति अग्निवेशस्य वचनं श्रुत्वा बुद्धिमतां श्रेष्ठः पुनर्वसुः सर्वम् उत्तरं क्रमशः उक्तवान्।
आयुर्वेददीपिका-
प्रश्नार्थाः च अमी उत्तरग्रन्थे आचार्येण प्रपञ्चनीयाः इति न इह व्याकरणीयाः॥३-१५॥
अरुन्धतीपद्धतिः –
एतेषां प्रश्नानाम् अर्थाः आचार्येण अग्रे स्वयं वर्णिताः सन्ति अतः टीकाकारः अत्र तेषां विवरणं न करोति।
अग्निवेशस्य एते प्रश्नाः उद्देशग्रन्थः।यः विषयः अग्रे प्रतिपादनीयः, तस्य सङ्क्षेपतः नाममात्रं सङ्कीर्तनम् उद्देशः।उद्देशस्य विस्तरेण विवरणं निर्देशः।अग्रिमः अध्यायः अस्य उद्देशस्य निर्देशरूपः भविष्यति।
चरकसंहिता-आयुर्वेददीपिकयोः अरुन्धती-पद्धतिः च.शा.१.०१६-०२३