च.शा.१.०७७-०९४

विकिपुस्तकानि तः
Jump to navigation Jump to search

७७[सम्पाद्यताम्]

यथास्वेनात्मनाऽऽत्मानं सर्वः सर्वासु योनिषु।प्राणैस्तन्त्रयते प्राणी न ह्यन्योऽस्त्यस्य तन्त्रकः॥७७॥

पदच्छेदः-
यथास्वेन आत्मना आत्मानं सर्वः सर्वासु योनिषु|प्राणैः तन्त्रयते प्राणी न हि अन्यः अस्ति अस्य तन्त्रकः॥७७॥

अन्वयः-
सर्वः प्राणी यथास्वेन आत्मना आत्मानं सर्वासु योनिषु प्राणैः तन्त्रयते। हि अस्य अन्यः तन्त्रकः न अस्ति॥७७॥

सरलार्थः-
प्रत्येकं प्राणी स्वस्वकर्मभिः स्वयम् आत्मानं सर्वासु योनिषु प्राणैः सह संयोजयति।यतः अस्य अन्य नियामकः नास्ति।७७

आयुर्वेददीपिका
सम्प्रति स्वतन्त्रत्वे अपि अनिष्टयोनिगमनम् आक्षिप्तं समादधाति यथास्वेनेत्यादि। सर्वासु नर-गो-हस्ति-कीटादियोनिषु। प्राणैः तन्त्रयते प्राणैः योजयति, आत्मना एव अयं धर्म-अधर्मसहायेन आत्मानं सर्वयोनिषु नयति, न परप्रेरितो याति; यतः न अन्यः पुरुषः अस्य प्रेरकः अस्ति ईश्वराभावात्; किंवा सति अपि ईश्वरे तस्य अपि कर्मपराधीनत्वात्। इदमेव च अस्य अनिष्ट-योनि-गमने स्वातन्त्र्यं यद् अनिष्टयोनिगमनहेतु-अधर्मकरणे स्वातन्त्र्यम्, अधर्मकरण-आरब्ध-स्वकर्मणा एव अयम् अनिच्छन् अपि नीयते इति अनिष्टयोनिगमनं भवति; स्वातन्त्र्यं च यथोक्तं भवति॥७७॥

अरुन्धतीपद्धतिः –
पुरुषः स्वतन्त्रः अस्ति चेद् सः अनिष्टासु योनिषु कथं जायते इति अग्निवेशस्य प्रश्नः आसीत्।तस्य उत्तरम् अत्र दत्तम्।
यथास्वेन इत्यस्य अर्थः स्व-धर्माधर्मम् अनतिक्रम्य। यथा स्वस्य धर्माधर्मौ स्तः तदनुसारम्। ‘न ह्यन्योऽस्ति अस्य तन्त्रकः’ इति सूत्रांशस्य द्विधा स्पष्टीकरणम् उच्यते चक्रपाणिना। तन्त्रकः इति नियामकः।पुरुषस्य तन्त्रकः ईश्वरः सम्भवति अथवा अन्यः पुरुषः।जडः महादादिप्रपञ्चः वा प्रधानं वा चेतनस्य तन्त्रकः भवितुं नार्हति।
साङ्ख्यमते ईश्वराङ्गीकारः नास्ति।तत्र अन्यः पुरुषः पुरुषस्य तन्त्रकः वा इति प्रश्नः उद्भवति।तस्योत्तरम् इदमेव ‘न ह्यन्योऽस्ति अस्य तन्त्रकः’ इति ।
सेश्वरसाङ्ख्याः अपि केचन सन्ति।तत्र ईश्वरः पुरुषस्य तन्त्रकः वा इति प्रश्नः सम्भवति। तस्य अपि उत्तरम् इदमेव ‘न ह्यन्योऽस्ति अस्य तन्त्रकः’ इति ।ईश्वरः अपि अत्र नियामकः नास्ति इति कथम्? इति आशङ्कायाः उत्तरं वदति चक्रपाणिः ‘तस्यापि कर्मपराधीनत्वात्’ इति।
योगदर्शनं सेश्वरम्।तत्रापि जीवस्य कर्मानुसारं तस्य जन्म भवति इति पतञ्जलिना उक्तम् -
...तद्विपाकाः जात्यायुर्भोगाः ।- पातञ्जलयोगदर्शनं २.१३
पुरुषः कर्माचरणे स्वतन्त्रः अस्ति, न फलभोगे इति आशयः।सः यथेच्छं धर्मं वा अधर्मं वा कर्तुं स्वतन्त्र:।ततः फलभोगे तु तस्य स्वातन्त्र्यं नास्ति।अयमाशयः उक्तः टीकाकारेण इदमेव च इत्यादिना।
पुरुषः स्वतन्त्रः सन् अपि अनिष्टासु योनिषु कथं जायते इति प्रश्नस्य याज्ञवल्क्यमुनिना दत्तम् उत्तरम् एवम् –
अन्त्य-पक्षि-स्थावरतां मनोवाक्कायकर्मजैः।दोषैः प्रयाति जीवोऽयं भवयोनिशतेषु च॥याज्ञ.स्मृतिः यतिधर्मप्र.१३१
रजसा तमसा चैवं समाविष्टो भ्रमन्निह।भावैरनिष्टैः संयुक्तः संसारं प्रतिपद्यते॥ याज्ञ.स्मृतिः यतिधर्मप्र.१४०

