च.शा.१.०१६-०२३

विकिपुस्तकानि तः
Jump to navigation Jump to search

१६[सम्पाद्यताम्]

खादयश्चेतनाषष्ठा धातवः पुरुषः स्मृतः

पदच्छेदः-
ख-आदयः चेतनाषष्ठाः धातवः पुरुषः स्मृतः।

अन्वयः-।
ख-आदयः चेतनाषष्ठाः धातवः पुरुषः स्मृतः।।

सरलार्थः-
चेतनया सह पञ्च भूतानि इति षड् धातवः।एते धातवः नाम पुरुषः इति पूर्वाचार्यैः उक्तम्।।

आयुर्वेददीपिका-
खादय इत्यादि। ख-आदयः “खं वायुरग्निरापः क्षितिस्तथा” इति वक्ष्यमाणाः; चेतनाषष्ठा इत्यत्र चेतनाशब्देन चेतनाधारः समनस्कः आत्मा गृह्यते; खादिग्रहणेन च इन्द्रियाणि खादिमयानि अवरुद्धानि।अयं च वैशेषिकदर्शनपरिगृहीतः चिकित्साशास्त्रविषयः पुरुषः; अयम् एव “पञ्चमहाभूतशरीरिसमवायः पुरुषः” (सु.सू.१) इति अनेन सुश्रुतेन अपि उक्तः। स्मृतः इति भाषया पूर्वाचार्याणाम् अपो अयं पुरुषशब्दवाच्यः अभिप्रेतः न अस्मत्कल्पितः इति दर्शयति।पुरि शरीरे शेते इति व्युत्पत्त्या यः आत्मा पुरुषशब्देन उच्यते तम् आह- ॥

अरुन्धतीपद्धतिः
खम् इति आकाशम्।खम् आदि येषां ते खादयः।महाभूतानि इत्यर्थः।एतानि पञ्च सन्ति।तत्र चेतना षष्ठी समावेशनीया।चेतना षष्ठी येषु ते चेतनाषष्ठाः। खादयः तथा चेतनाषष्ठाः इति द्वे अपि ‘धातवः’ इति पदस्य विशेषणे।
ननु शरीरेन्द्रियसत्वात्मसंयोगः आयुः।अतः पुरुषवर्णने एतेषां सर्वेषां पदार्थानां समावेशः आवश्यकः।अत्र तु महाभूतानि तथा आत्मा इत्येव षट् पदार्थाः उक्ताः।अस्याः आशङ्कायाः समाधानं वदति चक्रपाणिः।सत्यं यत् पुरुषवर्णने शरीरेन्द्रियसत्त्वात्मनां सर्वेषां समावेशः आवश्यकः।अस्मिन् षड्धातुके पुरुषे सः भवति।कथं भवतीति चक्रपाणिः वदति चेतनाशब्देन इति।
चेतनाशब्देन आत्मा ग्राह्यः मनः अपि ग्राह्यम्। खादिशब्देन पञ्चभूतानि ग्राह्याणि।अतः भौतिकं शरीरं तत्र ग्राह्यं तथा इन्द्रियाणि अपि ग्राह्याणि।यतो हि इन्द्रियाणि भौतिकानि भवन्ति।एवं शरीरेन्द्रियसत्वात्मपदार्थानां व्यवस्था खादयश्चेतनाषष्ठाः इति अत्र भवति।
पुरुषशब्दस्य नैके अर्थाः भवन्ति।प्रत्येकं शास्त्रं स्वप्रयोजनं विचिन्त्य पुरुषशब्दस्य अर्थं स्वीकरोति। ‘खादयश्चेतनाषष्ठाः धातवः पुरुषः’ इति एषः पुरुषः केन शास्त्रेण सम्मतः इति आकाङ्क्षा भवति।तत्र उत्तरं वदति चक्रपाणिः अयं चेत्यादिना।
वैशेषिकदर्शनेन पुरुषशब्देन अयमर्थः अङ्गीकृतः।वैद्यानां चिकित्सा अस्मिन् एव पुरुषे शक्या अतः वैद्यकशास्त्रे अपि एषः पुरुषः स्वीक्रियते।वैद्यकशास्त्रे अयं पुरुषः सम्मतः इत्यत्र सुश्रुतवचनं दर्शितं पञ्चमहाभूतेति।
पुरुषशब्दस्य षड्धातुकः पुरुषः इति अयम् अर्थः पूर्वाचार्यसम्मतः अस्ति न अस्मत्कल्पितः इति आशयं चक्रपाणिः सूचयति। अयमर्थः सूत्रात् तु न निष्पद्यते। चक्रपाणिना केन प्रमाणेन ज्ञातः?
पदार्थतन्त्रयुक्त्या अयमाशयः चक्रपाणिना ज्ञातः।‘पूर्वं श्रुतः अर्थः इदानीम् अनुसन्धानेन उपस्थितः’ इति स्मृतपदस्य अर्थः ।एतस्मात् पदार्थात् ज्ञायते यद् पुरुषशब्दस्य अयमर्थः पूर्वाचार्यैः उक्तः आसीत्।अन्यथा अस्माभिः स्मृतः इति पदं न स्यात्, अस्माभिः उक्तः इति पदं स्यात्।

चेतनाधातुरप्येकः स्मृतः पुरुषसञ्ज्ञकः॥१६

पदच्छेदः-
चेतनाधातुः अपि एकः स्मृतः पुरुषसञ्ज्ञकः॥१६॥

अन्वयः-
एकः चेतनाधातुः अपि पुरुषसञ्ज्ञकः स्मृतः ॥१६॥

सरलार्थः-
केवलम् चेतनाधातुः अपि पुरुषः इति संज्ञया उच्यते।

आयुर्वेददीपिका-
चेतनेत्यादि।अत्र पुरुषः इति कर्तव्ये यत् ‘पुरुषसञ्ज्ञक’ इति करोति तेन न चेतनाधातुरूपः पुरुषः चिकित्सायमभिप्रेतः, किन्तु शास्त्रान्तरव्यवहार-अनुरोधाद् इह अपि अयं पुरुषशब्देन सञ्ज्ञितः इति दर्शयति; चिकित्साविषयः तु षड्धातुकः एव पुरुषः,अतः एव तत्र सञ्ज्ञितग्रहणं न कृतम्। अयं च पुरुषशब्दः गवादौ अपि षड्धातुसमुदाये यद्यपि वर्तते, तथा अपि सर्वप्रधाने नरे एव विशेषेण वर्तते; तेन न अतिप्रसिद्धः गवादौ पुरुषशब्दः॥१६॥

