च.शा.१.०२४-०३६

विकिपुस्तकानि तः

२४-२५[सम्पाद्यताम्]

एकैकाधिकयुक्तानि खादीनामिन्द्रियाणि तु पञ्च कर्मानुमेयानि येभ्यो बुद्धिः प्रवर्तते ।।च.शा.१.२४

पदच्छेदः-
एक-एक-अधिकयुक्तानि खादीनाम् इन्द्रियाणि तु । पञ्च कर्म-अनुमेयानि येभ्यः बुद्धिः प्रवर्तते ।।च.शा.१.२४

अन्वयः-
येभ्यः बुद्धिः प्रवर्तते, (तानि) पञ्च इन्द्रियाणि तु खादीनाम् एक-एक-अधिकयुक्तानि । (तानि) कर्म-अनुमेयानि (भवन्ति)।।च.शा.१.२४

सरलार्थः-
यानि खलु बुद्धीन्द्रियाणि तानि तु पञ्चानां महाभूतानाम् एकेन एकेन अधिकेन सन्ति। तानि कर्मानुमेयानि।

आयुर्वेददीपिका
मनः अभिधाय इन्द्रियाणि अभिधत्ते तत्र अपि ज्यायस्त्वाद् बुद्धीन्द्रियाणि प्राग् आह एकैकेत्यादि।खादीनां मध्ये एक-एकेन अधिकेन भूतेन युक्तानि इन्द्रियाणि पञ्च चक्षुः-आदीनि एक-एक-अधिकपदेन पञ्च अपि पाञ्चभौतिकानि परं चक्षुषि तेजः अधिकम् इत्यादि उक्तं सूचयति।

अरुन्धतीपद्धतिः
मनो दशेन्दियाण्युक्ता प्रकृतिश्चाष्टधातुकी इति उद्देशः पूर्वं कथितः।तस्य विवरणरूपः निर्दॆशग्रन्थः अयं प्रवर्तते।तत्र मनसः विवेचनं समाप्तम्।अधुना दशेन्द्रियाणा विवेचनं करणीयम्। तत्रापि ज्ञानेन्द्रियाणि प्रधानानि।अतः तेषां विवेचनमत्र आरभ्यते।
इन्द्रियाणि महाभूतानाम् एकेन एकेन जातानि इति वचनं नास्ति, एकेन एकेन अधिकेन जातानि इति वचनं विद्यते। एतयोः अर्थभेदं स्पष्टीकरोति चक्रपाणिः ‘खादीनां मध्ये’ इत्यादिना।अयं तस्य आशयः - श्रोत्रेन्द्रिये पञ्च अपि भूतानि सन्ति, तथापि एकम् आकाशभूतम् अधिकम् अस्ति। स्पर्शनेन्द्रिये पञ्च अपि भूतानि सन्ति, परं तत्र एकं वायुभूतम् अधिकमस्ति।चक्षुरिन्द्रिये पञ्च भूतानि सन्ति, परं तस्मिन् तेजोभूतम् अधिकतया विद्यते। रसनेन्द्रिये पञ्च भूतानि सन्ति परं तत्र अपाम् आधिक्यं वर्तते।घ्राणेन्द्रिये पञ्च भूतानि सन्ति तथापि तत्र पृथिवी आधिक्येन विद्यते।

आयुर्वेददीपिका
कर्म-अनुमेयानि इति कार्यानुमेयानि कार्यं चक्षुर्बुद्ध्यादि।

अरुन्धतीपद्धतिः –
इन्द्रियाणां सद्भावे प्रमाणं किम् इति प्रश्नः उद्भवति।तस्योत्तरं मुनिना उक्तं कर्मानुमेयानि इति पदेन।इन्द्रियाणि प्रत्यक्षयोग्यानि न सन्ति।तानि अनुमानेन ज्ञायन्ते। कथम् अनुमानं करणीयम्? कार्यतः।इन्द्रियस्य कार्यं नाम तज्जन्यं ज्ञानम्।ज्ञानं बोधः बुद्धिः इति पर्यायशब्दाः।चक्षुरिन्द्रियस्य सद्भावे चाक्षुषज्ञानस्य आधारेण अनुमानं क्रियते इत्यर्थः।तस्य अनुमानस्य आकारः एवं भवति –
चक्षुर्बुद्धिः सकरणा ,
कार्यत्वात्।
यद् यत् कार्यं तत् तत् सकरणम्।यथा घटस्य दण्डचक्रादि।
चक्षुर्बुद्धिः अपि कार्यम्,
अतः सा सकरणा।
चक्षुर्बुद्धेः यत् करणं तदेव चक्षुरिन्द्रियम् इति ब्रूमः।एवम् अनुमानम् अन्येषु अपि इन्द्रियेषु कार्यम्।

आयुर्वेददीपिका
येभ्यो बुद्धिः प्रवर्तत इति यानि बुद्धीन्द्रियाणि तानि इमानि पञ्च इति दर्शयति।

अरुन्धतीपद्धतिः –
अस्मिन् सूत्रे उक्तानि इन्द्रियाणि ज्ञानेन्द्रियाणि सन्ति इत्यत्र प्रमाणं दर्शयति चक्रपाणिः यानि बुद्धीन्द्रियाणि इति वचनेन।अत्रोक्तानाम् इन्द्रियाणां विषये ‘येभ्यो बुद्धिः प्रवर्तते’ इति मुनिना उक्तम् । अतः बुद्धीन्द्रियाणि एतानि इति स्पष्टम्।ज्ञानेन्द्रियं बुद्धीन्द्रियम् इति अर्थः समानः।

आयुर्वेददीपिका
यद्यपि च सांख्ये आहंकारिकाणि इन्द्रियाणि यद् उक्तं सात्त्विक एकादशकः प्रवर्तते वैकृताद् अहंकाराद् इति तथापि मतभेदाद् भौतिकत्वम् इन्द्रियाणां ज्ञेयं किंवा औपचारिकम् एतद् भौतिकत्वम् इन्द्रियाणां ज्ञेयम् उपचारबीजं च यद्-गुणभूयिष्ठं यद् इन्द्रियं गृह्णाति तत्-तद्-भूयिष्ठम् इति उच्यते चक्षुः तेजः गृह्णाति तेन तैजसम् उच्यते इत्यादि ज्ञेयम्।

अरुन्धतीपद्धतिः
ज्ञानेन्द्रियाणां भूतजन्यत्वविषये एकं मतभेदम् अत्र उद्धाटयति चक्रपाणिः यद्यपि चेत्यादिना। चतुर्विंशतिकपुरुषस्य विवेचनं प्रवर्तते।इतः पर्यन्तं विवेचनं प्रायः साङ्ख्यमतम् अनुसरति।परम् इन्द्रियाणि भौतिकानि वा इति अस्मिन् विषये साङ्ख्यायुर्वेदयोः किञ्चिद् वैमत्यं दृश्यते।तदेवम् – साङ्ख्ये इन्द्रियाणि अहङ्कारजन्यानि मतानि।तदर्थं साङ्ख्यकारिकाम् (२५) उद्धरति टीकाकारः ‘सात्त्विक एकादशकः’ इति।अत्र तु एकैकाधिकयुक्तानि खादीनाम् इन्द्रियाणि तु इति इन्द्रियाणां भूतजन्यत्वं प्रतिपाद्यते।एतयोः समञ्जनं कथं करणीयम्?
तत्र चक्रपाणिः उपदिशति यद् वैद्यैः साङ्ख्यमताद् भिन्नम् आयुर्वेदमतम् इति समाधाय चिकित्साव्यवहारे इन्द्रियाणां भौतिकत्वम् अङ्गीकरणीयम्।अस्मिन् समाधाने इन्द्रियाणां भूतजन्यत्वम् आदृतम् अहङ्कारजन्यत्वम् उपेक्षितम्।
इन्द्रियाणां भूतजन्यत्वं महाभारते अपि प्रतिपादितम्।शान्तिपर्वणि मनुना कृते उपदेशे उक्तम् –
श्रोत्रं खतो घ्राणमथो पृथिव्याः..... ।म.भा.शान्ति.१९५.२०
भीष्मेण युधिष्ठिराय यः उपदेशः कृतः तत्र अपि इन्द्रियाणां भूतजन्यत्वं प्रतिपादितम्-
शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम्।वायोस्त्वक्स्पर्शचेष्टाश्च वागित्येतत् चतुष्टयम्।
रूपं चक्षुस्तथा पक्तिः त्रिविधं तेज उच्यते।रसः क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः।
घ्रेयं घ्राणं शरीरं च ते तु भूमिगुणास्त्रयः॥म.भा.शान्ति.१८७.८-१०
अस्य मतभेदस्य अपरमेकं समाधानं ब्रूते टीकाकारः ‘किंवा’ इत्यनेन। अस्मिन् द्वितीये समाधाने इन्द्रियाणाम् अहङ्कारजन्यत्वम् आद्रियते, भूतजन्यत्वम् उपेक्ष्यते।द्वितीयं समाधानम् इत्थम्- इन्द्रियाणां भूतजन्यत्वमिह यदुक्तं तद् औपचारिकं मन्तव्यं, न वास्तवम्।वस्तुतः इन्द्रियाणि अहङ्कारजन्यानि एव।श्रोत्रेन्द्रियं नाभसम् इत्यादिः व्यपदेशः तु उपचारात् भवति।
अथ कोऽयम् उपचारः? उच्यते-
सहचरणादिनिमित्तेन अतद्भावे तद्वदभिधानम् - वात्स्यायनः१.२.१४
पदार्थः तथा नास्ति चेद् अपि(अतद्भावे) तथा अस्ति इति अभिधानम् (तद्वदभिधानम्) उपचारः।तदर्थं साहचर्यादि किमपि निमित्तं भवति।यथा घृतदग्धम् इति अभिधानम्।तप्तघृतेन दग्धं चेत् ‘घृतेन दग्धम्’ इति शब्दप्रयोगः भवति।न स वास्तवः।घृतस्थेन अग्निना दग्धम् इति वास्तवम्। तथापि अग्निघृतयोः साहचर्यात् घृतेन दग्धम् इति शब्दप्रयोगः भवति। एषः उपचारः।मधुररसः स्निग्धः इति उपचारः।रसः गुणः।गुणाः गुणेषु न वर्तन्ते।अतः स्निग्धता इति मधुररसस्य धर्मः वस्तुतः न भवति।मधुरद्रव्यस्य सः धर्मः।तथापि रसद्रव्ययोः साहचर्यात् मधुररसः स्निग्धः इति उपचारः भवति।
अत्रापि इन्द्रियं वस्तुतः भूतजन्यं नास्ति।तथापि उपचारात् तथा उच्यते।घृतदग्धप्रयोगे साहचर्यम् इति निमित्तम् अस्ति।अत्र तथा किं निमित्तम् अस्ति येन भूतजन्यत्वाभावे अपि इन्द्रियं भौतिकम् इति शब्दप्रयोगः भवति? इत्यस्य उत्तरं वदति चक्रपाणिः उपचारबीजं चेत्यादिना।
बीजमिति निमित्तम्।यस्य गुणाः यद्गुणाः।यद्गुणेषु भूयिष्ठः गुणः यद्गुणभूयिष्ठः।यच्छब्देनात्र महाभूतं ग्राह्यम्।यथा आकाशस्य ये गुणाः, तेषु भूयिष्ठः गुणः शब्दगुणः।तम् आकाशस्य गुणेषु भूयिष्ठं शब्दगुणं यद् इन्द्रियं गृह्णाति, तद् नाभसम् इति व्यपदेशो भवति।अतः श्रोत्रेन्द्रियं नाभसम् । ‘ग्राह्यग्राहकभावसम्बन्धः’ इति अत्र उपचारनिमित्तम् इत्यर्थः।ग्राह्यः महाभूतगुणः। ग्राहकम् इन्द्रियम्।