७८[सम्पाद्यताम्]

वशी तत् कुरुते कर्म यत् कृत्वा फलमश्नुते। वशी चेतः समाधत्ते वशी सर्वं निरस्यति॥७८॥

पदच्छेदः-
वशी तत् कुरुते कर्म यत् कृत्वा फलम् अश्नुते।वशी चेतः समाधत्ते वशी सर्वं निरस्यति॥७८॥

अन्वयः-
(पुरुषः) वशी (सन्) तत् कुरुते कर्म यत् कृत्वा (कर्मप्रभावात्) फलम् अश्नुते।पुरुषः वशी (अतः)चेतः समाधत्ते।(पुरुषः) वशी (अतः) सर्वं निरस्यति॥७८॥

सरलार्थः-
पुरुषः स्ववशः अस्ति अतः शुभं वा अशुभं वा कर्म करोति, तत् कृत्वा कर्मविपाकरूपेण तस्य फलं भुङ्क्ते।पुरुषः स्वावशः अस्ति अतः अनिष्टात् कर्मणः मनः परावर्तयितुं शक्नोति।पुरुषः स्ववशः अस्ति अतः मोक्षार्थं सर्वं कर्म संन्यस्यति।

आयुर्वेददीपिका
‘वशी यद्यसुखैः कस्माद्भावैराक्रम्यते’ इत्यस्य उत्तरं वशीत्यादि। वशी स्वेच्छाधीनप्रवृत्तिः (इष्टे अनिष्टे वा आत्मा ,); तेन, वशी सन् अयं तानि कर्माणि करोति शुभानि अशुभानि वा आपातफलरागात्, यानि कृत्वा तत्कर्मप्रभावात् शुभेन अशुभेन वा फलेन योगम् आप्नोति। एतेन कर्तव्ये कर्मणि अस्य वशित्वं, कृतकर्मफलं तु अस्य अनिच्छतः अपि भवति; तेन तत् प्रति न अस्य वशित्वम्। अन्यद् अपि वशित्वफलम् आह- वशी चेतः समाधत्ते इति। अनिष्टे अर्थे वशी सन् अयं मनो निवर्तयति; यदि हि अयं वशी न स्यात्, न मनो निवर्तयितुं शक्नुयात्। अपरम् अपि वशित्वगमकं कर्म आह वशी सर्वं निरस्यति इति। वशी सन् अयं मोक्षार्थं प्रवृत्तः सर्वारम्भं शुभाशुभफलं त्यजति इति अर्थः।

अरुन्धतीपद्धतिः –
वशी इति पदस्य अर्थः स्वेच्छाधीनप्रवृत्तिः।स्वस्य इच्छा स्वेच्छा।स्वेच्छाधीना प्रवृत्तिः यस्य सः स्वेच्छाधीनप्रवृत्तिः इति बहुव्रीहिः।पुरुषस्य विशेषणम् इदम्।शुभकर्मणि वा अशुभकर्मणि वा पुरुषस्य प्रवृत्तिः पुरुषाधीना एव अस्ति।अतः कर्मकरणे सः वशी।
अशुभकर्मणि पुरुषस्य प्रवृत्तिः कथं वा स्यात् इति आशङ्का सम्भवति।तस्य उत्तरं वदति चक्रपाणिः ‘आपातफलरागात्’ इति।अयम् आपातफलरागः कथं भवति इति उक्तं भगवता –
विषयेन्द्रियसंयोगात् यत् तद् अग्रेऽमृतोपमम्।परिणामे विषमिव तत् सुखं राजसं स्मृतम्॥भ.गीता १६.३८
आपाततः अमृतोपमं फलं दृष्ट्वा राजसाः जनाः तज्जनकं कर्म कुर्वन्ति।तदा शुभशुभचिन्तां न कुर्वन्ति।
वशी चेत्, दुःखैःकिमर्थम् आक्रम्यते पुरुषः इत्यस्य प्रश्नस्य स्पष्टमुत्तरम् उच्यते चक्रपाणिना-
एतेन कर्तव्ये कर्मण्यस्य वशित्वं,कृतकर्मफलं त्वस्यानिच्छतोऽपि भवति; तेन तत्प्रति नास्य वशित्वम्।