अरुन्धतीपद्धतिः
‘केवलम् चेतनाधातुः अपि ‘पुरुषः’ इति संज्ञया उच्यते’।एषः पुरुषशब्दस्य अर्थः अन्येषु शास्त्रेषु अभिप्रेतः, न वैद्यकशास्त्रे।अन्यत्र पुरुषशब्दस्य चेतनाधातुः इति अर्थः भवति इति ज्ञापनाय एतदुक्तं, न वैद्यकव्यवहारार्थम्।
‘न चेतनाधातुरूपः पुरुषश्चिकित्सायामभिप्रेतः’ इति चक्रपाणिना व्याख्यातम्। कुतः सः एवं टीकते ? पदार्थतन्त्रयुक्त्याः बलेन।
गतसूत्रे खादयश्चेतनाषष्ठा धातवः ‘पुरुषः’ इति प्रयोगः आसीत्। अत्र चेतनाधातुः ‘पुरुषसंज्ञकः’ इति प्रयोगः कृतः। संज्ञापदस्य अर्थः नाम।पुरुषः इति नाम अस्ति यस्य सः पुरुषसंज्ञकः।अस्मात् संज्ञापदस्य अर्थात् ज्ञायते यत् एषः पुरुषः अत्र नाममात्रं पुरुषः।आयुर्वेदे अनेन किमपि प्रयोजनं नास्ति इति सूचितम्। संज्ञापदस्य अर्थाद् अयम् आशयः ज्ञातः भवति।
ननु खादयश्चेतनाषष्ठाः धातवः पुरुषः इति पुरुषशब्दस्य अर्थः कृतः।परम् गौः अश्वः गजः इत्यादिषु अपि खादयः सन्ति, चेतना अपि अस्ति।ते अपि पुरुषाः वा? अस्य प्रश्नस्य उत्तरं वदति टीकाकारः अयं चेत्यादिना।
सत्यम् अयं पुरुषशब्दः गौः अश्वः गजः इत्यादिषु अपि वर्तते।तथापि तैः अर्थैः पुरुषशब्दः नातिप्रसिद्धः। मनुष्यः एतेषु प्रधानः।तत्र एव पुरुषशब्दस्य व्यवहारः शास्त्रे लोके च भवति।यथा पङ्कजशब्देन पङ्के जायमानाः कीटमण्डूकादयः बोध्यन्ते परं तेषु पङ्कजशब्दः न प्रसिद्धः।पद्मे एव सः उपयुज्यते।
पुरुषशब्दः सर्वप्रधाने नरे एव विशेषेण वर्तते इति चक्रपाणिः। विशेषेण इति आयुर्वेदशास्त्रस्य व्यवहारे। सामान्ये लोकव्यवहारे स्यात् पुरुषशब्दः गवादौ अपि।विशेषे आयुर्वेदशास्त्रे तु नरे एव प्रसिद्धः।किमत्र प्रमाणम्? शास्त्राधिकरणतन्त्रयुक्तिः अत्र प्रमाणम्। शास्त्राधिकरणम् एवं वर्णितं मुनिना –
धर्मार्थकाममोक्षाणाम् आरोग्यं मूलमुत्तमम्।रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च।
प्रादुर्भूतो मनुष्याणाम् अन्तरायो महानयम्।कः स्यात् तेषां शमोपायः इत्युक्त्वा ध्यानमास्थिताः।च.सू.१.१५,१६

मनुष्यस्य आरोग्यमधिकृत्य प्रवर्तितम् इदं तन्त्रम् अतः अत्र पुरुषशब्देन मनुष्यः एव ग्राह्यः।
ननु ‘पुरि शेते’ इति व्युत्पत्तिं वदन्ति पुरुषशब्दस्य। प्रकृते देहः एव नगरम्।यः अस्मिन् नगरे शेते सः पुरुषः।एवं तर्हि पुरुषशब्दः चेतनाधातौ भवितुं नार्हति।केवलं चेतनाधातुः कस्याम् अपि पुरि न शेते।
एवं प्राप्ते ब्रूमः। यः पुरि शेते सः पुरुषः इति पुरुषशब्दस्य एकं निर्वचनम्।अस्य शब्दस्य अपरम् अपि निर्वचनं विद्यते –
पुरुषः पूर्णत्वात् , पुरि शयनाद् वा।–श्वेताश्वरोपनिषद् ३.१३ शां.भाष्यम्।
पूर्णत्वात् पुरुषः इति निर्वचनेन केवलः चेतनाधातुः अपि पुरुषसंज्ञाम् अर्हति।अत्र आक्षेपः कृतः निर्वचनतन्त्रयुक्तेः आधारेण।तस्य उत्तरं दत्तं, तदपि निर्वचनतन्त्रयुक्तेः आधारेण।

१७ - १९[सम्पाद्यताम्]

पुनश्च धातुभेदेन चतुर्विंशतिकः स्मृतः।मनो दशेन्द्रियाण्यर्थाः प्रकृतिश्चाष्टधातुकी॥१७॥

पदच्छेदः-
पुनः च धातुभेदेन चतुर्विंशतिकः स्मृतः।मनः दश इन्द्रियाणि अर्थाः प्रकृतिः च अष्टधातुकी॥१७॥