०२५-०२६[सम्पाद्यताम्]

हस्तौ पादौ गुदोपस्थं वागिन्द्रियमथापि च । कर्मेन्द्रियाणि पञ्चैव पादौ गमनकर्मणि ।। च.शा.१.२५
पायूपस्थं विसर्गार्थं हस्तौ ग्रहणधारणे । जिह्वा वागिन्द्रियं वाक् च सत्या ज्योतिस्तमोऽनृता।।च.शा.१.२६

पदच्छेदः-
हस्तौ पादौ गुद-उपस्थं वाग्-इन्द्रियम् अथ अपि च । कर्मेन्द्रियाणि पञ्च एव पादौ गमनकर्मणि ।। च.शा.१.२५
पायु-उपस्थं विसर्गार्थं हस्तौ ग्रहणधारणे । जिह्वा वागिन्द्रियं वाक् च सत्या ज्योतिः तमः अनृता।।च.शा.१.२६

अन्वयः-
हस्तौ पादौ गुद-उपस्थं अथ वाग्-इन्द्रियम् अपि च ।पञ्च एव कर्मेन्द्रियाणि। पादौ गमनकर्मणि ।। च.शा.१.२५ पायु-उपस्थं विसर्गार्थम्। हस्तौ ग्रहणधारणे । जिह्वा वागिन्द्रियम्। वाक् च सत्या (चेत्) ज्योतिः, अनृता (चेत् )तमः ।।च.शा.१.२६

सरलार्थः-
द्वौ हस्तौ, द्वौ पादौ, गुदं च उपस्थं च तयोः समाहारः गुदोपस्थम्।वागिन्द्रियम् इति पञ्च कर्मेन्द्रियाणि सन्ति।तेषु पादौ गमनकर्मणि प्रयुज्येते।पायुः च उपस्थं च एतयोः समाहारः पायूपस्थम्।तस्य विसर्गार्थं प्रयोगः भवति।ग्रहणं च धारणं च तयोः समाहारः ग्रहणधारणे। ग्रहणधारणकर्मणि हस्तयोः प्रयोगः जायते।जिह्वेति वागिन्द्रियम्।वाग् यदि सत्या अस्ति तर्हि सा ज्योतिःस्वरूपा।वाग् यदि असत्या अस्ति तर्हि सा तमोरूपा वर्तते।

आयुर्वेददीपिका
अथ कर्मेन्द्रियाणि आह हस्तौ इत्यादि।हस्तौ एकं पादौ च एकम् इन्द्रियम् एकरूपकर्म-कर्तृतया।गुद-उपस्थं च एक-एकम्। वाचः उपादान-हानार्थं भेदम् आह वाक् च इत्यादि। ज्योतिरिव ज्योतिः धर्मकर्तृत्वेन उभयलोकप्रकाशकारित्वात् एतद्-विपर्ययेण तमः अनृता।

अरुन्धतीपद्धतिः –
हस्तौ द्वौ स्तः।अतः पाणीन्द्रियद्वयं भवति वा? पादौ द्वौ स्तः अतः पादेन्द्रियद्वयं भवति वा? इति आशङ्कयोः समाधानं करोति हस्तौ एकमित्यादिना।यद्यपि हस्तौ द्वौ स्तः तथापि पाणीन्द्रियम् एकमेव।यद्यपि पादौ द्वौ स्तः तथापि पादेन्द्रियम् एकमेव।तस्य उपपत्तिं वदति एकरूपकर्मकर्तृतयेति। ग्रहणमिति पाणीन्द्रियस्य कर्म।दक्षिणेन हस्तेन पुरुषः गृह्णाति, तथैव वामेन हस्तेन गृह्णाति।उभयोः हस्तयोः ग्रहणकर्म समानम्।अतः तदेव ग्रहणकर्म कर्तुं द्वितीयस्य इन्द्रियस्य आवश्यकता नास्ति। एवमेव गमनकर्म उभयपादयोः समानम्।तस्य एकरूपस्य गमनकर्मणः कर्तृ पादेन्द्रियम्।अतः तद् एकमेव।अतः एकं पाणीन्द्रियम्, एकं पादेन्द्रियम्, एकं पाय्विन्द्रियम्, एकम् उपस्थेन्द्रियं, तथा एकं वागिन्द्रियम् इति पञ्च कर्मेन्द्रियाणां गणना।
ननु समानकर्तृता इति हेतुः सव्यभिचारः।चक्रपाणेः अभिमता व्याप्तिः
यत्र समानकर्तृता, तत्र साधनैकत्वम्
इति विद्यते।अस्यां व्याप्तौ समानकर्तृता इति हेतुः, साधनैकत्वम् इति साध्यम्।एतयोः साध्यसाधनयोः व्यभिचारः हस्तरूप-अवयवयोः दृश्यते।हस्तयोः एकत्वाभावः अस्ति।हस्तयोः एकत्वाभावः अस्ति इत्युक्ते साध्याभावः अस्ति।तथापि तत्र ‘ग्रहणम्’ इति ‘समानकर्तृता’ हेतुः अस्ति। एवं साध्याभाववद्वृत्तिः अयं हेतुः समानकर्तृता इति।तस्मात् सव्यभिचारः।
एवं प्राप्ते ब्रूमः।यत्र समानकर्तृता तत्र साधनैकत्वम् इति व्याप्तिः नैव अभिमता।
यत्र समानकर्तृता तत्र इन्द्रियैक्यम्
इति व्याप्तिः अभिमता। कुतः? इन्द्रियाधिकरणात्।साधनैकता इति सामन्यम् उज्झित्वा इन्द्रियैक्यम् इति विशेषः गृह्यते, यतो हि इन्द्रियाधिकरणम् इदम्। अतः ‘यत्र समानकर्तृता तत्र इन्द्रियैक्यम्’ इति व्याप्तिः अबाधिता।यथा नेत्रयोः द्वयोः अपि एकं चक्षुरिन्द्रियम्।उभयोः नेत्रयोः दर्शनकर्म समानम्।अतः यत्र समानकर्तृता तत्र इन्द्रियैक्यम् इति न्यायेन द्वयोः नेत्रयोः इन्द्रियं त्वेकमेव। अथवा द्वयोः अपि कर्णयोः कर्तृता समाना श्रवणरूपा।अतः अतः यत्र समानकर्तृता तत्र इन्द्रियैक्यम् इति न्यायेन द्वयोरपि कर्णयोः एकं श्रोत्रेन्द्रियम्।
ननु पाय्विन्द्रियं तथा उपस्थेन्द्रियं पृथक्तया किमर्थं गणिते?पायूपस्थं विसर्गार्थम् इति वचनात् उभयोः कर्म समानम्।समानकर्तृतया द्वयोः हस्तयोः एकमेव इन्द्रियं गणितम्। तुल्यन्यायेन अत्रापि पायूपस्थयोः एकत्वं किमर्थं न अङ्गीक्रियते?
ब्रूमः।पायूपस्थयोः सर्वथा समानकर्तृता नास्ति।उपस्थस्य विसर्जनकर्म अस्ति तथा आनन्दः इत्यपि एकं कर्म विद्यते।तत् तु पाय्विन्द्रियस्य नास्ति।एवं पाय्विन्द्रियात् भिन्नं किमपि कर्म उपस्थस्य विद्यते अतः तस्य पृथग् गणना उचिता एव।
सत्या वाक् ज्योतिःस्वरूपा इति मुनिना उक्तं, तस्य उपपत्तिं वदति टीकाकारः धर्मकर्तृत्वेनेत्यादिना।सत्या वाक् धर्मं जनयति।तेन धर्मेण इहलोकः परलोकः च प्रकाशितौ भवतः, उद्घाटितौ भवतः।अतः सा ज्योतिःस्वरूपा।असत्या वाक् अधर्मं जनयति।यः असत्यं वदति तस्य इहलोकपरलोकौ उभै अपि अन्धकारमयौ भवतः।अतः असत्या वाक् तमोरूपा।