आयुर्वेददीपिका
इह स्वतन्त्रः परात्मना ईश्वरादिना प्रेरितप्रवृत्तिः उच्यते; वशी तु स्वयम् अपि प्रवर्तमानः इच्छावशात् प्रवर्तते, न प्रेरितप्रवृत्तिरूपत्वेन ईप्सिते अनीप्सिते च वर्तते इति स्वातन्त्र्य-वशित्वयोः भेदः।७८॥

अरुन्धतीपद्धतिः –
निष्क्रियं च स्वतन्त्रं च वशिनं सर्वगं विभुम्।वदन्त्यात्मानमात्मज्ञाः... ॥च.शा.१.५ इति अध्यायारम्भे अग्निवेशस्य प्रश्नावल्यां पुरुषवर्णनम् अस्ति।तत्र पुरुषस्य ‘स्वतन्त्रः’ तथा ‘वशी’ इति द्वे विशेषणे प्रयुक्ते। उभयोः अर्थयोः अन्तरं विद्यते वा इति आशङ्कायाः उत्तरं वदति चक्रपाणिः इह इत्यादिना।
स्वतन्त्रः इति ईश्वरादिना प्रेरिता प्रवृत्तिः यस्य सः।आदिशब्देन कर्म ग्राह्यम्।यदि पुरुषस्य यस्यां कस्याम् अपि योनौ जन्म ईश्वरेण वा कर्मणा वा प्रेरितम् अस्ति तर्हि सः अनिष्टासु योनिषु कथं जायते इति प्रश्नस्य आशयः।
वशी इति स्वेच्छाधीनप्रवृत्तिः।नात्र ईश्वरः प्रेरकः भवति, न वा कर्म।पुरुषः यदि स्वेच्छावशात् कर्मसु प्रवर्तते तर्हि दुःखरूपं फलं प्राप्नोति कथम् इति अपरस्य प्रश्नस्य आशयः।

७९[सम्पाद्यताम्]

देही सर्वगतोऽप्यात्मा स्वे स्वे संस्पर्शनेन्द्रिये।सर्वाः सर्वाश्रयस्थास्तु नात्माऽतो वेत्ति वेदनाः ॥७९॥

पदच्छेदः-
देही सर्वगतः अपि आत्मा स्वे स्वे संस्पर्शन-इन्द्रिये। सर्वाः सर्व-आश्रयस्थाः तु न आत्मा अतः वेत्ति वेदनाः॥७९॥

अन्वयः-
देही आत्मा सर्वगतः अपि स्वे स्वे संस्पर्शन-इन्द्रिये वेदनाः वेत्ति ।अतः आत्मा सर्व-आश्रयस्थाः सर्वाः वेदनाः तु न वेत्ति ॥७९॥

सरलार्थः-
देहे विद्यमानः आत्मा सर्वगतः अस्ति तथापि स्वस्य तस्य स्पर्शनेन्द्रियं यत्र विद्यते, तस्मिन् शरीरे सः एव वेदनाः जानाति।परन्तु अन्येषु आश्रयभूतेषु शरीरेषु तस्य स्वीयं स्पर्शनेन्द्रियं नास्ति अतः सर्वशरीरेषु विद्यमानाः सर्वाः वेदनाः सः न जानाति।

आयुर्वेददीपिका
‘सर्वाः सर्वगतत्वाच्च वेदनाः किं न वेत्ति सः’ इत्यस्य उत्तरम् आह- देहीत्यादि। सर्वगतः इति सर्वगतः अपि सन्, संस्पर्शनेन्द्रिये इति संस्पर्शनयुक्ते शरीरे, वेदनाः सुखदुःखरूपा वेत्ति, सर्वाश्रयस्थाः तु न वेत्ति इति योजना। यस्मात् सर्वगतः अपि आत्मा स्वकीये एव स्पर्शनवति शरीरे परं वेदना वेत्ति, तेन सर्वाश्रयस्थाः सर्ववेदनाः न वेत्ति इति वाक्यार्थः।सर्वाश्रयस्थाः इति सर्वपरशरीरगताः । परशरीरे च आत्मा स्व-कर्म-उपार्जित-इन्द्रियाभावाद् विद्यमानः अपि न उपलभते सुखदुःखे।

