सामग्री पर जाएँ

च.शा.१.०३७-०५२

विकिपुस्तकानि तः

अत्र कर्म फलं चात्र ज्ञानं चात्र प्रतिष्ठितम्।अत्र मोहः सुखं दुःखं जीवितं मरणं स्वता॥३७॥
एवं यो वेद तत्त्वेन स वेद प्रलयोदयौ।पारम्पर्यं चिकित्सां च ज्ञातव्यं यच्च किञ्चन॥३८॥

पदच्छेदः-
अत्र कर्म फलं च अत्र ज्ञानं च अत्र प्रतिष्ठितम्।अत्र मोहः सुखं दुःखं जीवितं मरणं स्वता॥३७॥
एवं यः वेद तत्त्वेन सः वेद प्रलय-उदयौ।पारम्पर्यं चिकित्सां च ज्ञातव्यं यत् च किञ्चन॥३८॥

अन्वयः-
अत्र कर्म, अत्र फलं च अत्र ज्ञानं च अत्र मोहः सुखं दुःखं जीवितं मरणं स्वता (इति एतत्) प्रतिष्ठितम्।यः एवं तत्त्वेन वेद सः प्रलय-उदयौ पारम्पर्यं च चिकित्सां च यत् किञ्चन ज्ञातव्यं (तत्) वेद ।॥३८॥

सरलार्थः-
अस्मिन् चतुर्विंशतिके पुरुषे कर्म, फलं, ज्ञानं, मोहः सुखं, दुःखं, जीवनं, मरणं ममता, इति एते भावाः प्रतिष्ठिताः सन्ति इति यः जानाति, सः जीवनं, मरणं, शरीरपरम्परां, मोक्षसाधनभूतां चिकित्सां च तत्त्वतः जानाति।सः अन्यदपि यत्किमपि वेद्यं पदार्थं जानाति।

आयुर्वेददीपिका
पुनः चतुर्विंशतिके पुरुषे कर्मफलादि दर्शयन् दोषहीने पुरुषे कर्मफलादि-अभावम् अर्थात् दर्शयति अत्र इत्यादि ।फलम् अत्र इति यथोक्तसमुदायपुरुषे। कर्म इति अदृष्टम्। फलम् इति अदृष्टफलम्। स्वता ममता। ज्ञानं च यद्यपि चतुर्विंशति-तत्त्व-अतिरिक्तस्य उदासीनस्य एव, तथा अपि तत्-चेतनया प्रकृतिः अपि चेतनाम् आपद्य चेतना एव भवति इति युक्तम् ‘अत्र ज्ञानम्’ इति। वचनं हि “तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ” इति (सां का.२०)। प्रलय-उदयौ इति जीवितमरणे। पारम्पर्यम् इति शरीरपरम्पराम्। चिकित्सां च इति नैष्ठिकी आत्यन्तिकदुःखचिकित्सा मोक्षसाधना ज्ञातव्या। यत् च किञ्चन इति अनेन अनुक्तम् अपि कृत्स्नं ज्ञेयम् अवरुणद्धि॥ ३७,३८

अरुन्धतीपद्धतिः –
रजस्तमोयुक्तः पुरुषः संसरति, रजस्तमोमुक्तः पुरुषः मुक्तो भवति इति एतावत् पूर्वसूत्रे उक्तम्। रजस्तमोयुक्तः पुरुषः इत्युक्ते सदोषः पुरुषः।ताभ्यां मुक्तः पुरुषः दोषहीनः। येषां ज्ञानं मोक्षसाधनभूतं तादृशाः के के भावाः सदोषे चतुर्विंशतिके पुरुषे प्रतिष्ठिताः इति वक्ति सूत्रकारः प्रकृते सूत्रे । दोषहीने पुरुषे एते भावाः न सन्ति इति अर्थापत्त्या सिद्ध्यति।
सूत्रे कर्मशब्दः विद्यते।दृष्टादृष्टानि सर्वाणि कर्माणि तस्य शब्दस्य वाच्यार्थः।तथापि चक्रपाणिः ‘कर्मेति अदृष्टम्’ इति अर्थस्य सङ्कोचं करोति।तथैव फलविषये।फलशब्दस्य वाच्यार्थे दृष्टादृष्टानि सर्वाणि फलानि समाविष्टानि।तथापि चक्रपाणिः ‘फलमिति अदृष्टफलम्’ इति उक्त्वा अर्थस्य सङ्कोचं करोति।किमत्र प्रयोजनम्?चतुर्विंशतिके पुरुषे दृष्टकर्म तथा दृष्टफलं न विद्यते वा?
अत्र उच्यते।चतुर्विंशतिके पुरुषे किं किं विद्यते इति एतस्य परिगणनाय नास्ति अस्य सूत्रस्य अवतारः।अतः चतुर्विंशतिके पुरुषे दृष्टकर्म दृष्टफलं च विद्यमानमपि अत्र न गृहीतम् इति न दोषाय।
सूत्रस्य अन्ते फलवचनम् अस्ति।एवं यो वेद इत्यादि।तत्फलम् उद्दिश्य उपायः उपदिश्यते अत्र कर्म इत्यादिना।एतदेव अस्य सूत्रस्य प्रयोजनम्। तस्मात् एतत्फलस्य उपायभूतं यत्, तदेव उपदिष्टम् अत्र कर्म इत्यादिना।दृष्टं कर्म अशनपानादि। ‘अशनपानादि पुरुषे विद्यते’ इति ज्ञानम् उक्तफलं प्रति उपायभूतं न भवति। दृष्टं फलं क्षुधातृषाशन्त्यादि।‘क्षुधातृषाशान्त्यादि पुरुषे विद्यते’ इति ज्ञानम् उक्तफलं प्रति उपायभूतं न भवति।अतः कर्मशब्देन अदृष्टं कर्म अत्र ग्राह्यम्, फलशब्देन च अदृष्टफलमत्र ग्राह्यमिति अर्थसङ्कोचः उचितः एव। प्रयोजनतन्त्रयुक्तेः आधारेण कृतः अयम् अर्थसङ्कोचः।
प्रयोजनं नाम यदर्थं कामयमानः प्रवर्त्तते।च.सि.१२चक्रपाणिः।
एवमेव चिकित्साशब्दस्य अर्थविषये।चिकित्साशब्देन सर्वा चिकित्सा ग्राह्या।परं चक्रपाणिः तत्रापि चिकित्साशब्दस्य अर्थसङ्कोचं कृत्वा वदति,
‘चिकित्सां चेति नैष्ठिकी आत्यन्तिकदुःखचिकित्सा मोक्षसाधना ज्ञातव्या’
अत्र चिकित्सा ज्ञेयविषयः अतः फलान्तर्गता।तत् फलमुद्दिश्य अत्र कर्म इत्यादिः उपायः उपदिष्टः। यदि ज्वरादिरोगाणां चिकित्सा फलत्वेन अभिप्रेता अस्ति, तर्हि तदर्थं चतुर्विंशतिकपुरुषनिष्ठभावानां ज्ञानम् इति उपायः नास्ति।मोक्षसाधनभूता चिकित्सा फलत्वेन अभप्रेता अस्ति चेदेव अत्र कर्म इत्यादिज्ञानं तत्र उपायभूतं भवति। तस्मात् चिकित्सापदेन अत्र नैष्ठिकी चिकित्सा एव ग्राह्या।
प्रलयोदयौ इति सूत्रस्थः शब्दः।तस्य अर्थं ब्रूते टीकाकारः ‘जीवितमरणे’ इति। उपरितनपङ्कौ अपि जीवितं मरणम् इति शब्दौ विद्येते।यदि प्रलयोदयशब्दयोः अपि अर्थः जीवितमरणे इत्येवास्ति,तर्हि ‘यः जीवितं मरणं च वेद सः जीवितं मरणं च तत्त्वेन जानाति’ इति अर्थः निष्पद्यते।जीवितमरणज्ञानं फलं, तस्योपायः अपि जीवितमरणज्ञानम्। कथमेतद् अपार्थकमुच्यते मुनिना?अथवा प्रलयोदयशब्दयोः कौचित् भिन्नौ अर्थौ अत्र ग्राह्यौ?
नैवम्।प्रलयोदययोः अर्थौ जीवितमरणे इत्येव ग्राह्यौ।तथापि मुनिवचने अपार्थकत्वं नास्ति।मुनेः अभिप्रेता वाक्ययोजना एवमस्ति –
‘यः जीवितं मरणं च अत्र चतुर्विंशतिके पुरुषे प्रतिष्ठिते इति एवं वेद सः जीवितं मरणं च तत्त्वेन वेद’।
एवम् अत्र उपायः जीवितमरणयोः पुरुषप्रतिष्ठितत्वस्य ज्ञानम् ।ततः प्राप्यमाणं फलं जीवितमरणयोः तत्त्वेन ज्ञानम्।नात्र किमपि अपार्थकमस्ति।