०२७-०२८[सम्पाद्यताम्]

महाभूतानि खं वायुरग्निरापः क्षितिस्तथा ।शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ।।च.शा.१.२७

पदच्छेदः-
महाभूतानि खं वायुः अग्निः आपः क्षितिः तथा । शब्दः स्पर्शः च रूपं च रसः गन्धः च तद्-गुणाः ।।च.शा.१.२७

अन्वयः-
खं वायुः अग्निः आपः तथा क्षितिः (इति एतानि) महाभूतानि ।शब्दः, स्पर्शः च रूपं च रसः गन्धः च तद्-गुणाः (सन्ति) ।।च.शा.१.२८

सरलार्थः-
आकाशं च वायुः च अग्निः च आपः तथा पृथ्वी इति एतानि महाभूतानि सन्ति।शब्दः, स्पर्शः च रूपं च रसः गन्धः च तेषां महाभूतानां गुणाः सन्ति ।।च.शा.१.२७

आयुर्वेददीपिका
सम्प्रति उद्देशक्रम-अनुरोधाद् अर्थे अभिधातव्ये अर्थानां प्रकृति-ग्रहण-गृहीत-पञ्चभूत-गुणतया पराधीनत्वाद् अष्टधातुप्रकृति-गृहीतानि भूतानि एव तावद् आह महाभूतानि इत्यादि। शब्दादयः यथासंख्यं ख-आदीनां नैसर्गिकाः गुणा ज्ञेयाः।यः तु गुण-उत्कर्षः अभिधातव्यः, स हि अनुप्रविष्ट-भूतसम्बन्धाद् एव।तेन पृथिव्यां चतुर्भूतप्रवेशात् पञ्चगुणत्वम् एवं जलादौ अपि चतुर्गुणत्वादि ज्ञेयम्।

अरुन्धतीपद्धतिः –
मनो दशेन्द्रियाण्यर्थाः इति उद्देशग्रन्थः।तस्य निर्देशे मनसः विवरणं कृतम्।दश इन्द्रियाणां विवरणं कृतम्।अधुना अर्थानां विवरणं क्रमप्राप्तम्।एते अर्थाः स्वतन्त्राः न सन्ति।ते पञ्चानां भूतानां गुणस्वरूपाः अतः महाभूताधीनाः।अतः अर्थविवेचनात् पूर्वं तदाश्रयभूतानां खादीनाम् उल्लेखः आवश्यकः भवति।
परम् उद्देशग्रन्थे तु महाभूतानाम् उल्लेखः न कृतः।अत्र अनुद्दिष्टस्य निर्देशः कथम् उचितः भवेत् इति शङ्का न कार्या।उद्देशग्रन्थे महाभूतानाम् उल्लेखः अस्ति। प्रकृतिश्चाष्टधातुकी इति उद्देशे समाविष्टम्।अष्टधातुकी प्रकृतिः इति पञ्च महाभूतानि, अहङ्कारः, महत् तथा अव्यक्तम्।अतः अर्थप्रस्तावकाले अर्थानाम् आश्रयभूतानि महाभूतानि आदौ उच्यन्ते।
यथासङ्ख्यम् इति महाभूतगणनाक्रमम् अनुसृत्य।आकाशस्य नैसर्गिकः गुणः शब्दः, वायोः नैसर्गिकः गुणः स्पर्शः, तेजसः नैसर्गिकः गुणः रूपम् अपां नैसर्गिकः गुणः रसः, पृथिव्याः नैसर्गिकः गुणः गन्धः।
अग्रिमे सूत्रे परे परे महाभूते एकः एकः गुणः वर्धते इति वदिष्यति सूत्रकारः।अत्र तु प्रत्येकं महाभूतस्य एकः एकः गुणः प्रतिपादितः।अनयोः वचनयोः विरोधं परिहरति चक्रपाणिः यस्तु गुणोत्कर्षः इत्यादिटीकया।
अग्रिमे सूत्रे वक्ष्यमाणाः वर्धमानाः गुणाः भूतान्तरात् प्रविष्टाः, न नैसर्गिकाः।अत्र ये उक्ताः ते तु नैसर्गिकाः गुणाः।एवमुभयोः वचनयोः विरोधः नास्ति।

तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे

पदच्छेदः-
तेषाम् एकगुणः पूर्वः गुणवृद्धिः परे परे ।

अन्वयः-
तेषाम् पूर्वः एकगुणः। परे परे गुणवृद्धिः ।

सरलार्थः-
तेषां महाभूतानां पूर्वो धातुः एकगुणः अस्ति।परे परे महाभूतस्य गुणेषु वृद्धिः भवति।

आयुर्वेददीपिका
नैसर्गिकं गुणम् अभिधाय भूतान्तरप्रवेशकृतं गुणम् आह तेषाम् इत्यादि।

अरुन्धतीपद्धतिः
भूतान्तरम् इति अन्यद् भूतम्।तस्मात् भूतान्तरात् प्रवेशः कृतः येन सः भूतान्तरप्रवेशकृतः गुणः।

आयुर्वेददीपिका
एकगुणः पूर्व इति पूर्वो धातुः खरूपः शब्दैकगुणः।पुंलिङ्गता च खादीनां धातुरूपता-बुद्धिस्थीकृतत्वात् उक्तं हि खादयश्चेतनाषष्ठा धातवः इति।

अरुन्धतीपद्धतिः
‘एकगुणः पूर्वः’ इति सूत्रकारेण महाभूतानि उद्दिश्य उक्तम्। एकगुणः पूर्वः इति प्रयोगः पुंलिङ्गे वर्तते।महाभूतशब्दः नपुंसके अस्ति।अतः एकगुणं पूर्वम् इति नपुंसकलिङ्गे प्रयोगः अपेक्षितः।तर्हि पुंलिङ्गप्रयोगं दृष्ट्वा सन्देहो भवति यद् महाभूतानि उद्दिश्य एव एतत्प्रतिपादनम् अस्ति अथवा अन्यं कंचन पदार्थमुद्दिश्य?
अस्य सन्देहस्य निर्णयं वदति चक्रपाणिः पुंलिङ्गता चेत्यादिना।महाभूतशब्दः कस्मिन् अपि लिङ्गे भवतु।प्रकृते तस्य धातुत्वेन वर्णनम् आरब्धम्।खादीनां धातुशब्देन उल्लेखः स्वयं सूत्रकारेण कृतः ‘खादयः चेतनाषष्ठाः धातवः’ इति।अतः सर्वेषां महाभूतानां धातुरूपता बुद्धौ स्थापिता।धातुशब्दः पुंलिङ्गे अस्ति।अतः सर्वेषाम् अपि महाभूतानां धातुत्वेन पुंसि प्रयोगः न दुष्यति।
सन्देहनिवारणाय अत्र चक्रपाणिना पदार्थतन्त्रयुक्तिः अङ्गीकृता।महाभूतपदस्य अर्थः ‘धातुः’ इति अपि भवति इति तेन सप्रमाणं दर्शितम्।तेन ‘धातुः’ इति अर्थेन सन्देहः निवारितः।

पूर्वः पूर्वगुणश्चैव क्रमशो गुणिषु स्मृतः ।।च.शा.१.२८

पदच्छेदः-
पूर्वः पूर्वगुणः च एव क्रमशः गुणिषु स्मृतः ।।च.शा.१.२८

अन्वयः-
गुणिषु पूर्वः पूर्वगुणः च एव क्रमशः स्मृतः ।।च.शा.१.२८

सरलार्थः-
गुणिषु क्रमशः पूर्वः, पूर्वगुणः च स्मृतः।

आयुर्वेददीपिका
यथा यथा च परत्वं तथा तथा च गुणवृद्धिः यथासंख्यम्। ननु एतावता अपि एकगुणत्व-द्विगुणत्वादि न नियमेन ज्ञायते कः गुणः क्व भूते इत्याह पूर्वः इत्यादि।गुणिषु खादिषु धातुषु पूर्वो गुणः क्रमेण यथासंख्यं वर्तते न केवलं पूर्वः किंतु पूर्वस्य अपि यो गुणः स च पूर्वगुण उत्तरे भूते वर्तते।तेन खे पूर्वे पूर्वः शब्दगुणः वर्तते वायौ तु स्पर्शः क्रमप्राप्तः पूर्वः भवति पूर्वगुणः च शब्द इति द्विगुणत्वम् एवम् अग्नि-आदौ च ज्ञेयम्।