अन्वयः-
(पुरुषः) पुनः च धातुभेदेन चतुर्विंशतिकः स्मृतः।मनः, दश इन्द्रियाणि अर्थाः अष्टधातुकी प्रकृतिः च (इति चतुर्विंशतिः तत्त्वानि) ॥१७॥

सरलार्थः-
पुनः च पुरुषः धातुभेदेन चतुर्विंशतितत्त्वात्मकः स्मृतः।मनः दश इन्द्रियाणि पञ्च अर्थाः अष्टधातुकी प्रकृतिः इति आहत्य चतुर्विंशतितत्त्वानि।

आयुर्वेददीपिका-
षड्धातुरूपम् एव पुरुषं पुनः साङ्ख्यदर्शनभेदात् चतुर्विंशतिकभेदेन आह-पुनश्चेत्यादि। चतुर्विंशतिकम् एव विभजते- मन इत्यादि। यद्यपि पञ्चविंशतितत्त्वमयः अयं पुरुषः साङ्ख्यैरः उच्यते, यदाह-“मूलप्रकृतिरविकृतिर्महदाद्याःप्रकृतिविकृतयः सप्त।षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः” (सां.का.३) इति, तथा अपि इह प्रकृति-व्यतिरिक्तं च उदासीनं पुरुषम् अव्यक्तत्वसाधर्म्याद् अव्यक्तायां प्रकृतौ एव प्रक्षिप्य अव्यक्तशब्देन एव गृह्णाति; तेन ‘चतुर्विंशतिकः पुरुषः’इति अविरुद्धम्। उदासीनस्य हि सूक्ष्मस्य भेदप्रतिपादनम् इह अनतिप्रयोजनम् इति न कृतम्। दश इन्द्रियाणि इति पञ्च कर्मेन्द्रियाणि, पञ्च बुद्धि-इन्द्रियाणि च। अष्टधातुकी इति खादिपञ्चक-बुद्धि-अव्यक्त-अहङ्काररूपा; वक्ष्यति हि- “खादीनि बुद्धिरव्यक्तमहङ्कारस्तथाऽष्टमः” इति ॥१७॥

अरुन्धतीपद्धतिः
पूर्वोक्तः एव अयं षड्धातुकः पुरुषः।इदानीं साङ्ख्यमतानुसारं तस्य स्वरूपम् उच्यते। साङ्ख्यकारिकाम् उद्धृत्य चतुर्विंशतिः तत्त्वानि गणयति चक्रपाणिः।तथापि साङ्ख्ये तत्त्वसङ्ख्या अस्ति पञ्चविशतिः।अत्र तु चतुर्विंशति-तत्त्वानां गणना कृता सूत्रकारेण।अतः उभयत्र समन्वयं करोति टीकाकारः प्रकृतिव्यतिरिक्तम् इत्यनेन।
साङ्ख्यैः प्रकृतिः तथा पुरुषः इति पृथग् द्वे तत्त्वे गणिते।अत्र उभयोः अव्यक्तनाम्नि तत्त्वे समावेशं कृत्वा एकमेव तत्त्वं गणितम्।अतः यद्यपि सङ्ख्या भिन्ना दृश्यते तथापि तत्त्वतः विरोधः नास्ति।कं समानधर्मम् आदाय प्रकृतिपुरुषयोः एकत्र समावेशः अयं कृतः इत्यपि वदति चक्रपाणिः अव्यक्तत्वसाधर्म्यात् इति।प्रकृतिः अव्यक्ता।पुरुषः अपि अव्यक्तः ।अतः उभयोः एकत्र गणना न दुष्यति इति अभिप्रायः।
भवतु अव्यक्तत्वरूपं साम्यं प्रकृतिपुरुषयोः।तथापि तयोः नैके विशेषधर्माः सन्ति।अतः साङ्ख्यैः द्वे पृथक् तत्त्वे गणिते।तथा अत्र किमिति न क्रियते इति आशङ्कायां वदति टीकाकारः उदासीनस्येत्यादिना।
पुरुषः उदासीनः सूक्ष्मः च साङ्ख्यैः प्रतिपादितः।तादृशं पुरुषं स्वीकृत्य साङ्ख्यानां किमपि प्रयोजनं सिद्ध्यति।तत् सिद्ध्यतु नाम।अस्माकं चिकित्साशास्त्रे तु तस्य पृथग्गणनस्य किमपि विशेषं प्रयोजनं न दृश्यते।अतः प्रयोजनाभावात् पृथग् गणनं न कुर्मः।
कतिधा पुरुषो धीमन् इति अग्निवेशस्य प्रश्नः उद्देशग्रन्थः।तस्य निर्देशः आरब्धः खादयश्चेतनाषष्ठाः इति वचनेन।अस्मिन् निर्देशे पुनः चतुर्विंशतिकपुरुषविषये उद्देशः कृतः ‘मनो दशेन्द्रियाणि’ इति ।अस्य निर्देशग्रन्थः अग्रे आरभ्यते ‘लक्षणं मनसः’ इत्यादिना।

लक्षणं मनसो ज्ञानस्याभावो भाव एव च।सति ह्यात्मेन्द्रियार्थानां सन्निकर्षे न वर्तते॥१८॥
वैवृत्त्यान्मनसो ज्ञानं सान्निध्यात्तच्च वर्तते

पदच्छेदः-
लक्षणं मनसः ज्ञानस्य अभावः भावः एव च।सति हि आत्म-इन्द्रिय-अर्थानां सन्निकर्षे न वर्तते॥१८॥
वैवृत्त्यात् मनसः ज्ञानं सान्निध्यात् तत् च वर्तते।

अन्वयः-
ज्ञानस्य अभावः भावः एव च मनसः लक्षणम्।हि आत्म-इन्द्रिय-अर्थानां सन्निकर्षे सति मनसः वैवृत्त्यात् ज्ञानं न वर्तते॥१८॥(आत्म-इन्द्रिय-अर्थानां सन्निकर्षे सति मनसः) सान्निध्यात् तत् च वर्तते।