भास्तमः सत्यमनृतं वेदाः कर्म शुभाशुभम्।न स्युः कर्ता च बोद्धा च पुरुषो न भवेद्यदि ॥३९॥
नाश्रयो न सुखं नार्तिर्न गतिर्नागतिर्न वाक्।न विज्ञानं न शास्त्राणि न जन्म मरणं न च॥४०॥
न बन्धो न च मोक्षः स्यात् पुरुषो न भवेद्यदि।कारणं पुरुषस्तस्मात् कारणज्ञैरुदाहृतः॥४१॥

पदच्छेदः-
भाः तमः सत्यम् अनृतं वेदाः कर्म शुभ-अशुभम्।न स्युः कर्ता च बोद्धा च पुरुषः न भवेद् यदि॥३॥
न आश्रयः न सुखं न अर्तिः न गतिः न अगतिः न वाक्।न विज्ञानं न शास्त्राणि न जन्म मरणं न च॥४०॥
न बन्धः न च मोक्षः स्यात् पुरुषः न भवेद् यदि।कारणं पुरुषः तस्मात् कारणज्ञैः उदाहृतः॥४१॥

अन्वयः-
यदि कर्ता च बोद्धा च पुरुषः न भवेत् (तर्हि)भाः तमः सत्यम् अनृतं वेदाः शुभ-अशुभं कर्म, (इति एते भावाः)न स्युः। यदि पुरुषः न भवेद् (तर्हि)न आश्रयः, न सुखं, न अर्तिः, न गतिः, न अगतिः, न वाक्,न विज्ञानं, न शास्त्राणि, न जन्म, न च मरणं ,न बन्धः, न च मोक्षः स्यात् ।तस्मात् कारणज्ञैः पुरुषः कारणम् उदाहृतः॥४१॥

सरलार्थः-
यदि च कश्चित् चेतनः पुरुषः न स्यात् तर्हि भाः, तमः, सत्यम्, असत्यं, वेदाः, शुभं कर्म, अशुभं कर्म, कर्ता, बोद्धा इति एते भावाः न भवेयुः।यदि पुरुषः न भवेत् तर्हि शरीरं, सुखं, दुःखं, गमनम् आगमनं, वाणी, विज्ञानं, शास्त्राणि, जन्म, मरणं, बन्धः तथा मोक्षः एतेषु किमपि न स्यात्।अतः ये कारणज्ञाः, तैः कारणं पुरुषः उदाहृतः।

आयुर्वेददीपिका
पुरुषः कारणं कस्माद् इति प्रश्नस्य उत्तरं भाः तमः इत्यादि। भाः प्रतिभा। तमः मोहः। पुरुष इह प्रकरणे आत्मा अभिप्रेतः। आश्रयः शरीरम्। गतिः च प्रयोजन-अनुसन्धानाद् भवति , एवम् आगतिः अपि। कारणं पुरुषः तस्माद् इति भास्तमःसत्यादौ कारणं पुरुषः इति अर्थः। एतद् एव भाआदिकारणत्वम् आत्मनः आह न चेद् इत्यादि। एवं मन्यते भास्तमसी धर्म-अधर्मजन्ये, धर्म-अधर्मौ च असति आत्मनि निराश्रयौ न भवितुम् अर्हतः; तथा सत्यं धर्मजनकतया उपादेयम्, अनृतं च अधर्मजनकतया अनुपादेयम्, एतत् च आत्मनि स्थिरे असति धर्म-अधर्मजनकत्वं न अस्ति, ततः च सत्य-असत्यभेदः अपि अकिञ्चित्करत्वात् न अस्ति; एवं शुभ-अशुभकर्मणि अपि वाच्यं; तथा कर्ता च कारण-प्रतिसन्धाता न भवति, प्रतिसन्धातुः आत्मनः अभावाद् इति अर्थः; तथा बोद्धा च पूर्व-अपर-अवस्थाप्रतिसन्धाता एव भवति; शरीरं च आत्मनो भोगायतनं न आत्मानं विना भवति; एवं सुखादौ अपि आत्मनः कारणत्वम् उन्नेयम्; विज्ञानं शास्त्रार्थज्ञानं, शास्त्राणि प्रतिसन्धात्रा आत्मना एव कृतानि।

अरुन्धतीपद्धतिः –
पुरुषशब्दस्य अर्थः अत्र आत्मा इति चक्रपाणिना उक्तम्।यतो हि अग्रे आत्मशब्देन एव अस्य परामर्शः कृतः सूत्रकारेण न चेत् कारणमात्मा स्यादिति।प्रतिलोमतन्त्रयुक्त्या अयम् अर्थः कृतः।
उद्देशग्रन्थे अग्निवेशेन केचन प्रश्नाः पृष्टाः।तेषामुत्तराणि पुनर्वसुः वदति।तत्र प्रथमः प्रश्नः आसीत् कतिधा पुरुषः इति।तस्य उत्तरमुक्त्वा सम्प्रति ‘पुरुषः कारणं कस्मात्’ इति प्रश्नस्य उत्तरम् आरभ्यते भास्तमः इत्यादिना।
पुरुषः अस्ति न वा इति प्रश्नकर्तुः सन्देहः नास्ति।पुरुषसद्बावम् अङ्गीकृत्य एव प्रश्नः क्रियते पुरुषः कारणं कस्माद् इति।किमस्य प्रश्नस्य बीजम्? उच्यते।
प्रकृतेर्महांस्ततोऽहङ्कारः तस्माद् गणश्च षोडशकः
इति सर्गः उक्तः साङ्ख्यमते।तत्र महदादिप्रपञ्चस्य प्रकृतेः जन्म उक्तम्।अतः ‘प्रकृतिः कारणम्’ इति वक्तव्यम्।‘पुरुषः कारणम्’ इति कस्माद् उच्यते इति अग्निवेशस्य आशयः।
कार्यकारणभावः अन्वयव्यतिरेकाभ्यां निश्चीयते।तन्तुसत्त्वे पटसत्त्वम् इति अन्वयः। तन्त्वभावे पटाभावः इति व्यतिरेकः।एवम् अन्वयव्यतिरेकाभ्यां तन्तुपटयोः कार्यकारणभावः निर्धार्यते।
प्रकृते पुरुषप्रपञ्चयोः कार्यकारणभावः निश्चेतव्यः।तदर्थं पुरुषसत्त्वे प्रपञ्चसत्त्वं, पुरुषाभावे प्रपञ्चाभावः इति दर्शनीयम्।पुरुषसत्त्वे प्रपञ्चसत्त्वम् इति अन्वयः तु लोकप्रसिद्धः।अतः पुरुषाभावे प्रपञ्चाभावः इति व्यतिरेकः तावत् पुनर्वसुना उच्यते भास्तमः इत्यादिना पुरुषो न भवेद्यदि इत्यन्तेन।पुरुषाभावे भादीनामभावः इति अस्य विस्तरस्य सारः।पुरुषसत्त्वे भादयः सन्ति, पुरुषासत्त्वे भादयः न सन्ति, तस्मात् पुरुषः भादीनां कारणम् इति आशयः।
एवं तर्हि प्रपञ्चस्य कारणं किम्? प्रकृतिः अथवा पुरुषः? प्रकृतिः उपादानकारणं पुरुषः निमित्तकारणमिति व्यवस्था कार्या।समवायिकारणभिन्नमसमवायिकारणभिन्नं यत् कारणम् तद् निमित्तकारणम् इति न्यायकोशः।प्रकृतिपुरुषसंयोगः महदादिप्रपञ्चस्य कारणम् –
तस्मात् तत्संयोगात् अचेतनं चेतनवदिव लिङ्गम् ।सा.का.२०
अतः महदादिप्रपञ्चस्य समवायिकारणं प्रकृतिः,असमवायिकारणं प्रकृतिपुरुषसंयोगः,तथा निमित्तकारणं पुरुषः इति कारणज्ञाः वदन्ति।