अरुन्धतीपद्धतिः
गुणवृद्धिः परे परे इति सूत्रं स्पष्टीकरोति टीकाकारः यथा यथा इत्यनेन।आकाशात् आरभ्य पृथिवीपर्यन्तं गुणवृद्धिः भवति इति एतद् ज्ञातम्।परम् एतावता कुत्र कति, के च गुणाः सन्ति इति तु न स्पष्टं भवति।तदर्थं पूर्वो पूर्वगुणः इति सूत्रम्।
गुणी इति प्रकृते महाभूतम्।महाभूतेषु यथाक्रमं पूर्वः पूर्वः गुणः वर्तते।महाभूतानां सूत्रोक्तः क्रमः खं, वायुः अग्निः आपः तथा पृथिवी इति।गुणानां सूत्रोक्तः क्रमः शब्दः स्पर्शः रूपं रसः तथा गन्धः इति।
आकाशम् इति प्रथमोक्तं महाभूतम्।गुणावल्यां अन्यगुणेभ्यः पूर्वम् उक्तः गुणः शब्दः।सः आकाशे वर्तते।
वायुः इति द्वितीयस्थाने उक्तं महाभूतम्।तत्र रूपादिभ्यः पूर्वम् उक्तः गुणः स्पर्शः वर्तते।न केवलं स्पर्शः वर्तते।स्पर्शस्य पूर्वगुणः शब्दः अपि वर्तते।
अग्निः इति महाभूतगणनायां तृतीयं महाभूतम्।तत्र रसगन्धाभ्यां पूर्वम् उक्तः रूपगुणः वर्तते।रूपात् पूर्वमुक्तौ शब्दस्पर्शगुणौ अपि विद्येते।
आपः इति चतुर्थं महाभूतम्।तत्र गन्धात्पूर्वम् उक्तः रसगुणः वर्तते।रसतः पूर्वम् उक्ताः शब्दस्पर्शरूपगुणाः अपि सन्ति।
पृथिवी इति पञ्चमे स्थाने गणितम्।तस्यां गन्घगुणः विद्यते।तस्यां गन्धात् पूर्वम् उक्ताः शब्दस्पर्शरूपरसगुणाः अपि भवन्ति।

आयुर्वेददीपिका
गन्धः तु उत्तरगुणान्तर-अभावात् न पूर्वः भवति तथापि गन्धः च तद्गुणाः इति ग्रन्थे तद्गुणाः इति पद-अपेक्षया गन्धस्य पूर्वत्वं कल्पनीयं किंवा पूर्वः इति छत्त्रिणो गच्छन्ति इति न्यायेन उक्तं तेन अपूर्वः अपि गन्धः क्रमागतः पृथिव्यां ज्ञेयः ।।२८।।

अरुन्धतीपद्धतिः –
ननु गन्धः इति गुणः पूर्वः इति कथं वक्तुं युज्यते? यतो हि गन्धाद् अग्रे न कोऽपि गुणः उक्तः?
सत्यम् गन्धाद् अग्रे न कोऽपि गुणः उक्तः।तथापि सूत्रे गन्धश्च तद्गुणाः इति शब्दप्रयोगः अस्ति।अतः तद्गुणाः इति पदस्य अपेक्षया गन्धः पूर्वः अस्ति।एवं तस्य पूर्वत्वं कल्पनीयम्।
सूत्रे गन्धः कस्मादपि पूर्वः नास्ति तथापि तस्य पूर्वगुणत्वं कथम् इति प्रश्नस्य अपरं समाधानं वदति चक्रपाणिः किंवा पूर्वः इत्यनेन।शब्दः स्पर्शः रूपं रसः इति चतुर्षु गुणेषु कस्माच्चित् गुणात् पूर्वत्वम् अस्तीति स्पष्टम्।गन्धे तद् नास्ति चेदपि शब्दादीनां पञ्चानामपि विषये पूर्वः गुणः इति वक्तुं युज्यते।अस्य समर्थनार्थं न्यायः उच्यते ‘छत्रिणो गच्छन्ति’ इति।वर्षासु मार्गेण नैके जनाः छत्रं स्वीकृत्य गच्छन्ति।केचन विरलाः जनाः छत्रं विना गच्छन्ति, तथापि ‘छत्रिणो गच्छन्ति’ इति बाहुल्येन व्यपदेशः भवति।तथैव अत्र चतुर्षु गुणेषु पूर्वत्वं विद्यते, केवलं गन्धे न विद्यते।तथापि सर्वेषु पूर्वगुणः इति व्यपदेशः मुनिना बाहुल्येन कृतः।

०२९-०३०[सम्पाद्यताम्]

खरद्रवचलोष्णत्वं भूजलानिलतेजसाम् ।आकाशस्याप्रतीघातो दृष्टं लिङ्गं यथाक्रमम् ।।च.शा.१.२९

पदच्छेदः-
खर-द्रव-चल-उष्णत्वं भू-जल-अनिल-तेजसाम् । आकाशस्य अप्रतीघातः दृष्टं लिङ्गं यथाक्रमम् ।।च.शा.१.२९

अन्वयः-
भू-जल-अनिल-तेजसां यथाक्रमं खर-द्रव-चल-उष्णत्वं लिङ्गं दृष्टम् । आकाशस्य अप्रतीघातः (इति) लिङ्गं दृष्टम् ।।च.शा.१.२९

सरलार्थः-
खरत्वं, द्रवत्वं, चलत्वं, उष्णत्वं तथा अप्रतिघातः इति एतानि लिङ्गानि क्रमशः भूमिः जलं, वायुः तेजः तथा आकाशम् इति एतेषां सन्ति।

आयुर्वेददीपिका
भूतानाम् असाधारणं लक्षणम् आह खरेत्यादि।अप्रतीघातः अप्रतिहननम् अस्पर्शत्वम् इति यावत् स्पर्शवद् हि गतिविघातकं भवति न आकाशः अस्पर्शवत्त्वात्।

अरुन्धतीपद्धतिः
सूत्रे अप्रतिघातः इति शब्दः विद्यते।तस्य अर्थं विवृणोति चक्रपाणिः अप्रतीघातः इत्यादिना।अयमाशयः- प्रतिघातः नाम प्रतिहननम्।यथा वातस्य प्रतिघातः भवति पर्वतेन।यथा वा मूत्रं प्रतिहन्यते अश्मर्या।प्रतिघातं प्रति स्पर्शः कारणम्।कारणाभावे कार्याभावः।यत्र स्पर्शः नास्ति, तत्र प्रतिघातः अपि नास्ति।आकाशे स्पर्शः गुणः नास्ति। अन्येषु महाभूतेषु स्पर्शः अस्ति।आकाशे स्पर्शाभावात् अप्रतीघातः विद्यते।सः आकाशस्य असाधारणधर्मः।

लक्षणं सर्वमेवैतत् स्पर्शनेन्द्रियगोचरम् ।स्पर्शनेन्द्रियविज्ञेयः स्पर्शो हि सविपर्ययः ।।च.सं.शा.१.३०

पदच्छेदः-
लक्षणं सर्वम् एव एतत् स्पर्शनेन्द्रियगोचरम् । स्पर्शनेन्द्रियविज्ञेयः स्पर्शः हि सविपर्ययः ।।च.सं.शा.१.३०

अन्वयः-
सर्वम् एव एतत् लक्षणं स्पर्शनेन्द्रियगोचरम् (अस्ति) ।हि स्पर्शः सविपर्ययः स्पर्शनेन्द्रियविज्ञेयः (भवति)।।च.सं.शा.१.३०

सरलार्थः-
खरत्वं, द्रवत्वं, चलत्वं, उष्णत्वं तथा अप्रतिघातः इति एतानि पञ्च अपि लक्षणानि स्पर्शनेन्द्रियग्राह्याणि सन्ति।यतो हि स्पर्शः स्पर्शाभावेन सह स्पर्शनेन्द्रियग्राह्यः अस्ति।

आयुर्वेददीपिका
सर्वमेवैतदिति खरत्वादि।स्पर्शनेन्द्रियगोचरम् इति स्पर्शनेन्द्रियज्ञेयम्।कथम् एतत् सर्वं स्पर्शनेन्द्रिय-ज्ञेयम् इति आह स्पर्शनेत्यादि।सविपर्ययः इति स्पर्शाभावः इति अर्थः।यद् इन्द्रियं यद् गृह्णाति तत् तस्य अभावम् अपि गृह्णाति तेन आकाशस्य अस्पर्शत्वम् अपि स्पर्शनेन्द्रिय-ग्राह्यम् इति युक्तम्।

अरुन्धतीपद्धतिः
आकाशे स्पर्शः नास्ति।तर्हि सर्वाणि लक्षणानि स्पर्शनेन्द्रियगोचराणि सन्ति इति कथम् उच्यते? अस्य प्रश्नस्य उत्तरं स्वयं सूत्रकारेण उक्तं सविपर्ययः स्पर्शः स्पर्शनेन्द्रियगोचरः इति।तद् उत्तरं स्पष्टीकरोति चक्रपाणिः सविपर्यय इत्यादिना।
न्यायमतेन यद् इन्द्रियं यं विषयं गृह्णाति, तद् इन्द्रियं तस्य विषयस्य अभावम् अपि गृह्णाति।यथा चक्षुषा घटज्ञानं भवति।घटभावस्य ज्ञानमपि चक्षुषा एव भवति।एवं स्पर्शस्य ज्ञानं स्पर्शनेन्द्रियेण भवति।तथा स्पर्शाभावस्य ज्ञानमपि स्पर्शनेन्द्रियेण एव भवति।अतः आकाशस्य अप्रतिघातः अथवा स्पर्शाभावः अपि स्पर्शनेन्द्रियगोचरः इति वक्तुं युज्यते एव।