सरलार्थः-
आत्मेन्द्रियार्थानां संयोगः अस्ति चेदपि क्वचित् ज्ञानं भवति क्वचित् ज्ञानं न भवति इति एव मनसः लक्षणम्।आत्मेन्द्रियार्थानां सन्निकर्षे सति अपि मनः सन्निकृष्टं भवति चेद् ज्ञानं भवति, मनः वियुक्तं भवति चेत् ज्ञानं न भवति।एतद् एव मनसः लक्षणम्।

आयुर्वेददीपिका-
अत्र चतुर्विंशतिके प्रथम-उद्दिष्टं मनो लक्षयितुमाह- लक्षणमित्यादि। यथा ज्ञानस्य अभावः ज्ञानस्य भावः च मनोगमको भवति तद् आह- सति इत्यादि। वैवृत्त्यात् मनसः इति इन्द्रियेण-असंयोगात्, सान्निध्याद् इति इन्द्रियेण मनसः सम्बन्धात्।एवं मन्यते- यदा युगपद् इन्द्रिय-अर्थाः इन्द्रियैः संयुज्यन्ते तदा क्वचिद् इन्द्रियार्थ-ज्ञानं भवति क्वचिद् न भवति इति दृष्टं, तेन इमौ ज्ञानभाव-अभावौ ज्ञानकारणान्तरं दर्शयतः; यत् च तत् कारणान्तरं तद् मनः।

अरुन्धतीपद्धतिः
पूर्वसूत्रे पञ्चविंशतितत्त्वानां गणना कृता।तत्र प्रथमं तत्त्वं मनः।तस्य विवरणम् अस्मिन् सूत्रे क्रियते। आत्मेन्द्रियार्थानां संयोगे क्वचित् प्रत्यक्षं भवति, क्वचित् न भवति इति एतं विषयं विवृणोति टीकाकारः यदा युगपदित्यादिना।युगपद् इति एकस्मिन् एव क्षणे।शब्दस्य श्रोत्रेन्द्रियेण सह सन्निकर्षः भवति, तदा एव घटस्य चक्षुषा सह सन्निकर्षः भवति।तदा क्वचिद् एकतरस्य भानं भवति, अन्यस्य न।‘घटदर्शने मग्नोऽहं शब्दं न श्रुतवान्’ ‘अथवा शब्दश्रवणे मग्नोऽहं घटं न दृष्टवान्’ इति अनुभवकथनाद् एतद् ज्ञायते यद् युगपत् द्वयोः इन्द्रिययोः स्व-स्व-अर्थाभ्यां सन्निकर्षे सति अपि एकस्य विषयस्य ज्ञानं जातम् अपरस्य न। जानस्य एतौ भावाभावौ सूचयतः यदात्मा इन्द्रियं तथा अर्थः इति एतेभ्यः भिन्नम् इतोऽपि किमपि ज्ञानकारणं विद्यते। आत्मेन्द्रियार्थैः सह तद् अस्ति चेत् ज्ञानं भवति, आत्मेन्द्रियार्थैः सह तद् नास्ति चेत् ज्ञानं न भवति।तद् यत् ज्ञानकारणं, तदेव मनः ।
‘मनः अस्ति’ इति अस्य प्रमाणमुक्तं मुनिनात्र।‘युगपद् ज्ञानानुत्पत्तिः मनसो लिङ्गम्(१.१.१६)’ इति न्यायसूत्रमनुसरतीदं सूत्रम्।

अणुत्वमथ चैकत्वं द्वौ गुणौ मनसः स्मृतौ॥१९॥

पदच्छेदः-
अणुत्वम् अथ च एकत्वं द्वौ गुणौ मनसः स्मृतौ॥१९॥

अन्वयः-
अणुत्वम् अथ च एकत्वं (इति) मनसः द्वौ गुणौ स्मृतौ॥१९॥

सरलार्थः-
अणुत्वम् तथा एकत्वम् इति मनसः द्वौ गुणौ स्तः।

आयुर्वेददीपिका-
तत् च कारणं मनोरूपं यदि आत्मवद् युगपत् सर्वेन्द्रियव्यापकं स्वीक्रियते किंवा अनेकसङ्ख्यम् इन्द्रियवत् स्वीक्रियते, तदा पुनः अपि युगपद् इन्द्रियार्थसम्बन्धे पञ्चभिः ज्ञानैः भवितव्यं विभुना वा मनसा, अनेकैः वा मनोभिः युगपद् अधिष्ठितत्वाद् इन्द्रियाणां; न च भवन्ति युगपद् ज्ञानानि, तस्माद् युगपद् ज्ञान-अनुदयात् लिङ्गात् मनः अणुरूपम् एकं च सिध्यति इति आह अणुत्वम् इत्यादि ॥१८, १९॥

अरुन्धतीपद्धतिः
मनसः नैके गुणाः सन्ति।तेषु अणुत्वं तथा एकत्वम् इति एतयोः एव प्रतिपादनं कृतं मुनिना।तस्य कारणं वदति चक्रपाणिः तस्मादित्यादिना।
युगपद् ज्ञानानुत्पत्तिः मनसः लिङ्गम् इति पूर्वसूत्रे साधितम्।अस्मात् लिङ्गात् एव अनयोः द्वयोः गुणयोः सिद्धिः भवति अतः तयोः प्रतिपादनमत्र कृतं, प्रासङ्गिकत्वात्।
मनसः परिमाणम् अणु।तत्र युक्तिं दर्शयति चक्रपाणिः यद्यात्मवत् इत्यादिना। मनः यदि आत्मवत् विभु मन्यामहे तर्हि तस्य सर्वदा आत्मना सह इन्द्रियैः सह च संयोगः अङ्गीकरणीयः।तथा सति सर्वदा ज्ञानप्रसङ्गः स्यात्। आत्मेन्द्रियार्थानां सन्निकर्षे सति क्वचिद् ज्ञानं भवति क्वचिद् न भवति इति ज्ञानस्य भावाभावौ न सम्भवतः।व्यवहारे तु तादृशौ भावाभावौ सर्वैः अनुभूयेते।अतः मनसः विभुत्वं न युज्यते।तस्माद् अणुपरिमाणं मनः।
मनसः सङ्ख्या च एका।तदर्थं युक्तिं दर्शयति चक्रपाणिः किं वेत्यादिना।यदि मनः अनेकं तर्हि युगपत् पञ्चभिः अपि मनःसंयोगाः सम्भवन्ति।तथा सति ज्ञानस्य भावः तथा अभावः न उपपन्नौ भवतः।युगपत् सर्वैः इन्द्रियैः ज्ञानं शक्यं स्यात्।तच्च न भवति अतः मनः एकं मन्तव्यम्।