न चेत् कारणमात्मा स्याद्भादयः स्युरहेतुकाः।

पदच्छेदः-
न चेत् कारणम् आत्मा स्यात् भा-आदयः स्युः अहेतुकाः।

अन्वयः-
कारणम् आत्मा न स्यात् चेत्, भा-आदयः अहेतुकाः स्युः ।

सरलार्थः-
यदि आत्मा कारणं न स्यात् तर्हि भादयः उपरि उक्ताः भावाः हेतुरहिताः स्युः ।

अरुन्धतीपद्धतिः –
हेतुः अत्र निमित्तहेतुः।
ननु सूत्रे ‘हेतुः’ इति शब्दः पुरुषस्य कृते प्रयुक्तः।स च शब्दः उपादाने अपि सम्भवति, निमित्ते अपि सम्भवति। पुरुषः निमित्तकारणत्वेन मुनेः अभिमतः इति अत्र का विनिगमना?
अनागतावेक्षणतन्त्रयुक्तिः अत्र विनिगमना।पुरुषः प्रपञ्चकारणम् इति एषः सिद्धान्तः। अस्य स्पष्टीकरणाय अग्रे द्वौ दृष्टान्तौ मुनिना उक्तौ। कुम्भकाराद् ऋते घटः न भवति तथा गृहकाराद् ऋते गृहं न भवति इति। एतयोः अनागतयोः दृष्टान्तयोः अवेक्षणेन एतद ज्ञायते। दृष्टान्ते कुम्भकारगृहकारौ उपमानभूतौ।सिद्धान्ते पुरुषः उपमेयभूतः।घटनिर्माणे कुम्भकारः निमित्तभूतः, गृहरचनायां गृहकारः निमित्तभूतः।तथैव सिद्धान्ते प्रपञ्चनिर्माणे पुरुषः निमित्तभूतः। तस्मात् पुरुषः निमित्तकारणत्वेन मुनेः अभिमतः इति स्पष्टम्।
पूर्वतनवचने ‘पुरुषाभावे भादीनाम् अभावः’ इति व्यतिरेकं दर्शयित्वा उभयोः कार्यकारणभावः साधितः।अत्र अनुमानेन तदेव साध्यते। इदम् अनुमानम् –
महदादिप्रपञ्चः सहेतुकः।
कार्यत्वात्।
यद् यत् कार्यं, तत् तत् सहेतुकं, यथा घटः।
महदादिप्रपञ्चः अपि कार्यरूपः। अतः महदादिप्रपञ्चः सहेतुकः।
प्रधानमिति महदादिप्रपञ्चस्य उपादानकारणम्।तर्हि निमित्तकारणं ततः किमपि भिन्नम् भवितुम् अर्हति।तद् यत् निमित्तं, तस्य एव पुरुषसंज्ञा।यदि एताम् उपपत्तिं नाङ्गीकुर्मः तर्हि महदादिप्रपञ्चः कार्यभूतः सन् अपि अहेतुकः स्यात्।तच्च मतम् उपरितनेन अनुमानेन बाधितम्।तस्मात् भादीनां हेतुः विद्यते, स च हेतुः पुरुषः इति उच्यते।

न चैषु सम्भवेज् ज्ञानं ... ।४२

पदच्छेदः-
न च एषु सम्भवेत् ज्ञानं ... ।४२

अन्वयः-
एषु च ज्ञानं न सम्भवेत्... ।४२

सरलार्थः-
यदि आत्मा भादिपदार्थानां कारणं न स्यात् तर्हि एषु भादिविषयेषु ज्ञानम् एव न स्यात्।

आयुर्वेददीपिका
न च एषु सम्भवेत् ज्ञानम् इति आत्मानं ज्ञातारं विना न भादिषु ज्ञानं सम्भवेत्, ज्ञातुः आत्मनः अभावाद् इति अर्थः। ४२

अरुन्धतीपद्धतिः –
न चैषु सम्भवेज् ज्ञानम् इति सूत्रे ‘एषु’ इति विषयसप्तमी।एतद्विषयेषु इत्यर्थः।आत्मा कारणं नास्ति चेत् भादीनां प्रापञ्चिकपदार्थानां विषये ज्ञानं न स्यात् इत्यर्थः सूत्रस्य।
पुरुषस्य प्रपञ्चकारणत्वे अपरा उपपत्तिः अत्र उच्यते। यदि पुरुषः नास्ति तर्हि प्रपञ्चविषयकं ज्ञानमपि कस्यापि न सम्भवति इति सूत्रस्य अर्थः।पुरुषः सर्वस्य महदादिप्रपञ्चस्य बोद्धा अस्ति । ननु किमर्थम् इदम् उच्यते पुरुषः प्रपञ्चस्य ज्ञाता अस्ति इति? पुरुषः कारणं कस्मात् इति अग्निवेशस्य प्रश्नः, न तु पुरुषः ज्ञाता कस्मात् इति।
ब्रूमः।प्रपञ्चपुरुषयोः ज्ञातृज्ञेयभावसम्बन्धः अस्ति इति एतस्मात् तयोः कार्यकारणभावः अस्ति इति अपि सिद्ध्यति? कथमिति चेत् , उच्यते।
प्रकृतिः महदादिरूपेण किमर्थं नटति इति अस्मिन् विषये साङ्ख्यमतम् एवम् अस्ति –
पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य।... तत्कृतः सर्गः॥सां.कारिका २१
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात्।पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः॥सां.कारिका५०
प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः सुस्थः।सा.कारिका६५
पुरुषेण प्रधानस्य दर्शनार्थं तथा पुरुषस्य कैवल्यार्थं सर्गः प्रवर्तते इत्यर्थः।एवं प्रपञ्चपुरुषयोः ज्ञातृज्ञेयभावः अस्ति अतः एव सर्गस्य एतत् प्रयोजनं सिद्ध्यति।यदि पुरुषः ज्ञाता न स्यात् तर्हि किमर्थं प्रधानमपि सर्गम् आरभेत?एवं पुरुषस्य ज्ञानार्थं सर्गः प्रवर्तते चेत् पुरुषः सर्गस्य प्रयोजकः भवति। परम्परया कार्यजनकत्वं प्रयोजकत्वम्।पुरुषः ज्ञातृज्ञेयभाव-सम्बन्धद्वारा महदादिप्रपञ्चस्य जनकः भवति अतः महदादिप्रपञ्चस्य कर्ता पुरुषः इति कारणज्ञैः उच्यते।

... न च तैः स्यात् प्रयोजनम्॥४२॥

पदच्छेदः-
... न च तैः स्यात् प्रयोजनम्॥४२॥

अन्वयः-
... तैः च प्रयोजनं न स्यात् ॥४२॥

सरलार्थः-
यदि पुरुषः कर्ता न स्यात् तर्हि भादिभिः प्रापञ्चिकपदार्थैः किमपि प्रयोजनं न सिद्ध्येत् ।

आयुर्वेददीपिका
न च तैः स्यात् प्रयोजनम् इति भादीनाम् आत्मार्थत्वेन, असति आत्मनि भादि-उत्पत्तेः प्रयोजनं न स्यात्, प्रयोजन-अभावात् च उत्पादः न स्यात्; सर्वेषाम् एव हि भावानाम् आत्मस्थौ धर्माधर्मौ पुरुषभोगार्थम् उत्पादकौ, असति भोक्तरि भोज्येन अपि न भवितव्यं कारणाभावात्॥३९-४२ ॥