आयुर्वेददीपिका
द्रवत्वं चलत्वं च सांख्यमते स्पर्शन-ग्राह्यत्वात् स्थूलभूतवातधर्मः स्पर्शः एव यद् हि स्पर्शनेन गृह्यते तत् सर्वं महाभूतवात-परिणामः एव।

अरुन्धतीपद्धतिः
प्रकृते साङ्ख्यायुर्वेदयोः वैमत्यं दर्शयति चक्रपाणिः द्रवत्वमित्यादिना।अत्र द्रवत्वम् अपाम् असाधारणधर्मः इति उक्तं मुनिना, चलत्वं वायोः असाधारणधर्मः इत्युक्तम्।साङ्ख्यमते तु द्रवत्वं च चलत्वं च इति उभयमपि स्पर्शनेन्द्रियेण गृह्यते ।यद् यत् स्पर्शनेन्द्रियेण गृह्यते तत् सर्वं वायुमहाभूतान्तर्गतमेव।

आयुर्वेददीपिका
एतानि च खादीनि सूक्ष्माणि तन्मात्ररूपाणि ज्ञेयानि।स्थूलभूतानि तु ख-आदीनि विकारतया तत्र उक्तानि।प्रकृतिवर्गे सूक्ष्मरूपाः तन्मात्राः उक्ताः।वचनं हि तन्मात्राणि अविशेषाः तेभ्यः भूतानि पञ्च पञ्चभ्यः । एते स्मृताः विशेषाः शान्ताः घोराः च मूढाः च इति तेन इह अपि ख-आदीनि तन्मात्रशब्द-उक्तानि सूक्ष्माणि बोद्धव्यानि ।

अरुन्धतीपद्धतिः –
प्रकृतसूत्रविषये इतोऽपि स्पष्टीकरोति चक्रपाणिः एतानि इत्यादि।महाभूतानि खं वायुरग्निरापः क्षितिस्तथा इति सूत्रेण ये पदार्थाः मुनिना उक्ताः, तानि तन्मात्राणि अथवा महाभूतानि?एतस्याः शङ्कायाः निरासार्थं साङ्ख्यमतं विचारयति सः।
महाभूतानां सूक्ष्मबीजरूपाणि तन्मात्राणि साङ्ख्यशास्त्रे प्रसिद्धानि।साङ्ख्यैः पञ्चविंशतितत्त्वानि उक्तानि, तत्र तन्मात्राणि अपि सन्ति, महाभूतानि अपि सन्ति। तन्मात्राणां समावेशः प्रकृतिवर्गे कृतः, महाभूतानां समावेशः विकारेषु कृतः।एतं विषयं पुष्टीकर्तुं चक्रपाणिः साङ्ख्यकारिकाम् उद्धरति ‘तन्मात्राणि अविशेषाः (सा.का.३८)’ इत्यादि।
यदि पुनर्वसुना उक्ता प्रक्रिया साङ्ख्यमतमनुसरति तर्हि अत्रापि खं वायुः इति सूत्रे तन्मात्राणि एव ग्राह्याणि।चतुर्विंशतिकस्य पुरुषस्य अयं निर्देशग्रन्थः।प्रकृतिवर्गे विद्यमानानां तत्त्वानां तत्र समावेशो न्याय्यः, न विकारभूत-तत्त्वानाम्।तन्मात्राणि प्रकृतिवर्गे समाविष्टानि, महाभूतानि विकारवर्गे।अतः महाभूतानि खं वायुः इत्यत्र तन्मात्रसंज्ञकानि सूक्ष्माणि महाभूतानि ग्राह्याणि इति चक्रपाणेः आशयः।ऊहतन्त्रयुक्त्या कृतं प्रतिपादनम् इदम्।

०३१-०३२[सम्पाद्यताम्]

गुणाः शरीरे गुणिनां निर्दिष्टाश्चिह्नमेव च।।

पदच्छेदः-
गुणाः शरीरे गुणिनां निर्दिष्टाः चिह्नम् एव च।३१।

अन्वयः-
शरीरे गुणिनां (ये)गुणाः निर्दिष्टाः, (ते तेषां) चिह्नम् एव च।३१।

सरलार्थः-
शरीरे गुणिनां ये गुणाः शब्दादयः निर्दिष्टाः ते गुणाः तेषां गुणिनां चिह्नस्वरूपाः एव सन्ति ।

आयुर्वेददीपिका
भूतानां सूक्ष्माणां शरीरस्थानां लिङ्गान्तराणि आह गुणाः इत्यादि। गुणाः शब्दादयः। गुणिनाम् इति सूक्ष्मरूपभूतानाम्।एवच ग्रहणात् शब्दादयः च व्यक्ताः सूक्ष्माणां शरीरस्थानां भूतानां लक्षणं भवन्ति इति वाक्यार्थः।३१।

अरुन्धतीपद्धतिः –
शरीरे विद्यमानस्य प्रत्येकं सूक्ष्मभूतस्य स्पर्शनेन्द्रियग्राह्यः एकः एकः गुणः उक्तः खरद्रवचलोष्णत्वम् इति सूत्रे।अधुना अन्यः एकः एकः गुणः प्रत्यकं महाभूतस्य उच्यते गुणाः शरीरे इति वचनेन।
शरीरे गुणिनां ये गुणाः शब्दादयः निर्दिष्टाः ते गुणाः तेषां गुणिनां चिह्नस्वरूपाः एव सन्ति इति एषः सूत्रार्थः।
प्रकृतसूत्रे गुणाः इति शब्दादयः।गुणिनः इति सूक्ष्माणि महाभूतानि।चिह्नमिति लक्षणम्।सूत्रे एव च इति अव्ययद्वयं विद्यते।तदर्थं वदति चक्रपाणिः एव च ग्रहणादिति।
महाभूतानि खं वायुः इत्यनेन यानि महाभूतानि उक्तानि तानि अव्यक्तानि। शब्दादयः गुणाः व्यक्ताः।व्यक्ताः गुणाः अव्यक्तानां महाभूतानां चिह्नरूपाः कथं भवन्ति इति सन्देहः कदाचित् जायेत।अतः तन्निवारणाय मुनिना एव च इति प्रयोगः कृतः। निर्धारणार्थकम् अव्ययम् ‘एव’ इति।अतः वाक्यस्य अर्थः निर्धारितः भवति- व्यक्ताः गुणाः अव्यक्तगुणिनां चिह्नरूपाः भवन्ति एव, न भवन्ति इति न।कथं भवन्ति इति सन्देहः अपि न इति।एव इति पदस्य अर्थः अस्ति निर्धारणं निश्चयः।एतस्मात् पदार्थात् चक्रपाणिः सन्देहं निवारयति।अतः पदार्थतन्त्रयुक्तिः एषा।

अर्थाः शब्दादयो ज्ञेया गोचरा विषया गुणाः॥३१॥

पदच्छेदः-
अर्थाः शब्दादयः ज्ञेयाः गोचराः विषयाः गुणाः॥३१॥

अन्वयः-
शब्दादयः गोचराः गुणाः विषयाः अर्थाः ज्ञेयाः ॥३१॥

सरलार्थः-
शब्दादयः गोचराः गुणाः विषयाः अर्थाः ज्ञेयाः इति सूत्रार्थः।

आयुर्वेददीपिका
अर्थान् आह-अर्थाः इत्यादि। अर्थशब्देन तु ये शब्दादयः अभिधीयन्ते ते स्थूल-ख-आदिरूपाः एव ज्ञेयाः; येन आकाशपरिणामः एव शब्दः, वातपरिणामः स्पर्शः इत्यादि दर्शनम्। शब्दादि-ग्रहणेन अत्र आकाशादिग्रहणं यत्,तदाकाशादिपरिणामाः एव शब्दादयः इति युक्तम् एव। एतेन यत् श्रोत्रग्राह्यं तत् सर्वम् आकाशं शब्दः च, यत् स्पर्शेन गृह्यते तत् सर्वं वायुः स्पर्शः च इत्यादि ज्ञेयम्॥३१॥