‘मनसि आकाशम् अस्ति’ इति एकीयमतम्।सुखदुःखे मनसि स्तः।सुखम् इति शोभनं खम्।दुःखम् इति कृच्छ्रं खम् ।सुखदुःखयोः एते व्युत्पत्ती आश्रित्य एके प्रतिपादयन्ति यद् मनसि अपि खं वर्तते।यत्र सङ्गः खवैगुण्याद् व्याधिस्तत्रोपजायते इति वचनात् च मनसि आकाशसद्भावः सिदध्यति।व्याधिं प्रति खवैगुण्यं कारणम् इति अस्माद् वचनाद् ज्ञायते।मनोव्याधयः सम्भवन्ति।ते च व्याधयः खवैगुण्यं विना कथं सम्भवेयुः? अतः मनसि खं विद्यते इति केचन प्रतिपादयन्ति।

न एतद् युक्तियुक्तं भाति।मनसः अणुत्वप्रतिपादकेन प्रकृतसूत्रेण बाधितत्वात्। नाणुपरिमाणे मनसि खसम्भवः।अपरं च व्याधिं प्रति खवैगुण्यं कारणम् इति प्रतिपादयत् पूर्णं वचनम् एवमस्ति- कुपितानां हि दोषाणां शरीरे परिधावताम्। यत्र सङ्गः खवैगुण्यात् व्याधिस्तत्रोपजायते॥

अत्र ‘शरीरे’ इति वचनात् अस्य सूत्रस्य शारीरव्याध्यधिकरणं स्पष्टम्।मनोव्याधिषु अस्य सूत्रस्य अधिकारः नास्ति।तस्मात् सुखदुःखशब्दयोः निरुक्ती अनुसृत्य मनसि खसद्भावः साधयितुं न शक्यते।

२०-२१[सम्पाद्यताम्]

चिन्त्यं विचार्यमूह्यं च ध्येयं सङ्कल्प्यमेव च।यत्किञ्चिन्मनसो ज्ञेयं तत् सर्वं ह्यर्थसञ्ज्ञकम्॥२०॥

पदच्छेदः-
चिन्त्यं विचार्यम् ऊह्यं च ध्येयं सङ्कल्प्यम् एव च।यत् किञ्चित् मनसः ज्ञेयं तत् सर्वं हि अर्थसञ्ज्ञकम्॥२०॥

अन्वयः-
चिन्त्यं विचार्यम् ऊह्यं च ध्येयं सङ्कल्प्यम् एव च, तत् सर्वं हि (मनसः) अर्थसञ्ज्ञकम्।हि यत् किञ्चित् मनसः ज्ञेयं तत् सर्वं अर्थसञ्ज्ञकम्॥२०॥

सरलार्थः-
यत् किमपि चिन्त्यं, विचार्यम्, ऊह्यं, ध्येयं, सङ्कल्प्यम् तत् सर्वं मनसः अर्थस्वरूपम्।तथैव यत् किञ्चित् मनसः स्वस्य ज्ञेयं तत् सर्वम् अपि अर्थसञ्ज्ञकं भवति॥२०॥

आयुर्वेददीपिका-
मनोगुणम् अभिधाय मनोविषयम् आह - चिन्त्यम् इत्यादि। चिन्त्यं कर्तव्यतया अकर्तव्यतया वा यत् मनसा चिन्त्यते। विचार्यम् उपपत्ति-अनुपपत्तिभ्यां यद् विमृश्यते। ऊह्यं च यत् सम्भावनया ऊह्यते ‘एवम् एतद् भविष्यति ’ इति। ध्येयं भावना-ज्ञान-विषयम्। सङ्कल्प्यं गुणवत्तया दोषवत्तया वा अवधारणा-विषयम् ।

अरुन्धतीपद्धतिः
चिन्त्यादिपदानां वाचस्पत्यकोशे न्यायकोशे च विविधाः अर्थाः उक्ताः।अत्र तु चक्रपाणिकृतान् अर्थान् आदाय एव उदाहरणानि उच्यन्ते।
कश्चिद् वैद्यः कर्तव्यं चिन्तयति ‘अस्य रुग्णस्य अतीसारे स्तम्भनं ददामि’।एतत् स्तम्भनचिकित्सायाः कर्तव्यतया चिन्तनं जातम्।तदा रुग्णस्य अतीसारस्य स्तम्भनचिकित्सा इति वैद्यस्य चिन्त्यः विषयः भवति। ‘अस्य अतीसारे स्तम्भनं न ददामि’ इति अकर्तव्यं चिन्तयति तदा अपि अतीसारस्य स्तम्भनचिकित्सा चिन्त्यविषयः भवति।
यदा वैद्यः एवं मनसि विचारयति यद् ‘अस्य अतीसारे स्तम्भनम् उचितं यतो हि इदानीं निरामावस्था अस्ति’ अत्र स्तम्भनचिकित्सायाः उपपत्तिः विचारिता।अतः रुग्णस्य स्तम्भनचिकित्सा इति एषः विचार्यः विषयः भवति।
वैद्यः एवम् ऊहते ‘इदानीं बहुद्रवसरणं न स्तम्भयामि चेत् अब्धातुक्षयः भविष्यति ततः रुग्णस्य बलहानिः भविष्यति।‘ अत्र सम्भावनाविषये ऊहः कृतः।अतः अतीसारचिकित्सा इति ऊह्यविषयः भवति।
उपरितनेषु मनोवृत्तिषु वैद्यः मुहुर्मुहुः ध्यायति यदा अस्यातिसारम् अधुना स्तम्भयामि अतिसारं स्तम्भयामि अतिसारं स्तम्भयामि।तदानीम् अतीसारचिकित्सा इति ध्येयविषयः भवति।
यदा वैद्यः एवम् अवधारयति यत् ‘स्तम्भने बलरक्षा भविष्यति।पाचने बलहानिः ध्रुवं भविष्यति।अतः स्तम्भनमेव इदानीम् कार्यम्‘ तदा स्तम्भनस्य गुणाः पाचनस्य च दोषाः अवधारिताः भवन्ति। अतः स्तम्भनचिकित्सा सङ्कल्प्यविषयः भवति।