अरुन्धतीपद्धतिः –
किमस्ति प्रयोजनं महदादिप्रपञ्चस्य?
पुरुषार्थहेतुकमिदं निमित्त-नैमित्तिकप्रसङ्गेन।- सां.कारिका४२
पुरुषार्थः प्रयोजनं सर्गस्य।पुरुषार्थः इति पुरुषस्य भोगः मोक्षः च।पुरुषस्य भोगार्थं पुरुषस्य मोक्षार्थं च सर्गो भवति।निमित्तम् इति धर्माधर्मौ।नैमित्तिकम् इति धर्माधर्मयोः कार्यं शरीरग्रहः।
पुरुषस्य भोगः इति महदादिप्रपञ्चस्य प्रयोजनम्। तदर्थं शरीरग्रहः अनिवार्यः।यतो हि भोगायतनं शरीरम्। शरीरग्रहस्य निमित्तं धर्माधर्मौ।तौ च धर्माधर्मौ पुरुषाश्रितौ भवतः।यदि पुरुषः एव न विद्यते तर्हि अग्रे कार्यकारणपरम्परा एव न भवति।अतः प्रपञ्चस्य परम्परया निमित्तं पुरुषः भवति इति कारणज्ञाः वदन्ति।

कृतं मृद्दण्डचक्रैश्च कुम्भकारादृते घटम्।कृतं मृत्तृणकाष्ठैश्च गृहकाराद्विना गृहम्॥४३।
यो वदेत् स वदेद्देहं सम्भूय करणैः कृतम्।विना कर्तारमज्ञानाद्युक्त्यागमबहिष्कृतः॥४४॥

पदच्छेदः-
कृतं मृत्-दण्ड-चक्रैः च कुम्भकारात् ऋते घटम्।कृतं मृत्-तृण-काष्ठैः च गृहकारात् विना गृहम्॥४३॥
यः वदेत् सः वदेत् देहं सम्भूय करणैः कृतम्।विना कर्तारम् अज्ञानात् युक्ति-आगम-बहिष्कृतः॥४४॥

अन्वयः-
यः घटं कुम्भकारात् ऋते मृत्-दण्ड-चक्रैः कृतं वदेत् , यः च गृहं गृहकारात् विना मृत्-तृण-काष्ठैः च कृतं वदेत्,सः अज्ञानात्, देहं कर्तारम् विना, करणैः सम्भूय कृतं वदेत्।(सः)युक्ति-आगम-बहिष्कृतः (अस्ति)॥४४॥

सरलार्थः-
यः घटं कुम्भकाराद् विना मृत्तिका-दण्ड-सूत्राद्यैः साधनैः कृतं वदति, यः गृहं गृहकाराद् विना मृत्तिका-तृण-काष्ठादिभिः साधनैः कृतं वदति, सः एव ‘एषः देहः आत्मानं विना केवलं करणैः कृतः इति अज्ञानात् वदेत्।सः युक्तिः तथा आगमः इति एताभ्यां प्रमाणाभ्यां रहितः अस्ति।

आयुर्वेददीपिका
आत्मानं विना शरीर-अनुत्पादे दृष्टान्तद्वयं प्रमेयगौरवाद् आह कृतं मृद्दण्डेत्यादि।सम्भूय करणैः कृतम् इति आत्मनिरपेक्षैः भूतैः कृतम् इति अर्थः। युक्त्या अनुमानरूपया आगमेन च रहितः युक्ति-आगमबहिष्कृतः; प्रत्यक्षं च अत्र न उक्तं, तस्य आत्मानं प्रति प्रायः अयोग्यत्वात्॥४३-४४॥

अरुन्धतीपद्धतिः –
पूर्वतनसूत्रे ‘आत्माभावे प्रपञ्चाभावः’ इति व्यतिरेकः उक्तः।सः व्यतिरेकः अत्र दृष्टान्तद्वयेन समर्थ्यते। सिद्धान्तः महत्त्वपूर्णः अस्ति अतः दृष्टान्तद्वयम्।
युक्त्या बहिष्कृतः इति युक्तिविरुद्धं भाषमाणः।आत्माभावे प्रपञ्चाभावः इति युक्तिः। तद्विरुद्धं वदति इति युक्तिबहिष्कृतः।
आगमविरुद्धं वदतीति आगमबहिष्कृतः। आगमश्च एवम्-
मृद्दण्डचक्रसंयोगात् कुम्भकारो यथा घटम्।करोति तृण-मृत्-काष्ठैः गृहं च गृहकारकः॥१४६
करणान्येवमादाय तासु तास्विह योनिषु।सृजत्यात्मानमात्मा च सम्भूय करणानि च॥याज्ञ.स्मृतिः यतिधर्मप्र.१४८
सूत्रे सम्भूय करणैः कृतम् इति रचना अस्ति।तत्र आत्मनिरपेक्षैः इति विशेषणं योजयति चक्रपाणिः।कः तस्य आधारः?
उद्धारतन्त्रयुक्तिः अत्र आधारः।न चेत् कारणम् आत्मा इत्यारभ्य परपक्षदूषणं कृत्वा अग्रे कारणं पुरुषः च.शा.१.४५ इति स्वमतं स्थाप्यते। एषः उद्धारः।
उद्धारो नाम परपक्षदूषणं कृत्वा स्वपक्षोद्धरणम् ।च.सि.१२.चक्रपाणिः
अत्र पूर्वपक्षः दूषणीयः।‘भूतानि प्रपञ्चम् आरभन्ते।’ इति वचनं दूषणार्हं नास्ति। ‘आत्मनिरपेक्षाणि भूतानि प्रपञ्चम् आरभन्ते’ इति दूषणीयं वचनं भवति।अतः चक्रपाणिना यद् विशेषणं दत्तं तद् आवश्यकमेव।यतो हि भूतानि प्रपञ्चम् अरभन्ते इति अस्मिन् शास्त्रे अनुमतमेव।पुरुषरहितानि भूतानि प्रपञ्चम् आरभन्ते इति तु अस्मिन् शास्त्रे न अनुमन्यते।

कारणं पुरुषः सर्वैः प्रमाणैरुपलभ्यते।येभ्यः प्रमेयं सर्वेभ्य आगमेभ्यः प्रमीयते॥४५॥

पदच्छेदः-
कारणं पुरुषः सर्वैः प्रमाणैः उपलभ्यते।येभ्यः प्रमेयं सर्वेभ्यः आगमेभ्यः प्रमीयते॥४५॥

अन्वयः-
येभ्यः सर्वेभ्यः आगमेभ्यः प्रमेयं प्रमीयते, (तै:) सर्वैः प्रमाणैः पुरुषः कारणम् (इति) उपलभ्यते ॥४५॥

सरलार्थः-
यैः सर्वैः प्रमाणैः प्रमेयं प्रमीयते तैः सर्वैः प्रमाणैः ‘पुरुषः कारणम्’ इति ज्ञायते।

आयुर्वेददीपिका
सर्वैः प्रमाणैः इति प्रत्यक्ष-आदिभिः। येभ्यः इति करणे एव अपादानविवक्षया पञ्चमी। आगमयन्ति बोधयन्ति इति आगमाः प्रमाणानि एव; अन्ये तु आगम-प्रमाणाभ्यां शास्त्राणि एव ब्रुवते॥४५॥