अरुन्धतीपद्धतिः
उद्देशग्रन्थे क्रमः आसीत् ‘मनो दशेन्द्रियाण्यर्थाः’ इति।तं क्रमम् अनुसृत्य अर्थानां वर्णनं प्राप्तम्।परम् अर्थाः न स्वाधीनाः, आश्रयमहाभूताधीनाः इति महाभूतानां वर्णनं कृतम्।अधुना अस्मिन् सूत्रे साक्षाद् अर्थानां निर्देशः क्रियते।शब्दादयः इति शब्दः स्पर्शः रूपं रसः गन्धः।एते अर्थाः स्थूलाः एव ग्राह्याः न सूक्ष्माः।किमर्थमेवम्? तस्य उत्तरं वदति चक्रपाणिः येन इत्यादिना।
साङ्ख्यदर्शने आकाशस्य एव परिणामः शब्दः, वायोः परिणामः स्पर्शः, तेजसः परिणामः रूपम्, अपां परिणामः रसः, पृथिव्याः परिणामः गन्धः।एवं शब्दादयः स्थूलाकाशादिस्वरूपाः एव, न ततः भिन्नाः।
सूत्रे गोचराः इति पदमस्ति।गोचराः इति इन्द्रियग्राह्याः।शब्दादयः व्यक्ताः सन्ति चेदेव गोचराः भवन्ति, न अव्यक्तरूपाः।अतः अत्र व्यक्तानामेव शब्दादीनां ग्रहणम् उचितम्।व्यक्ताः शब्दादयः व्यक्तमहाभूतस्वरूपाः इति साङ्ख्यदर्शने अङ्गीक्रियते। अतः श्रोत्रेण यः विषयः गृह्यते सः विषयः आकाशमहाभूतं वा स्यात् शब्दगुणः वा स्यात्।स्पर्शनेन यः विषयः गृह्यते सः विषयः वायुमहाभूतं स्यादथवा स्पर्शगुणः स्यात्।एवम् अन्येषु अपि त्रिषु इन्द्रियेषु विज्ञेयम्।
या यदिन्द्रियमाश्रित्य जन्तोर्बुद्धिः प्रवर्तते। याति सा तेन निर्देशं मनसा च मनोभवा॥३२॥

पदच्छेदः-
या यद् इन्द्रियम् आश्रित्य जन्तोः बुद्धिः प्रवर्तते।याति सा तेन निर्देशं मनसा च मनोभवा॥३२॥

अन्वयः-
जन्तोः या बुद्धिः यद् इन्द्रियम् आश्रित्य प्रवर्तते, सा (वुद्धिः) तेन निर्देशं याति। (या) च (बुद्धिः) मनसा प्रवर्तते, (सा बुद्धिः) मनोभवा (इति) निर्देशं याति ॥३२॥

सरलार्थः-
जन्तोः या बुद्धिः यद् इन्द्रियम् आश्रित्य ज्ञानग्रहणे प्रवर्तते,सा बुद्धिः तेन इन्द्रियेण निर्देशं लभते। या बुद्धिः मनसा ज्ञानग्रहणे प्रवर्तते, सा बुद्धिः मनोभवा बुद्धिः इति निर्देशं लभते।

आयुर्वेददीपिका
सम्प्रति प्रकृतिगणप्रविष्टायाः बुद्धेः उपदर्शनार्थं तस्याः बुद्धेः वृत्तिभेदात् ज्ञानविशेषरूपाणि आह-या इत्यादि। यद् इन्द्रियम् आश्रित्य इति यदिन्द्रियप्रणालिकाम् आश्रित्य महत्-शब्द-आख्यस्य बुद्धितत्त्वस्य वृत्तिविशेषरूपाणि ज्ञानानि इन्द्रियप्रणालिकया भवन्ति, तद् इन्द्रियजन्यत्वेन एव तानि व्यपदिश्यन्ते- चक्षुर्बुद्धिः, श्रोत्रबुद्धिः इत्यादिव्यपदेशेन। मनोभवा च बुद्धिः चिन्त्यादिविषया मनसा निर्दिश्यते; मनोबुद्धिः इति व्यपदिश्यते इति अर्थः।

अरुन्धतीपद्धतिः
उद्देशग्रन्थे क्रमः आसीत् मनो दशेन्द्रियाण्यर्थाः प्रकृतिश्चाष्टधातुकी इति।तत्र अर्थपर्यन्तं विवरणं जातम्।अधुना अष्टधातुकी प्रकृतिः निर्दिश्यते।अस्यां प्रकृतौ अव्यक्तं , महत्, अहङ्कारः तथा पञ्च तन्मात्राणि इति अष्टौ तत्त्वानि सन्ति।तत्र आदौ बुद्धेः विवरणम् आरभ्यते।तत्रापि बुद्धेः विविधाः व्यापारभेदाः कथं भवन्ति तथा तेभ्यः व्यापारेभ्यः जायमानानि ज्ञानानि कानि इति कथयति सूत्रकारः या यदिन्द्रियमित्यादिना।
यदा बुद्धिः शब्दं गृह्णाति तदा श्रोत्रेन्द्रियद्वारा गृह्णाति।अतः शब्दस्य यद् ज्ञानं तस्य श्रोत्रबुद्धिः इति निर्देशः भवति।बुद्धिः यदा स्पर्शं गृह्णाति तदा स्पर्शनेन्द्रियद्वारा गृह्णाति।अतः स्पर्शस्य ज्ञानं स्पार्शनबुद्धिः इति संज्ञां लभते।बुद्धिः यदा रूपं गृह्णाति, तदा चक्षुरिन्द्रियद्वारा गृह्णाति।अतः रूपज्ञानं चाक्षुषबुद्धिः इति उच्यते।बुद्धिः यदा रसं गृह्णाति,तदा रसनेन्द्रियद्वारा गृह्नाति।अतः रसज्ञानं नाम रासनबुद्धिः।बुद्धिः गन्धं गृह्णाति, तदा घ्राणेन्द्रियद्वारा गृह्णाति।अतः गन्धज्ञानस्य घ्राणबुद्धिः इति निर्देशः भवति।
यदिन्द्रियम् आश्रित्य, यदिन्द्रियप्रणालिकाम् आश्रित्य तथा यदिन्द्रियद्वारा इति एतेषां शब्दप्रयोगाणाम् अर्थः समानः।
चिन्त्यादयः मनोऽर्थाः पूर्वम् उक्ताः।तेषु कञ्चन अर्थं बुद्धिः गृह्णाति तदा मनोद्वारा गृह्णाति।अतः तद् ज्ञानं मनोभवा बुद्धिः इति व्यपदिश्यते।

०३३-०३४[सम्पाद्यताम्]

भेदात् कार्येन्द्रियार्थानां बह्व्यो वै बुद्धयः स्मृताः।

पदच्छेदः-
भेदात् कार्य-इन्द्रिय-अर्थानां बह्व्यः वै बुद्धयः स्मृताः।

अन्वयः-
कार्य-इन्द्रिय-अर्थानां भेदात् वै बह्व्यः बुद्धयः स्मृताः।

सरलार्थः-
कार्यस्य, इन्द्रियार्थस्य च नाना भेदाः भवन्ति।तदनुसारं बुद्धयः अपि नैकाः सम्भवन्ति।

आयुर्वेददीपिका
इन्द्रियमनोभेदेन षट्त्वं बुद्धीनां प्रतिपाद्य बुद्धिबहुत्वं प्राह- भेदाद् इत्यादि। कार्यस्य इन्द्रियार्थस्य च भेदात् तत्सम्बन्धेन भिद्यमाना बह्व्यो बुद्धयः भवन्ति; कार्यं सुखदुःखभेदाः; सुखदुःखप्रपञ्चेन हि तत्कार्येण कारणं ज्ञानमपि बहु भवति।

अरुन्धतीपद्धतिः –
पूर्वतनवचने बुद्धेः षड् भेदाः प्रतिपादिताः।तत्र भेदकोपाधिः आसीत् आश्रयभूतं करणम्। अधुना अपरं भेदकोपाधिम् आदाय बुद्धेः भेदान् प्रतिपादयति सूत्रकारः।भेत्ता हि भेद्यम् अन्यथा भिनत्ति इति वचनात् न्याय्यम् एव एतादृशं नानाविधं भेदकरणम्।
प्रथमः भेदकोपाधिः अस्ति कार्यम्।सुखं वा दुःखं वेति ज्ञानस्य कार्यम्।यद् ज्ञानं सुखं जनयति, तत् सुखबुद्धिः इति व्यपदिश्यते।यद् ज्ञानं दुःखं जनयति, तद् दुःखबुद्धिः इति व्यपदिश्यते। मिष्टान्नं दृष्ट्वा क्षुधितस्य सुखं जायते।मिष्टान्नदर्शनं चाक्षुषबुद्धिः सुखबुद्धिः च। रिक्तपात्रं दृष्ट्वा तस्य एव क्षुधितस्य दुःखं भवति।रिक्तपात्रदर्शनम् इति चाक्षुषबुद्धिः दुःखबुद्धिः च।
एवं सुखदुःखयोः विस्तरः सम्भवति।सः सुखदुःखविस्तरः ज्ञानस्य कार्यम्।तेन ज्ञानकार्येण वुद्धिः अपि बहुविधा भवतीति विवृणोति चक्रपाणिः सुखदुःखप्रपञ्चेन इति वचने।
अपरः भेदकोपाधिः अत्र उक्तः इन्द्रियार्थाः।नैके भवन्ति इन्द्रियार्थाः।तदनुसारं बुद्धिः अपि भवति बहुविधा।कोकिलरवः इति शब्दः श्रोत्रेन्द्रियस्य अर्थः।तस्य श्रवणम् इति शाब्दबुद्धिः। श्रोत्रेन्द्रियेण स शब्दः गृहीतः अतः सा श्रोत्रबुद्धिः अपि।स शब्दः सुखं जनयति अतः सुखबुद्धिः अपि भवति। मयूरनृत्यं दृष्टं चेत् सा रूपबुद्धिः। चक्षुषा रूपज्ञानं जातम् अतः सा चाक्षुषबुद्धिः अपि।मयूरनृत्यदर्शनेन सुखं भवतीति सा सुखबुद्धिः अपि।