आयुर्वेददीपिका-
यत् किञ्चिद् इति अनेन सुखादि- अनुक्तविषय-अवरोधः। मनसः ज्ञेयम् इति इन्द्रिय-निरपेक्ष-मनोग्राह्यम्। एते च मनोऽर्थाः शब्दादिरूपा एव; तेन षष्ठ-अर्थ-कल्पनया न चतुर्विंशति-सङ्ख्या-अतिरेकः। सुख-आदयः तु शब्दादि-व्यतिरिक्ताः मनोऽर्थाः बुद्धिभेद-ग्रहणेन एव ग्राह्याः।

अरुन्धतीपद्धतिः
मनोग्राह्याः अन्येऽपि विषयाः सन्ति।तेषां सङ्ग्रहः यत्किञ्चिद् मनसो ग्राह्यम् इति वचनेन मुनिना कृतः।के ते मनोग्राह्याः अन्ये विषयाः?
मनोग्राह्याः सुखं दुःखम् इच्छा द्वेषो मतिः कृतिः। - न्यायमुक्तवली प्रत्यक्षखण्डः५७
आत्मा ... मनोमात्रस्य गोचरः। - न्यायमुक्तवली प्रत्यक्षखण्डः५०
एते इन्द्रियनिरपेक्ष-मनोग्राह्याः।
चतुर्विंशतिकपुरुषवर्णनम् उपक्रान्तम्।तस्य निर्देशरूपेण एतद् मनसो विवरणं मुनिना आरब्धम्। अत्र ये मनोऽर्थाः चिन्त्यादयः उक्ताः ते तु चतुर्विंशतितत्त्वेषु न समाविष्टाः।अतः सङ्ख्यातिरेकः भवति वा इति आशङ्कां परिहरति चक्रपाणिः एते चेत्यादिना।
सूत्रे साक्षात् पठिताः ये एते चिन्त्यादयः विषयाः ते तु शब्दादिरूपाः एव।अतः पञ्चसु इन्द्रियार्थेषु एव तेषां समावेशः शक्यः।तेन सङ्ख्यातिरेकः न भवति।
तर्हि सुखदुःखादयः ये अन्ये मनोऽर्थाः सन्ति, तेषां चतुर्विंशतितत्त्वेषु कुत्र समावेशः भवति इति आशङ्कां समादधाति सुखादयस्तु इति टीकया।प्रकृतिश्चाष्टधातुकी इति चतुर्विंशति-तत्त्वेषु समाविष्टा। तस्यां बुद्धितत्त्वस्य समावेशः अस्ति।वुद्धेः एव भेदाः सुखादयः।अतः सङ्ख्यातिरेकः न भवति।

इन्द्रियाभिग्रहः कर्म मनसः स्वस्य निग्रहः

पदच्छेदः-
इन्द्रिय-अभिग्रहः कर्म मनसः स्वस्य निग्रहः।

अन्वयः-
इन्द्रिय-अभिग्रहः स्वस्य निग्रहः (च) मनसः कर्म ।

सरलार्थः-
इन्द्रियेषु उपस्थितिः तथा स्वस्य निग्रहः इति मनसः कर्म।

आयुर्वेददीपिका-
मनोविषयम् अभिधाय मनः कर्म आह इन्द्रियेत्यादि। इन्द्रियाभिग्रहः इन्द्रियाधिष्ठानं मनसः कर्म, तथा स्वस्य निग्रहः मनसः कर्म; मनः हि अनिष्टविषयप्रसृतं मनसा एव नियम्यते, “मनश्च गुणान्तरयुक्तं सद् विषयान्तरात् नियमयति” इति आहुः एके। यदुक्तम् “विषयप्रवणं चित्तं धृतिभ्रंशात् न शक्यते। नियन्तुम् अहिताद् अर्थात् धृतिः हि नियमात्मिका” इति। तेन, धृत्या कारणभूतया (मनः ) आत्मानं नियमयति इति न स्वात्मनि क्रियाविरोधः।

अरुन्धतीपद्धतिः
नियम्यः नियामकाद् भिन्नः भवितुम् अर्हति ।मनः स्वस्य निग्रहं करोति इति वचनेन नियम्यम् अपि मनः नियामकमपि मनः इति प्राप्तम्।एषः स्वात्मनि क्रियाविरोधः यत् नियमनक्रियायाः कर्तृ मनः तथा कर्मापि मनः एव।
एतं दोषं परिहर्तुं चक्रपाणिः लिखति यत् अत्र नियमनक्रियायाः कर्म मनः अस्ति, नियमनक्रियायाः कर्त्री धृतिः अस्ति।अनेन नियम्यनियामकयोः भेदः सिद्ध्यति।