अरुन्धतीपद्धतिः –
सूत्रे सर्वेभ्यः आगमेभ्यः इति पदे स्तः।आगमशब्दस्य अत्र अर्थः चक्रपाणिना उक्तः प्रमाणम् इति।आगमशब्दस्य अर्थः प्रमाणम् इति कथं भवति? निर्वचनतन्त्रयुक्त्या।
निर्वचनं निरुक्तिः...। च.सि.१२ चक्रपाणिः।
आगमशब्दस्य निरुक्तिः आगमयन्ति बोधयन्ति इति अस्ति।बोधस्य साधनं प्रमाणम्।तस्मात् आगमशब्देन प्रमाणम् इति अर्थः ग्रहीतुं युज्यते।
यदि बोधस्य साधनम् आगमः तर्हि तस्य तृतीयान्तं रूपम् अत्र भवतु। पञ्चम्यन्तं रूपं कथं प्रयुक्तम् इति सम्भवति प्रश्नः।तस्यापि उत्तरं दत्तं चक्रपाणिना करणे एव इत्यादिना।
आगमः अत्र करणम् एव अस्ति, तथापि वक्ता तस्य अपादानत्वम् इच्छति। अपादाने पञ्चमी भवति अतः कारणेभ्यः इति पञ्चम्यन्तः प्रयोगः कृतः। वक्तुः इच्छाम् अनुसृत्य कारकनिर्णयः भवति वा? आम्। ‘विवक्षातः कारकाणि भवन्ति’ इति व्याकरणसमयः।
आगमशब्दस्य अर्थः चक्रपाणिना प्रमाणम् इति कृतः।अन्ये केचन ‘शास्त्राणि’ इति तस्य अर्थं कुर्वन्ति।सूत्रस्य पूर्वार्धे प्रमाणशब्दस्य प्रयोगः अस्ति,तस्य अर्थः अपि ‘शास्त्राणि’ । आगमः तथा प्रमाणम् इति उभाभ्यां शब्दाभ्याम् ‘शास्त्रम्’ इति अर्थः ज्ञायते इति तेषां मतम्। एतद् मतम् चक्रपाणिना न खण्डितम्।अतः एतद् अर्थकरणम् अपि तस्य अनुमतम् ।

न ते तत्सदृशास्त्वन्ये पारम्पर्यसमुत्थिताः।सारूप्याद्ये त एवेति निर्दिश्यन्ते नवा नवाः॥४६॥
भावास्तेषां समुदयो निरीशः सत्त्वसञ्ज्ञकः।कर्ता भोक्ता न स पुमानिति केचिद्व्यवस्थिताः॥४७॥

पदच्छेदः-
न ते तत्-सदृशाः तु अन्ये पारम्पर्य-समुत्थिताः।सारूप्यात् ये ते एव इति निर्दिश्यन्ते नवाः नवाः॥४६॥
भावाः तेषां समुदयः निर्-ईशः सत्त्वसञ्ज्ञकः।कर्ता भोक्ता न सः पुमान् इति केचित् व्यवस्थिताः॥४७॥br>
अन्वयः-
ते (भावाः) (एते) न।तु तत्-सदृशाः पारम्पर्य-समुत्थिताः अन्ये(एते भावाः)। ये नवाः नवाः (अपि)सारूप्यात् ते एव भावाः इति निर्दिश्यन्ते ॥४६॥ तेषां (भावानां) निर्-ईशः समुदयः सत्त्वसञ्ज्ञकः।कर्ता भोक्ता सः पुमान् न इति केचित् व्यवस्थिताः॥४७॥

सरलार्थः-
शरीरे इदानीं विद्यमानाः पृथिव्यादयः भावाः ते पूर्वक्षणे विद्यमानाः भावाः न।एते इदानींतनाः भावाः पूर्वभावसदृशाः सन्ति परन्तु एते अन्ये भावाः।एते भावाः कार्यकारणपरम्परया उत्पन्नाः। पूर्वभावैः सदृशम् एतेषां रूपम् अस्ति। अतः यद्यपि एते नवाः नवाः भावाः, तथापि एते ‘ते एव’ पूर्वतनाः भावाः इति निर्देशः भवति।तेषां प्रतिक्षणं नश्यतां भावानां यः समुदयः ,सः ईशरहितः अस्ति, तस्य नाम प्राणी।कर्ता वा भोक्ता वा कश्चित् पुरुषः नास्ति इति केषाञ्चित् मतम्।

आयुर्वेददीपिका
निरात्मवादिमतम् उत्थापयति न ते इत्यादि।अस्मिन् शरीरे ते के एव पृथिवीजलादयो भावाः, ये ते एव इति व्यपदिश्यन्ते; ते न भवन्ति, पूर्वानुभूता न अनुभवन्ति इति अर्थः। यदि ते न भवन्ति, कथं तर्हि ‘ते’ इति अभिज्ञानम् इति आह तत्सदृशाः तु अन्ये पूर्वसदृशाः इति अर्थः।पारम्पर्य-समुत्थिताः इति सदृश-सन्तान-व्यवस्थिताः। सारूप्याद् इति सदृशरूपत्वात्। तेषां समुदयः इति क्षणभङ्गिनां मेलकः इति अर्थः। निरीशः इति स्थायि-आत्म-रहितः। सत्त्वसञ्ज्ञकः इति प्राणिसञ्ज्ञकः। केचिद् इति बौद्धाः। बौद्धाः हि निरात्मकं क्षणिकज्ञानादिसमुदायमात्रं शरीरम् इच्छन्ति; प्रतिसन्धानं च क्षणिकानाम् अपि ज्ञानादीनां कार्यकारणभावाद् एकफलसन्ततौ इच्छन्ति ॥४६, ४७॥

अरुन्धतीपद्धतिः –
आत्मा नाम कश्चित् पदार्थः एव यैः न अङ्गीक्रियते तेषां खण्डनं कृतम्।अधुना ‘आत्मा अस्ति परं सः क्षणिकः अस्ति’ इति मतस्य खण्डनम् आरभ्यते।आत्मा नाम कश्चित् नित्यः पदार्थः नास्ति इति ये वदन्ति ते निरात्मवादिनः।तेषां मतम् अत्र पूर्वपक्षत्वेन उपस्थापितम्।
अभिज्ञानम् इति प्रत्यभिज्ञा।अतीतावस्थावस्तुग्रहणं प्रत्यभिज्ञा इति न्यायकोशः।पूर्वं कदाचित् देवदत्तः दृष्टः आसीत्।अद्य पुनः यदा दृष्टिगोचरः भवति तदा ‘सः अयं देवदत्तः’ इति भानं भवति।सोऽयं देवदत्तः इति ज्ञानं प्रत्यभिज्ञा।एतादृशी प्रत्यभिज्ञा तदा एव शक्यते, यदा पूर्वं देवदत्तस्य ज्ञाता तथा इदानीं विद्यमानः ज्ञाता समानः अस्ति।
बौद्धाः क्षणभङ्गवादिनः।ते प्रत्येकं पदार्थः क्षणेन नश्यति इति मन्यन्ते।आत्मा अपि क्षणमात्रम् अस्ति, क्षणेन नश्यति।द्वितीयः आत्मा जायते, सः अपि क्षणेन नश्यति।एकः एव आत्मा अनुवर्तते इति भ्रमः। क्षणिकानाम् आत्मनां सन्तानः अखण्डात्मरूपेण भासते, तद् न वास्तवम् इति बौद्धमतम्।आत्मा क्षणिकः इति एषां मतम् अतः एते निरात्मवादिनः उच्यन्ते।
अस्मिन् मते नित्यात्मवादिनाम्आक्षेपः एवं यद् यदि प्रतिक्षणं ज्ञाता आत्मा नवः उत्पद्यते, तर्हि एतादृशी प्रत्यभिज्ञा न शक्या।परं व्यवहारे तु ‘सः एव अयं देहः’ इति प्रत्यभिज्ञा भवति।सा कथम्?
तत्र बौद्धानामुत्तरम् अस्ति, ‘सारूप्यात्’। इदानींतनः भावः पूर्वतन-भावेन सह सदृशः अस्ति । अतः यद्यपि सः भावः नवः, तथापि ‘एषः सः एव’ इति प्रत्यभिज्ञा भवति।

तेषामन्यैः कृतस्यान्ये भावा भावैर्नवाः फलम्।भुञ्जते सदृशाः प्राप्तं यैरात्मा नोपदिश्यते॥४८॥

पदच्छेदः-
तेषाम् अन्यैः कृतस्य अन्ये भावाः भावैः नवाः फलम्।भुञ्जते सदृशाः प्राप्तं यैः आत्मा न उपदिश्यते॥४८॥