आत्मेन्द्रियमनोर्थानामेकैका सन्निकर्षजा॥३३॥व
अङ्गुल्यङ्गुष्ठतलजस्तन्त्रीवीणानखोद्भवः। दृष्टः शब्दो यथा बुद्धिर्दृष्टा संयोगजा तथा॥३४॥

पदच्छेदः-
आत्म-इन्द्रिय-मनः-अर्थानाम् एका एका सन्निकर्षजा॥३३॥
अङ्गुली-अङ्गुष्ठ-तलजः तन्त्री-वीणा-नख-उद्भवः।दृष्टः शब्दः यथा बुद्धिः दृष्टा संयोगजा तथा॥३४॥

अन्वयः-
आत्म-इन्द्रिय-मनः-अर्थानाम् सन्निकर्षजा एका एका (बुद्धिः भवति) ॥३३॥ यथा शब्दः अङ्गुली-अङ्गुष्ठ-तलजः (अथवा) तन्त्री-वीणा-नख-उद्भवःदृष्टः , तथा बुद्धिः संयोगजा दृष्टा ॥३४॥

सरलार्थः
आत्मा इन्द्रियं मनः तथा अर्थः इति एतेषां सन्निकर्षात् एका एका बुद्धिः जायते।यथा अङ्गुली, अङ्गुष्ठः तथा करतलः इति एतेषां संयोगात् चुट् इति ध्वनिः जायते अथवा वीणा, तस्याः तन्तुः तथा वादकस्य नखम् इति एतेषां संयोगात् ध्वनिः जायते, तथा बुद्धिः आत्मादीनां सन्निकर्षात् जायते ।

आयुर्वेददीपिका
इदानीं सर्वबाह्यज्ञानसाधनम् आह- आत्मा इत्यादि। आत्मा अव्यक्तम्। एकैक-इति प्रत्येकम्। बुद्धेः अनेकात्मादिमेलकजन्यत्वे दृष्टान्तम् आह -अङ्गुलि-इत्यादि। अनेन दृष्टान्तेन शब्दद्वयम् आह; अङ्गुली-अङ्गुष्ठ-तलज-शब्दः एकः, अयं च अङ्गुष्ठ-यन्त्रित-मध्यम-अङ्गुल्याः करतलसंयोगात् जायमानतलशब्दः उच्यते; तन्त्री-वीणा-नख-उद्भवश्च वीणाशब्दः एकः; अन्ये तु एकम् एव अङ्गुली- आदिजं वीणाशब्दं वर्णयन्ति। एतेन, यथा शब्दः अङ्गुलादि-अन्यतमवैकल्ये अपि न भवति, तथा बुद्धिः अपि आत्म-आदीनाम् अन्यतमवैकल्ये अपि न भवति इति दर्शयति॥३२-३४॥

अरुन्धतीपद्धतिः –
घटज्ञानं प्रति घटः कारणं भवतीति न्यायः।एवं ज्ञानं प्रति अर्थः कारणम्।घटग्रहणं चक्षुषा क्रियते अतः चक्षुरिन्द्रियम् अपि घटज्ञानं प्रति कारणं मन्तव्यम्।चक्षुषा गृहीतः निर्विकल्पः अर्थः मनसा कल्प्यते अतः मनः अपि ज्ञानकारणम्।ज्ञानं तु जडस्य न सम्भवति।घटादयः जडाः ।घटस्य ज्ञाता चेतनः आत्मा।अतः ज्ञानस्य कारणत्वेन आत्मापि अङ्गीकार्यः।तर्हि घटज्ञानं प्रति नूनं कारणं किम्? अथवा एतेषाम् अर्थादीनां संयोगः कारणम् इति सन्देहं निराकरोति सूत्रकारः।
सूत्रे आत्मा इति पदं विद्यते।तस्य प्रसिद्धः अर्थः चेतना।प्रकृते सूत्रे अव्यक्तम् इति अर्थः ग्राह्यः इति चक्रपाणिः सूचयति।यतो हि चतुर्विंशतिकपुरुषस्य विवरणम् इदम्।तत्र चेतनः पुरुषः तथा प्रकृतिः इति उभयोः एकेन अव्यक्ततत्त्वेन स्वीकारः आरम्भे कृतः।अतः इदानीम् आत्मशब्देन अव्यक्तसहितं चैतन्यमेव ग्रहीतुम् उचितम्।
अस्य स्पष्टीकरणार्थं दृष्टान्तद्वयमुक्तं सूत्रकारेण।दृष्टान्तद्वयम् अत्रोक्तम् इति चक्रपाणेः मतम्। केचन अत्र एकमेव दृष्टान्तं चिन्तयन्ति।
प्रथमः दृष्टान्तः छोटिकायाः। प्रादेशिकभाषया अयं ध्वनिः ‘चुटकी’ इति व्यवह्रियते। मध्यमाङ्गुली अङ्गुष्ठेन नियन्त्र्यते।ततः सहसा अङ्गुष्ठः अपनीयते। तेन मध्यमायाः अग्रं करतले आहन्यते।ततः ध्वनिः भवति चुट् इति।अत्र मध्यमाङ्गुली, अङ्गुष्ठः, करतलम् इति एतेषु एकः अपि नास्ति चेत् ध्वनिः न भवति।तथा दार्ष्टान्तिके अपि आत्मादीनाम् एकः अपि अनुपस्थितः चेत् ज्ञानं न भवति।इति दृष्टान्तदार्ष्टान्तिकयोः समन्वयः।
अपरः दृष्टान्तः वीणारवस्य।वीणा, तस्याः तन्तुः तथा वादकस्य नखम् इति संयोगात् रवः जायते।एतेषु एकमपि कारणम् अनुपस्थितं चेत् रवः न भवति।तथैव आत्मादिषु एकमपि कारणम् अनुपस्थितं चेत् ज्ञानं न भवति।
अपरेषां मते अत्र एकः एव दृष्टान्तः।अङ्गुली, अङ्गुष्ठः, करतलं, तन्त्री, वीणा, नखम् इति एतेषां सन्निकर्षात् वीणारवः जायते तथा आत्मादीनां सन्निकर्षाद् ज्ञानं जायते इति । नैतद् मतं चक्रपाणिना प्रतिषिद्धम्।अतः ‘अप्रतिषिद्धम् अनुमतमेव’ इति न्यायेन एतद् अपि ग्राह्यम्।

०३५[सम्पाद्यताम्]

'बुद्धीन्द्रियमनोर्थानां विद्याद्योगधरं परम्।चतुर्विंशतिको ह्येष राशिः पुरुषसञ्ज्ञकः॥३५॥'

पदच्छेदः-
बुद्धि-इन्द्रिय-मनः-अर्थानां विद्यात् योगधरं परम्।चतुर्विंशतिकः हि एषः राशिः पुरुषसञ्ज्ञकः॥३५॥

अन्वयः-
बुद्धि-इन्द्रिय-मनः-अर्थानां योगधरं परम् विद्यात् ।एषः चतुर्विंशतिकः हि राशिः पुरुषसञ्ज्ञकः (भवति)॥३५॥

सरलार्थः-
बुद्धिः, इन्द्रियाणि, मनः, अर्थाः इति एतेषां तत्त्वानां योगं यद् धारयति तद् अव्यक्तम्। चतुर्विंशतितत्त्वानाम् एषः सङ्घातः पुरुषशब्देन उच्यते ।

आयुर्वेददीपिका
अत्र च बुद्धिवृत्तीनां ज्ञानानां कथनेन एव अहङ्कारः अपि सूचितः एव; यतः अहङ्कार-पजीविता एव आत्मादिसंवलिता इयं बुद्धिः ‘अहं पश्यामि’ इत्यादिरूपा भवति; तेन बुद्धेः अहङ्कारस्य च उक्तत्वाद् अवशिष्टम् अव्यकं कार्यद्वारा ब्रूते बुद्धि-इत्यादि।परम् इति अव्यक्तम्। बुद्ध्यादीनां योगं मेलकं धरतीइ इति योगधरम्; अव्यक्तं हि प्रकृतिरूपं पुरुषार्थप्रवृत्तं बुद्ध्यादिमेलकं भोगसम्पादकं सृजति। एवं व्युत्पादितं चतुर्विंशतिकम् उपसंहरति चतुर्विंशतिकः इत्यादि।

अरुन्धतीपद्धतिः –
पुनश्च धातुभेदेन चतुर्विंशतिकः स्मृतः इत्यत्र चतुर्विंशतिकपुरुषः उपक्रान्तः।अत्र तस्य उपसंहारः क्रियते।
मनो दशेन्द्रियाणि अर्थाः प्रकृतिश्चाष्टधातुकी इत्यनेन चतुर्विंशतितत्त्वानाम् उद्देशः उक्तः।
लक्षणं मनसः इति सूत्रे मनसः निर्देशः कृतः।
एकैकाधिकयुक्तानि खादीनाम् इन्द्रियाणि तु इति वचनेन इन्द्रियाणां निर्देशः जातः।
अर्थाः शब्दादयो ज्ञेयाः इति अर्थनिर्देशः जातः।
अथ अष्टधातुकी प्रकृतिः निर्देष्टव्या।तस्यां पञ्चतन्मात्राणि, अव्यक्तं बुद्धिः अहङ्कारः इति एतानि अष्ट तत्त्वानि सन्ति।तेषु पञ्चतन्मात्राणां निर्देशः महाभूतानि खं वायुः अग्निरापः क्षितिस्तथा इति सूत्रे कृतः।
या यदिन्द्रियम् आश्रित्य जन्तोः बुद्धिः प्रवर्तते इत्यत्र बुद्धिवृत्तीनां निर्देशः कृतः।
अहङ्कारेण सह एव बुद्धिः प्रवर्तते अतः तत्र एव अहङ्कारस्य निर्देशः अन्तर्भूतः।तत् कथम् इति विवृतं चक्रपाणिना वुद्धिवृत्तीनां ज्ञानानां कथनेनैव इति वचने।
इदानीं चतुर्विंशतितत्त्वेषु अवशिष्टं तत्त्वम् अव्यक्तम्।प्रकृतसूत्रे अव्यक्तं निर्दिश्यते कार्यद्वारा। बुद्ध्यादीनां संयोगः धार्यते अव्यक्तेन।कथं धार्यते इत्यस्य विवरणं कृतं टीकाकारेण अव्यक्तं हीत्यादिना। एवमत्र चतुर्विंशतिकपुरुषस्य विवेचनं समापितम्।