ऊहो विचारश्च, ततः परं बुद्धिः प्रवर्तते॥२१॥

पदच्छेदः-
ऊहः विचारः च , ततः परं बुद्धिः प्रवर्तते॥२१॥

अन्वयः-
ऊहः (ततः) विचारः , ततः परं च बुद्धिः प्रवर्तते॥२१॥

सरलार्थः-
ऊहः, विचारः ततः बुद्धेः प्रवर्तनम् इति मनसः अन्यानि कर्माणि सन्ति।

आयुर्वेददीपिका-
मनः कर्मान्तरम् आह- ऊहः विचारः च इति। अत्र उह आलोचन(ना)-ज्ञानं निर्विकल्पकम्, विचारः हेय-उपादेयतया विकल्पनम्।

अरुन्धतीपद्धतिः
पूर्वतनसूत्रे ऊह्यं तथा विचार्यम् इति पदद्वयं विद्यते।अस्मिन् सूत्रे ऊहः तथा विचारः इति पदद्वयं विद्यते।पूर्वतनसूत्रे ऊह्यविचार्यशब्दयोः ये अर्थाः गृहीताः तान् अनुसृत्य अत्र ऊह-विचारशब्दयोः अर्थः न कार्यः।अतः ऊहविचारशब्दयोः प्रकृतसूत्रे ग्राह्यौ अर्थौ कौ इति वदति चक्रपाणिः अत्रेत्यादिना।
प्रकृतसूत्रे ऊहः इत्युक्ते निर्विकल्पज्ञानम्।विचारः इत्युक्ते सविकल्पज्ञानम्। सविकल्प-निर्विकल्पयोः भेदः ईदृशः –
संमुग्धं वस्तुमात्रं तु प्राग् गृह्णात्यविकल्पितम्।तत् सामान्यविशेषाभ्यां कल्पयन्ति मनीषिणः॥
अस्ति ह्यालोचितज्ञानं प्रथमं निर्विकल्पकम्।बालमूकादिविज्ञानसदृशं मुग्धवस्तुजम्॥
ततः परं पुनर्वस्तु धर्मैर्जात्यादिभिर्यथा।बुद्ध्यावसीयते...॥
‘इदं किञ्चित्’ इति वस्तुमात्रज्ञानम् ।एतद् निर्विकल्पज्ञानम् उच्यते।एतद् आदौ जायते। एतदर्थम् यः इन्द्रियव्यापारः भवति, सः आलोचनव्यापारः उच्यते।एषः एव आलोचनव्यापारः प्रकृते ऊहशब्देन उच्यते।
निर्विकल्पज्ञानोत्तरं सविकल्पज्ञानं भवति। ‘मया उपादेयं वा मया हेयं वा ’ इति एतादृशं सर्वं सविकल्पज्ञानम्।तद् अस्मिन् सूत्रे विचारशब्देन उच्यते।
अध्यवसायः इति बुद्धेः कार्यम्।अध्यवसायः निश्चयः।‘मया उपादेयं वा मया हेयं वा ’ इति विचारकर्म भवति।ततः मया इदं हेयम् अथवा मया इदमुपादेयमिति निश्चयः भवति।सः तु बुद्धेः कार्यम्।
ऊहः तथा विचारः इति एतयोः अन्यान् अर्थान् परित्यज्य एतौ अर्थौ गृहीतौ।एषा पदार्थतन्त्रयुक्तिः।यदि एतस्याः प्रयोगम् अत्र न कुर्मः तर्हि ‘ऊहो विचारश्च ततः परं बुद्धिः प्रवर्तते’ इति वाक्यस्य अर्थः न स्पष्टः भवति।

आयुर्वेददीपिका-
चतुर्विधं हि विकल्पकारणं साङ्ख्याः मन्यन्ते; तत्र बाह्यम् इन्द्रियरूपम्, आभ्यन्तरं तु मनः अहङ्कारः बुद्धिः च इति त्रितयम्।तत्र इन्द्रियाणि आलोचयन्ति निर्विकल्पेन गृह्णन्ति इति अर्थः, मनः तु सङ्कल्पयति हेय-उपादेयतया कल्पयतीत्यर्थः, अहङ्कारः अभिमन्यते ‘मम इदम् अहम् अत्र अधिकृतः’ इति मन्यते इति अर्थः, बुद्धिः अध्यवस्यति ‘त्यजामि एनं दोषवन्तम् आददामि एनं गुणवन्तम्’ इति अध्यवसायं करोति इति अर्थः।

अरुन्धतीपद्धतिः
मनःकर्मविवरणम् इदं साङ्ख्यमतम् अनुसरति।अतः चक्रपाणिः साङ्ख्यमतं सङ्क्षेपेण लिखति चतुर्विधं हीति।
ननु चतुर्विधं विकल्पकारणं कथम्? इन्द्रियाणि तु निर्विकल्पेन गृह्नन्ति।अतः त्रीणि एव विकल्पकारणानि भवन्ति।
सत्यम् इन्द्रियाणि निर्विकल्पं गृह्णन्ति इति।तथापि विकल्पः निर्विकल्पेन गृहीतस्य एव ज्ञानस्य भवति इति परम्परया बाह्येन्द्रियमपि विकल्पकारणेन अत्र गणितम्।

आयुर्वेददीपिका-
ऊहः तु यदि अपि बाह्यचक्षुर्-आदिकर्म, तथा अपि तत्र अपि मनः अधिष्ठानम् अस्ति इति मनःकर्मतया उक्तः। वचनं हि “सान्तःकरणा बुद्धिः सर्वं विषयम् अवगाहते यस्मात्। तस्मात् त्रिविधं करणं द्वारि, द्वाराणि शेषाणि” सा.का.३५ ।