अन्वयः-
यैः आत्मा न उपदिश्यते, तेषां (मते) अन्यैः भावैः कृतस्य (कर्मणः )अन्ये नवाः सदृशाः भावाः फलं भुञ्जते (इति) प्राप्तं ॥४८॥

सरलार्थः-
आत्मा स्थायी नास्ति इति ये उपदिशन्ति तेषां मते अन्यैः पूर्वभावैः कृतस्य कर्मणः फलम् अन्ये नवाः सदृशाः भावाः भुञ्जते इति प्राप्तम्।

आयुर्वेददीपिका
एतद् दूषयति तेषाम् इत्यादि। तेषां ज्ञानसन्तानवादिनाम्, अन्येन कृतस्य ओदनपाकादेः फलम् अन्नादि अन्ये भुञ्जते इति प्राप्नोति। एतत् च असङ्गतं, यतः फलं भोक्ष्यामि इति कृत्वा भाविफलप्रत्याशया प्रवृत्तिः युक्ता, न तु अन्यस्य भोग्यतां फलस्य पश्यन् कश्चित् प्रवर्तते; यः अपि सूपकारादिः परार्थं प्रवर्तते, सः अपि परार्थेन स्वार्थं साधयितुकामः एव इति भावः॥४८॥

अरुन्धतीपद्धतिः –
अस्य सूत्रस्य अन्वये ‘अन्यैः’ इति विशेषणम् ‘भावैः’ इति विशेष्यस्य।‘नवाः’ तथा ‘सदृशाः’ इति विशेषणद्वयं ‘भावाः’ इति विशेष्यस्य। यैः स्थायी आत्मा न उपदिश्यते तेषां (मते) अन्यैः भावैः कृतस्य (कर्मणः) फलम् अन्ये नवाः सदृशाः भावाः भुञ्जते इति प्राप्तम् इति अन्वयः।
आत्मनः क्षणभङ्गित्वे सति प्रत्यभिज्ञा कथं सम्भवति इति प्रश्नस्य उत्तरं बौद्धैः दत्तं ‘सारूप्यात्’ इति।
एतद् उत्तरं तुष्यतुदुर्जनन्यायेन अङ्गीकृत्य पुनः निरात्मवादिमतं तर्केण प्रत्याख्याति पुनर्वसुः अस्मिन सूत्रे।यदि आत्मनः क्षणभङ्गित्वम् अङ्गीकुर्मः तर्हि या आपत्तिः भवति सा अस्मिन् सूत्रे प्रदर्शिता। एकः आत्मा कर्म करोति, सः द्वितीयक्षणे नश्यति।अतः कृतस्य कर्मणः फलं न उपभुङ्क्ते।द्वितीयक्षणे द्वितीयः सरूपः आत्मा उत्पद्यते।सः पूर्वतनेन आत्मना कृतस्य कर्मणः फलभोक्ता भवति।
भवतु एवम्।का वा तेन आपत्तिःस्यात्? इति आशङ्कायां वदति चक्रपाणिः एतच्चासङ्गतमिति।अन्यः कर्ता अन्यः भोक्ता इति न्यायसङ्गतं नास्ति इति अर्थः।यः कर्ता, सः एव भोक्ता इति न्यायः।
परं सूपकारः अन्नं साधयति, अन्ये जनाः भुञ्जते इति व्यवहारे दृश्यते।कथं तर्हि यः एव कर्ता सः एव भोक्ता इति न्यायः उचितः?
सूपकारः अन्नं साधयति, अन्ये भुञ्जते इति अत्र सूपकारः परान् भोजयति।अनेन कर्मणा सः कमपि स्वार्थं साधयति।परभोजनम् इति एव तस्य कर्म।तेन परार्थेन प्राप्यमाणं द्रव्यादिकं तस्य कर्मणः फलम्।अतः यः एव कर्ता सः एव भोक्ता इति न्यायः अबाधितः।
अत्र पुनर्वसुना निरात्मवादस्य खण्डने तर्कस्य अवलम्बः कृतः।व्याप्यारोपेण व्यापकारोपः तर्कः।पर्वते सत्यपि धूमे यः अग्निसद्भावं न मन्यते तं प्रति उच्यते ‘’पर्वते यदि अग्निः न स्यात् तर्हि धूमः अपि न स्यात्।‘’ एषः तर्कः।अत्र अग्न्यभावः व्याप्यः।धूमाभावः व्यापकः।यत्र व्याप्यं तत्र व्यापकम् इति व्याप्तेः स्वरूपं भवति।अतः यत्र अग्न्यभावः तत्र धूमाभावः अपि भवितुमर्हति।न च तथा दृश्यते।पर्वते धूमः तु दृश्यते।तस्मात् पर्वते अग्न्यभावः इति वचनं खण्डितं भवति।
प्रकृते निरात्मवादी आत्मनि कर्मफलसद्भावे अपि नित्यत्वं न मन्यते।तं प्रति पुनर्वसुः वदति,’ यदि आत्मनि नित्यत्वं न स्यात् तर्हि कर्मफलसामानाधिकरण्यम् अपि न स्यात्।‘ कर्मफलसामानाधिकरण्यम् अपि न स्यात् इत्युक्ते कश्चिद् एकः आत्मा कर्म करोति, कश्चिद् अपरः आत्मा तस्य कर्मणः फलं भुङ्क्ते इति स्थितिः स्यात्।न च तथा अस्ति।यः कर्म करोति तेनैव फलं भोक्तव्यम्।अतः आत्मनः क्षणभङ्गी इति वचनं खण्डितं भवति।
इदमपि अत्र अवधेयम्।‘आत्मानः नवाः नवाः जायन्ते।सः एव अयम् आत्मा इति एषः सादृश्यनिबन्धनः भ्रमः’ इति निरात्मवादिमतम्।एतद् मतं वैदिकैः नाङ्गीक्रियते।यतो अपसिद्धान्तः एषः। स्वीकृतसिद्धान्तप्रच्यवः अपसिद्धान्तः।निरात्मवादिभिः आत्मनः क्षणमात्रावस्थायित्वम् सिद्धान्तरूपेण अङ्गीकृतम्।अधुना यस्य सादृश्यनिबन्धनः भ्रमः भवति सः आत्मा सादृश्यज्ञानार्थं द्विक्षणावस्थायी भवितुम् अर्हति।तदानीमेव यथा तदानींतने क्षणे विद्यमानः आत्मा तथा एव इदानीं विद्यमानः एषः आत्मा इति सादृश्यज्ञानं सम्भवति।एवं क्षणभङ्गसिद्धान्तात् प्रच्यवः अयम्।अतः अपसिद्धान्तदोषग्रस्तम् इदं वचनं यत् ‘सादृश्यनिबन्धः आत्मनित्यत्वभ्रमः’ इति।
यद्यपि सादृश्यात् इति निरात्मवादिभिः उक्तः हेतुः दुष्टः तथापि पुनर्वसुना न प्रयासः कृतः सारूप्यहेतोः दोषदर्शने।यतो हि तादृशरन खण्डनेन वादिजयः इति एतावान् एव लाभः।न तु स्वपक्षोपकारः कश्चिद् सम्भवति।स्वपक्षोपकारः तु ‘यः करोति सः भुङ्क्ते’ इति सिद्धान्तस्य प्रतिष्ठापनेन भवति।
कोऽत्र स्वपक्षोपकारः इति चेत् उच्यते।अग्रे अग्निवेशस्य प्रश्नः अस्ति कारणं वेदनानां किम्? तस्य उत्तरे निर्दिष्टं दैवशब्देन कर्म यत् पौर्वदेहिकम्।हेतुस्तदपि ;;; ॥च.शा.१.११६ इति अन्यतमं कारणं वदिष्यति।तदर्थं पूर्वभूमिका अत्र दृढीक्रियतए यद् ‘आत्मा कर्म करोति, सः एव फलं भुङ्कते’ इति।
सोऽयं तत्त्वावबोधाय कृतः वादः, न तु वादिजयाय।