आयुर्वेददीपिका
यदि वा कर्मेन्द्रियाणि अभिधाय महाभूतानि इत्यादिना अर्थाः एव आश्रयभूत-खादिकथनेन-उच्यन्ते, या यदिद इन्द्रियम् आश्रित्येत्यादिना तु स्फुट-उपलभ्यमानाः बुद्धिवृत्ति-भेदाः उच्यन्ते, बुद्धि-अहङ्कार-तन्मात्राणि अव्यक्तानि तु सूक्ष्माणि न उक्तानि, तानि सर्वाणि एव बुद्धीन्द्रियमनोर्थानाम् इत्यादिग्रन्थे परशब्देन उच्यन्ते, तेन योगधरं परम् इति अनेन मूलप्रकृतिः तथा प्रकृति-विकृतयश्च महद्-आदयः सप्त उच्यन्ते; एवं चतुर्विंशतिकः राशिः भवति। परत्वं च विकार-अपेक्षया प्रकृतीनाम् उपपन्नम् एव॥३५॥

अरुन्धतीपद्धतिः –
प्रकृतसूत्रस्य सङ्गतिं चक्रपाणिः पुनः प्रकारान्तरेण वदति यदि वा इत्यादिना।वा इति अव्ययं पक्षान्तरं सूचयति।
मनो दशेन्द्रियाणि अर्थाः प्रकृतिश्चाष्टधातुकी इत्यनेन चतुर्विंशति-तत्त्वानाम् उद्देशः उक्तः।
लक्षणं मनसः इति सूत्रे मनसः निर्देशः कृतः।
एकैकाधिकयुक्तानि खादीनाम् इन्द्रियाणि तु इति वचनेन इन्द्रियाणां निर्देशः जातः।वाक् च सत्या ज्योतिः तमोऽनृता इत्यत्र कर्मेन्द्रियाणां विवेचनं कृतम्।इतः पर्यन्तं सङ्गतिः यथा पूर्वम् उक्ता तथैव भवतु।
ततः अग्रे महाभूतानि खं वायुः इति वचने सूक्ष्माणां पञ्चतन्मात्राणां निर्देशः कृतः इति यत् पूर्वस्मिन् पक्षे उक्तं, तस्य स्थाने महाभूतानि इति सूत्रे अर्थानां निर्देशः जातः इति मन्तव्यम्। महाभूतानि इति अर्थनिर्देशः कथम्?महाभूतानि अर्थानाम् आश्रयभूतानि।अतः अर्थाश्रयकथनद्वारा अत्र अर्थनिर्देशः कृतः।
अथ अष्टधातुकी प्रकृतिः वक्तव्या।तत्र पञ्चतन्मात्राणि बुद्धिः अहङ्कारः अव्यक्तं चेति अष्टौ तत्त्वानि सन्ति।एतानि सर्वाणि तत्त्वानि अस्मिन् सूत्रे परशब्देन उक्तानि।एतेषां तत्त्वानां परम् इति संज्ञा किमर्थम्? विकाराणाम् अपेक्षया एतानि अष्टौ तत्त्वानि पराणि अतः परसंज्ञा एतेषां सार्था।
एवं प्रकारान्तरेण अपि अत्र विवेचनं शक्यते।उभयथा चतुर्विंशतिकः पुरुषः उपसंहृतः।

०३६[सम्पाद्यताम्]

रजस्तमोभ्यां युक्तस्य संयोगोऽयमनन्तवान् ।ताभ्यां निराकृताभ्यां तु सत्त्ववृद्ध्या निवर्तते ॥ ३६ ॥

पदच्छेदः-
रजस्-तमोभ्यां युक्तस्य संयोगः अयम् अनन्तवान् ।ताभ्यां निराकृताभ्यां तु सत्त्ववृद्ध्या निवर्तते ॥ ३६ ॥

अन्वयः-
रजस्-तमोभ्यां युक्तस्य (पुरुषस्य)अयं संयोगः अनन्तवान्।तु ताभ्यां (रजस्-तमोभ्यां) निराकृताभ्यां, सत्त्ववृद्ध्या (अयं संयोगः) निवर्तते॥ ३६॥

सरलार्थः-
यः पुरुषः रजस्तमोभ्यां युक्तः, तस्य अयं चतुर्विंशतितत्त्वानां संयोगः अन्तहीनः अस्ति।यदा तस्य पुरुषस्य सत्त्ववृद्धिः भवति,तदा रजस्तमसी निराकृते भवतः।तदा पुरुषः संसारात् निवर्तते।

आयुर्वेददीपिका
सम्प्रति एवंरूपपुरुषस्य सकारणं संसरणं मोक्षहेतुं च आह रज इत्यादि। संयोगः अयम् इति चतुर्विंशतिराशिरूपः मेलकः। ताभ्याम् इति रजस्तमोभ्याम्। सत्त्ववृद्ध्या कारणभूतया रजस्तमोनिवृत्त्या पुरुषरूपः संयोग: निवर्तते मोक्षः भवति इति अर्थः। सत्त्वं वृद्धं विशुद्धज्ञानजननाद् रजस्तमसी संसारकारणे विजित्य प्रकृतिपुरुष-विवेक-ज्ञानात् मोक्षम् आवहति ॥३६॥

अरुन्धतीपद्धतिः –
सत्त्ववृद्ध्या निवर्तते इत्यत्र ‘सत्त्ववृद्ध्या’ इति तृतीयान्तं पदम्।‘निराकृताभ्याम्’ इत्यपि तृतीयान्तं पदम्।क्रिया अत्र संयोगनिवृत्तिः।अस्यां क्रियायाम् उभयोः तृतीयान्तपदयोः करणत्वेन अन्वयः भवतीति सूत्रादेव स्पष्टम्।परं रजस्तमोनिराकरणं तथा सत्त्ववृद्धिः इति एतयोः अपि कार्यकारणभावः विद्यते इति टीकाकारः दर्शयति सत्त्ववृद्ध्या कारणभूतया इति व्याख्यया।
सत्त्ववृद्धिः कारणभूता।ततः रजस्तमोनिराकरणं भवति।तथा चाह भगवान्-
रजस्तमश्चाभिभूय सत्त्वं भवति भारत।सत्त्ववृद्ध्या विशुद्धज्ञानोदयः अपि भवति। (भ.गीता१४.१०)
सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते।
ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वमित्युता॥ (भ.गी.१४.११)
ज्ञानात् संसारनिवृत्तिः भवति।एषा साङ्ख्यमते मोक्षप्रक्रिया।एवं सत्त्ववृद्धिः इति रजस्तमोनिराकरणस्य कारणं तथा ज्ञानोदयद्वारा मोक्षस्य अपि कारणम्।
सत्त्ववृद्धिः संयोगनिवृत्तेः कारणम् इति सूत्रादेव स्पष्टम्।सत्त्ववृद्धिः रजस्तमसोः निराकरणस्य अपि कारणम् इति सूत्रेऽस्पष्टः आशयः टीकाकारेण साङ्ख्यमतानुरोधेन स्पष्टीकृतः।उक्तं हि ‘व्याख्यानस्य अप्रतिपत्ति-विप्रतिपत्ति-अन्यथाप्रतिपत्तिनिरासः फलम्’।प्रकृते सत्त्ववृद्धिः तथा रजस्तमसोः निराकरणम् इति अनयोः कार्यकारणभावस्य अप्रतिपत्तिः साङ्ख्यमतानभिज्ञानां प्राप्ता असीत्।तस्याः निरासः चक्रपाणिना कृतः।तदर्थं योगतन्त्रयुक्तेः साहाय्यं स्वीकृतम्।
‘रजसा तमसा च संसारे भ्रमणम्’ इति पुनर्वसुना अत्र उक्तः आशयः स्मृतौ अपि दृश्यते- रजसा तमसा चैवं समाविष्टो भ्रमन्निह।भावैरनिष्टैः संयुक्तः संसारं प्रतिपद्यते॥१४०
रजस्तमोभ्यामाविष्टः चक्रवद् भ्राम्यते ह्यसौ॥१८२ याज्ञवल्क्यस्मृतिः यतिधर्मप्र.


 च.शा.१.०१६-०२३   चरकसंहिता-आयुर्वेददीपिकयोः अरुन्धती-पद्धतिः      च.शा.१.०३७-०५२
"https://sa.wikibooks.org/w/index.php?title=च.शा.१.०२४-०३६&oldid=6390" इत्यस्माद् प्रतिप्राप्तम्