अरुन्धतीपद्धतिः
ऊहः इत्युक्ते विषयस्य आलोचनमात्रम् ।एतद् इन्द्रियकर्म।मनःकर्मसु तस्य समावेशः किमर्थं कृतः इति आशङ्का जायते।तस्य उत्तरं वदति चक्रपाणिः ऊहस्तु इत्यादिना।मनोविरहितं केवलम् इन्द्रियं विषयालोचनं न करोति।अतः विषयालोचनररपस्य ऊहस्य मनःकर्मसु समावेशो न दुष्यति।अस्य पुष्ट्यर्थं साङ्ख्यकारिका उद्धृता।

आयुर्वेददीपिका-
ततः परं बुद्धिः प्रवर्तते इति ऊह-विचार-अनन्तरं बुद्धिः अध्यवसायं करोति इति अर्थः। अहङ्कार-व्यापारः च अभिमननम् इह अनुक्तः अपि बुद्धिव्यापारेण एव सूचितः ज्ञेयः। बुद्धिः हि त्यजामि एनम् उपाददामि इति वा अध्यवसायं कुर्वती अहङ्कार-अभिमते एव विषये भवति; तेन बुद्धिव्यापारेण एव अहङ्कार-व्यापारः अपि गृह्यते। बुद्धौ हि सर्व-करण-व्यापार-अर्पणं भवति। यदा उक्तम्- “एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः। कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ” सा.का.३६।२०,२१

अरुन्धतीपद्धतिः
इतः पर्यन्तं मूलसूत्रस्य विवरणं कृतं टीकाकारेण।प्रकृतसूत्रे ऊहशब्देन इन्द्रियाधिष्ठितस्य मनसः साङ्ख्योक्तम् आलोचनकर्म उक्तम्।विचारशब्देन साङ्ख्योकं मनःकर्म उक्तम्।बुद्धिः प्रवर्तते इत्यनेन साङ्ख्योक्तः अध्यवसायरूपः बुद्धिव्यापारः उक्तः।
साङ्ख्योक्तस्य अहङ्कारतत्त्वस्य अत्र उल्लेखः नास्ति कथम् इति आशङ्कां परिहरति चक्रपाणिः अहङ्कारव्यापारश्चेत्यादिना। बुद्धिशब्देन एव अहङ्कारस्य स्वीकारः कर्तुं शक्यते इति टीकायाः अभिप्रायः।तस्य पुष्ट्यर्थं कारिकामेकाम् उद्धरति एते प्रदीपकल्पाः इति।
बुद्धिशब्देन अत्र अहङ्कारस्य अपि ग्रहणं कृतम् इति एषा पदार्थतन्त्रयुक्तिः।यदि एषा तन्त्रयुक्तिः अत्र न प्रयुज्यते तर्हि अहङ्कारव्यापारविषये सन्देहः भवति।अस्याः तन्त्रयुक्तेः प्रयोगेण सः सन्देहः निवार्यते।

२२-२३[सम्पाद्यताम्]

इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते ।कल्प्यते मनसा तूर्ध्वं गुणतो दोषतोऽथवा ।। च.शा.१.२२
जायते विषये तत्र या बुद्धिर्निश्चयात्मिका । व्यवस्यति तया वक्तुं कर्तुं वा बुद्धिपूर्वकम् ।। च.शा.१.२३

पदच्छेदः-
इन्द्रियेण इन्द्रियार्थः हि समनस्केन गृह्यते । कल्प्यते मनसा तु ऊर्ध्वं गुणतः दोषतः अथवा ।। च.शा.१.२२
जायते विषये तत्र या बुद्धिः निश्चयात्मिका । व्यवस्यति तया वक्तुं कर्तुं वा बुद्धिपूर्वकम् ।। च.शा.१.२३

अन्वयः-
हि समनस्केन इन्द्रियेण इन्द्रियार्थः गृह्यते । ऊर्ध्वं तु मनसा गुणतः अथवा दोषतः कल्प्यते।। च.शा.१.२२ तत्र विषये या निश्चयात्मिका बुद्धिः जायते ।तया बुद्धिपूर्वकम् वक्तुं कर्तुं वा व्यवस्यति।। च.शा.१.२३

सरलार्थः-
मनोयुक्तेन इन्द्रियेण इन्द्रियस्य अर्थः गृह्यते।ततः ऊर्ध्वं तु गुणतः अथवा दोषतः मनसा कल्प्यते।तत्र विषये या निश्चयात्मिका बुद्धिः जायते, तया बुद्ध्या वक्तुम् अथवा कर्तुं पुरुषः उद्युक्तः भवति।

आयुर्वेददीपिका
एतद् एव ऊह-विचारपूर्वकत्वं बुद्धेः विवृणोति इन्द्रियेण इत्यादि।गृह्यते इति ऊहमात्रेण निर्विकल्पेन गृह्यते ।गुणतः इति उपादेयतया । दोषतः इति हेयतया ।बुद्धि-अध्यवसायं विवृणोति जायते इत्यादि। विषये तत्र इति मनसा कल्पिते विषये ।निश्चयात्मिका इति स्थिरस्वरूपा अध्यवसायरूपा इति अर्थः । व्यवस्यति इति अनुष्ठानं करोति उद्युक्तः भवति इति अर्थः बुद्धि-अध्यवसितम् अर्थं वक्तुं कर्तुं वा अनुतिष्ठति इति यावत् । बुद्धिपूर्वकम् इति अनेन यद् एव बुद्धिपूर्वकम् अनुष्ठानं तद् एव एवंविधं भवति न उन्मत्तादि-अनुष्ठानम् इति दर्शयति।
अरुन्धतीपद्धतिः
ऊहो विचारश्च ततः परं बुद्धिः प्रवर्तते इति यत् गतसूत्रे उक्तं, तस्य एव विस्तरः अत्र क्रियते।

च.शा.१.००१-०१५       चरकसंहिता-आयुर्वेददीपिकयोः अरुन्धती-पद्धतिः     च.शा.१.०२४-०३६
"https://sa.wikibooks.org/w/index.php?title=च.शा.१.०१६-०२३&oldid=6385" इत्यस्माद् पुनः प्राप्तिः