करणान्यान्यता दृष्टा कर्तुः कर्ता स एव तु ।कर्ता हि करणैर्युक्तः कारणं सर्वकर्मणाम् ॥४९॥
पदच्छेदः-
करण-अन्य-अन्यता दृष्टा कर्तुः कर्ता सः एव तु ।कर्ता हि करणैः युक्तः कारणं सर्वकर्मणाम् ॥४९॥

अन्वयः-
कर्तुः करण-अन्य-अन्यता दृष्टा, (परं) कर्ता तु सः एव ।हि करणैः युक्तः कर्ता सर्वकर्मणां कारणं (भवति)॥४९॥

सरलार्थः-
यः कर्ता, तस्य साधनेषु परिवर्तनं दृश्यते, परन्तु कर्ता तु सः एकः एव भवति।यतः कर्ता करणैः युक्तः सन् सर्वकर्मणां कारणं भवति।

आयुर्वेददीपिका
परमतं दूषयित्वा स्वमतम् आह करणेत्यादि । करणस्य शरीरस्य परिणामिनः अन्य-अन्यता दृष्टा। कर्ता च आत्मा सः एव, न विनाशी इति अर्थः। अत्र एव दृष्टान्तम् आह कर्ता हि इत्यादि।यथा अनेकशिल्पवित् कर्ता करणैः वांशी-सन्दंशयन्त्रादिभिः काष्ठपाटनलौहघटनादि करोति, तथा आत्मा अपि इति अर्थः॥४९॥

अरुन्धतीपद्धतिः –
परमतं नाम निरात्मवादः।निरात्मवादे आत्मा क्षणिकः, आत्मभिन्नः सर्वः प्रपञ्चः अपि क्षणिकः।स्वमते आत्मा नित्यः, महदादिप्रपञ्चः तावद् अनित्यः।कर्ता स एव तु इति वचनेन एतत् स्वाभिमतम् आत्मनित्यत्वम् उक्तम्।
सूत्रे कर्ता इति पदेन आत्मा विवक्षितः।करणं तस्य शरीरम्।करणम् इत्युक्ते साधनम्।कर्ता आत्मा न परिवर्तते। साधनं शरीरं परिवर्तते।जातमात्रस्य शरीरं शैशवे नास्ति।शिशुशरीरं कौमारे नास्ति। कुमारशरीरं यौवने न भवति।युवशरीरं प्रौढदशायां परिवर्तते।प्रौढस्य शरीरं वार्द्धके परिणमते।परम् एतैः भिन्नैः भिन्नैः शरीरैः एकः एव आत्मा नाना कार्याणि करोति।अतः नानाविधैः करणैः युक्तः सः एव एकः आत्मा एतेषां सर्वेषां कर्मणां कारणम् इति मन्तव्यम्।

निमेषकालाद्भावानां कालः शीघ्रतरोऽत्यये।भग्नानां न पुनर्भावः कृतं नान्यमुपैति च ॥५०॥
मतं तत्त्वविदामेतद्यस्मात्तस्मात् स कारणम्।क्रियोपभोगे भूतानां नित्यः पुरुषसञ्ज्ञकः॥५१॥

पदच्छेदः-
निमेषकालात् भावानां कालः शीघ्रतरः अत्यये।भग्नानां न पुनः भावः कृतं न अन्यम् उपैति च ॥५०॥
मतं तत्त्वविदाम् एतद् यस्मात् तस्मात् सः कारणम्।क्रिया-उपभोगे भूतानां नित्यः पुरुषसञ्ज्ञकः॥५१॥

अन्वयः-
भावानां अत्यये निमेषकालात् शीघ्रतरः कालः (पर्याप्तः भवति)।भग्नानां पुनः भावः न ।कृतं च अन्यम् न उपैति ॥५०॥यस्मात् एतद् तत्त्वविदाम् मतं, तस्मात् भूतानां क्रिया-उपभोगे सः नित्यः पुरुषसञ्ज्ञकः कारणम्।५१

सरलार्थः-
भावानाम् अत्यये निमेषकालाद् अपि शीघ्रतरः कालः भवति।ये भावाः भग्नाः,तेषां पुनरुद्भवः न भवति।कृतं कर्म कर्तारम् एव गच्छति फलदानाय, न अन्यं कंचन।एतत् तत्त्वविदां मतम्। तस्मात् भूतानां क्रियासु अपि उपभोगेषु अपि नित्यः पुरुषसंज्ञकः स कारणम्।

आयुर्वेददीपिका
अथ अयम् आत्मसद्भावः स्थिरः अस्तु, शरीर-आरम्भकाणां भूतानां का वा गतिः इति आह निमेषेत्यादि। भावानाम् इति शरीरादिभावानाम्। अत्यये इति विनाशे; शरीरस्य स्व-अग्निपच्यमानस्य निमेषकालाद् अपि शीघ्रं विनाशः भवति इति अर्थः। अमीषां च भावानां भग्नानां न पुनर्भावः पुनरागमनं न अस्ति इति अर्थः। तेन, येन शरीरेण यत् कृतं तत् शरीरं तत् फलं न प्राप्नोति इति उक्तं भवति| अथ मा भवतु एवं ततः किम् इति आह कृतम् इत्यादि। कृतं कर्म यागादि न फलरूपतया अन्यम् उपैति, एवं सति देवदत्तकृतेन शुभकर्मणा यज्ञदत्त-आदयः अपि सुखभाजः स्युः; तस्मात् क्षणभङ्गि-शरीराद् अतिरिक्तः कर्मकर्ता तत्फलभोक्ता च अस्ति इति भावः। क्रियोपभोगे इति क्रियायां तत्फलभोगे च। भूतानाम् इति प्राणिनाम्॥ ५०,५१

अरुन्धतीपद्धतिः –
अत्ययः नाशः। भूतानां नाशे निमेषादपि शीघ्रतरः कालः पर्याप्तः भवति इत्यर्थः।
आत्मविषये स्वमतम् उक्तम् यद् आत्मा स्थिरः नित्यः अस्ति सः एव कर्ता अस्ति इति। शरीरादिभावानां विषये अपि स्वमतं वक्तव्यम्।एते शरीरादयः भावाः क्रियाफलकारणं भवन्ति वा न वा इति स्पष्टतया वक्तुम् एतत् सूत्रम्।सूत्रार्थबोधाय योगतन्त्रयुक्तेः प्रयोगः क्रियते।
कृतं नान्यमुपैति च इति तत्त्वविदां मतम् ।
अतः अनेन आगमप्रमाणेन उच्यते यत् - यः क्रियाकर्ता सः एव फलभोक्ता।
अयं क्रियाकर्ता फलभोक्ता एव क्रियाफलकारणम् इति उच्यते।एतत् क्रियाफलकारणं क्रियाकाले तथा फलकाले अपि भवितुम् अर्हतीति न्यायसङ्गतम्।तेन च एतत् क्रियाफलकारणं क्षणिकं भवितुं न अर्हति, क्रियाफलोभयकालस्थायित्वात्।उभयकालस्थायी पदार्थः क्षणिकः इति वक्तुं न शक्यते।
एतावता क्रियाफलकारणं कदापि क्षणिकं न भवति इति साधितम्।अधुना शरीरादीनां भावानां क्रियाफलकारणत्वाभावः अनुमानेन उच्यते-
शरीरादि क्रियाफलकारणं न
क्षणिकत्वे सति पुनर्भवासम्भवात्
यत्र क्षणिकत्वे सति पुनर्भवासम्भवः तत्र क्रियाफलकारणत्वाभावः,
घटादिवत्।
प्रकृतानुमाने क्षणिकत्वे सति पुनर्भवासम्भवात् इति हेतुः।तस्य उपन्यासः मूलग्रन्थे एवमस्ति-
निमेषकालाद्भावानां कालः शीघ्रतरोऽत्यये
इति वचनेन शरीरादिभावानां क्षणिकत्वम् उक्तम्।
भग्नानां न पुनर्भावः
इति वचनेन शरीरादिभावानां पुनर्भवासम्भवः उक्तः।
एवमनेन अनुमानेन शरीरादीनां भावानां क्रियाफलकारणत्वं प्रतिषिद्धम्।
यदि शरीरादि क्रियाफलकारणं नास्ति तर्हि क्रियाफलकारणं किम्? परिशेषात् नित्यः पुरुषसंज्ञकः आत्मा क्रियाफलकारणम् इति सिद्धम्।
तस्मात् स कारणम्।क्रियोपभोगे भूतानां नित्यः पुरुषसञ्ज्ञकः॥५१॥
प्रसक्तस्य प्रतिषेधेऽन्यत्र अप्रसङ्गात् परिशेषे सम्प्रत्ययः परिशेषानुमानम्। - न्यायकोशः।
अत्र शरीरादीनां क्रियाफलकारणत्वं सम्भवति वा न वा इति विचारः आरब्धः।अतः शरीरादयः भावाः प्रसक्ताः।तत्र तु क्रियाफलकारणत्वस्य प्रतिषेधः साधितः।अन्यत्र क्रियाफलकारणत्वस्य प्रसङ्गः एव नास्ति।अतः परिशेषात् आत्मनि क्रियाफलकारणसम्प्रत्ययः भवति।
सूत्रस्थानां वाक्यानाम् एषा योजना कृता।योगतन्त्रयुक्तेः प्रयोगेण एषः अर्थः समुल्लसति।
न्यायभाषया प्रतिपादितः अयमर्थः सरलभाषया अनूद्यते-
क्रियायां च फले च नित्यः आत्मा कारणम् इति अस्माकं शास्त्रे प्रतिज्ञा।
यस्मात् शरीरारम्भकभूतानां क्षणेन नाशः भवति, नष्टानां पुनः आविर्भावः न भवति कृतं च कर्म कर्तारम् एव गच्छति फलप्रदानाय।तस्मात् नित्यः पुरुषः एव क्रियायाः कर्ता।स एव क्रियाफलस्य भोक्ता।
अस्मिन् क्षणे शरीरेण यत् कर्म कृतं, तस्य फलं तु भाविकाले भविष्यति।तत्फलस्य उपभोगार्थम् एतत् शरीरं न अवतिष्ठते।यतो हि शरीरारम्भकभूतानां क्षणेन नाशः भवति।
“येन शरीरेण कर्म कृतं तद् नष्टम् अपि फलोपभोगकाले पुनः आविर्भविष्यति’ इति अपि न सम्भवति यतो हि भग्नानां न पुनर्भावः
‘येन शरीरेण कर्म कृतं तद् नष्टं, पुनः च न भवति चेत् अन्यत् शरीरं कर्मफलभोक्तृ भविष्यति’ इति अपि न शक्यम्। यतो हि कृतं नान्यमुपैति च
अतः शरीरादिभिन्नः कश्चित् क्रियायाः कर्ता मन्तव्यः यः खलु फलकाले अपि भवेत्।स च आत्मा इति तत्त्वविदां मतम्।यतो हि सः नित्यः।सः क्रियाकालेऽपि अस्ति,फलकालेऽपि अस्ति।
एवम् आगमेन तथा युक्त्या ‘आत्मा क्रियोपभोगकारणम्’ इति साधितम्।अत एव पूर्वमुक्तं सूत्रकारेण यत् ‘कुम्भकारं विना, मृदादिकरणैः केवलैः घटः जातः’ इति यः वदति,सः युक्त्यागमबहिष्कृतः (४४) इति।

अहङ्कारः फलं कर्म देहान्तरगतिः स्मृतिः।विद्यते सति भूतानां कारणे देहमन्तरा॥५२॥

पदच्छेदः-
अहङ्कारः फलं कर्म देहान्तरगतिः स्मृतिः।विद्यते सति भूतानां कारणे देहम् अन्तरा॥५२॥

अन्वयः-
भूतानां देहम् अन्तरा कारणे (विद्यमाने)सति अहङ्कारः फलं कर्म देहान्तर-गतिः स्मृतिः (इत्यादि) विद्यते ॥५२॥

सरलार्थः-
देहं विना भूतानां अन्यस्मिन् कस्मिंश्चित् कारणे विद्यमाने सति एव अहङ्कारः फलं, कर्म, देहान्तरगतिः तथा स्मृतिः इति एतत् सर्वं विद्यते।

आयुर्वेददीपिका
आत्मसद्भावे हेत्वन्तरम् आह अहङ्कारः इत्यादि। एते अहङ्कार-आदयः स्थिरे एव परमात्मनि भवन्ति, पूर्व-अपरकाल-अवस्थायि-वस्तुधर्मत्वाद् इति भावः। देहम् अन्तरा इति देहं विना; देहातिरिक्ते कारणे सति अहङ्कारो भवति इति अर्थः।५२॥

अरुन्धतीपद्धतिः –
अहङ्कारादयः आत्मधर्माः पूर्वापरस्थायिवस्तुधर्मत्वात्
यत्र आत्मधर्मत्वं न, तत्र पूर्वापरस्थायिवस्तुधर्मत्वं न यथा रूपम्।
अनेन अनुमानेन अहङ्कारादीनाम् आत्माश्रयत्वम् अत्र साधितम्।
कर्म तथा फलम् इति एतयोः आश्रयभूतत्वेन पूर्वम् (च.शा.१.५०,५१) आत्मसिद्धिः कृता।अत्र अहङ्कारः देहान्तरगतिः स्मृतिः एतेषां धर्माणाम् आश्रयभूतत्वेन हेतुना आत्मसिद्धिः क्रियते अतः एतद् आत्मसद्भावे हेत्वन्तरम्।
उपर्युक्ते अनुमाने पूर्वापरकालावस्थायिवस्तु-धर्मत्वम् इति हेतुः। पूर्वकालः भूतकालः। अपरकालः उत्तरकालः।यद् वस्तु पूर्वकाले अपि अस्ति, उत्तरकाले अपि अस्ति, तत् पूर्वापरकाल-अवस्थायि वस्तु।यद् वस्तु एवं पूर्वापरकालयोः अस्ति, तस्य एव अहङ्कारादय़ः धर्माः भवन्ति।क्षणेन यद् नश्यति, तत्र अहङ्कारादयः न भवन्ति।
अहङ्कारादयः पूर्वापरकालावस्थायिवस्तुधर्माः कथम् ?
उच्यते।क्षणेन यद् वस्तु नश्यति तस्मिन् ‘अहम्’ इति स्फुरणं न सम्भवति।
यद् वस्तु पूर्वकाले अस्ति परं द्वितीयक्षणे नश्यति, तत्र फलभोगः न सम्भवति।
यदि वस्तु एकस्मिन् क्षणे उत्पद्यते द्वितीयक्षणे नश्यति तर्हि तत्र कर्मावसरः एव न भवति।उत्त्पत्तिक्षणे कर्मकर्तृत्वं न सम्भवति, नाशक्षणे अपि कर्मकर्तृत्वं न सम्भवति।
आत्मनः देहात् देहं प्रति सञ्चारः इत्युक्ते देहान्तरगतिः, पुनर्जन्म। बौद्धाः एतत् पुनर्जन्म अङ्गीकुर्वन्ति परम् आत्मा क्षणभङ्गुरः इति वदन्ति।आत्मा पूर्वापरकालयोः अस्ति चेदेव पुनर्जन्म सम्भवति, न अन्यथा।
पूर्वम् अनुभूतं पदार्थम् उत्तरकाले नरः स्मरति।एषा स्मृतिः तदा एव शक्या यदा पूर्वकाले येन पदार्थः अनुभूतः, सः आत्मा उत्तरकाले अवतिष्ठते।
आत्मा क्षणभङ्गुरः इति बौद्धमतस्य निराकरणं प्रवृत्तं, तस्य एषः उपसंहारः।आत्मा नाम कश्चित् स्थिरः पदार्थः अङ्गीकरणीयः।इति अस्य सारः।

च.शा.१.०२४-०३६      चरकसंहिता-आयुर्वेददीपिकयोः अरुन्धती-पद्धतिः     च.शा.१.०५३-०६५
"https://sa.wikibooks.org/w/index.php?title=च.शा.१.०३७-०५२&oldid=6389" इत्यस्माद् प्रतिप्राप्तम्