अरुन्धतीपद्धतिः –
आत्मा सर्वगतः’ इति शब्दप्रयोगे सर्वगतः इति पदं विद्यते।तस्य अर्थः स्वशरीरगतः, परशरीरगतः च।यदि आत्मा परशरीरेषु अपि विद्यते तर्हि सः तत्रत्याः वेदनाः किमर्थं न जानाति इति प्रश्नस्य आशयः।
सूत्रे संस्पर्शनेन्द्रिये इति पदं विद्यते।स्पर्शनेन्द्रियशब्दस्य मुख्यार्थः ‘स्पर्शग्राहकम् इन्द्रियम्’।एतम् अर्थं स्वीकुर्मः चेत् वचनस्य तात्पर्यं न ज्ञायते।यतो हि आत्मा सकले शरीरे विद्यते न स्पर्शनेन्द्रियमात्रे।एवं मुख्यार्थबाधे सति चक्रपाणिना लक्षणा आश्रिता।स्पर्शनेन्द्रियम् इत्यस्य ‘स्पर्शनेन्द्रिययुक्तं शरीरम्’ इति लक्ष्यार्थः गृहीतः।अजहत्स्वार्थलक्षणा एषा।
अर्थः इन्द्रियैः एव ज्ञायते। अन्यस्मिन् शरीरे आत्मनः स्वस्य इन्द्रियाणि न सन्ति।अतः आत्मा यद्यपि अन्येषु शरीरेषु अस्ति, तथापि साधनाभावात् सः अन्यशरीरस्थानि सुखदुःखानि न जानाति इति प्रश्नस्य उत्तरम्।
याज्ञवल्क्येन अस्य प्रश्नस्य उत्तरं दत्तं तद् अपि एवमेव-
सर्वाश्रयां निजे देहे देही विन्दति वेदनाम्।याज्ञ.स्मृतिः यतिधर्मप्रक.१४३
यः पुनर्देही देहाभिमानयुक्तः, सः सर्वाश्रयाम् आध्यात्मिकादिरूपां वेदनां स्वकर्मोपार्जित एव देहे प्राप्नोति, न देहान्तरगताम्।भोगायतनारम्भादृष्टवैलक्षण्यादेव।– तत्रैव मिताक्षरा टीका

आयुर्वेददीपिका
स्वे स्वे शरीर इति वक्तव्ये यत् ‘संस्पर्शनेन्द्रिये’ इति करोति, तेन स्वशरीरेऽपि यत्र केशनखादौ स्पर्शनेन्द्रियं नास्ति तत्र नात्मा किञ्चिदुपलभत इति दर्शयति॥७९॥

अरुन्धतीपद्धतिः –
सूत्रे ‘संस्पर्शनेन्द्रिये’ इति पदं विद्यते।तस्य लक्ष्यार्थः कृतः ‘स्पर्शनेन्द्रिययुक्ते शरीरे’ इति। एवं तर्हि मुनिना ‘स्वे स्वे शरीरे’ इत्येव प्रयोगः कुतो न कृतः?अस्याः आशङ्कायाः उत्तरम् अत्र चक्रपाणिः वदति स्वे स्वे इत्यादिना।
स्पर्शनेन्द्रिये इति वचनेन ‘स्पर्शनेन्द्रियाभाववति’ स्वशरीरे अपि सुखदुःखज्ञानं न भवति इति अर्थः गम्यते। केशनखादौ स्पर्शनेन्द्रियरहिते स्वशरीरे अपि आत्मा वेदनाः न जानाति। स्पर्शनेन्द्रियम् इति पदस्य अर्थात् अयम् अर्थविशेषः अवगतः।पदार्थतन्त्रयुक्तिः एषा।

८०-८१[सम्पाद्यताम्]

विभुत्वमत एवास्य यस्मात् सर्वगतो महान् । मनसश्च समाधानात् पश्यत्यात्मा तिरस्कृतम् ॥८०॥
नित्यानुबन्धं मनसा देहकर्मानुपातिना । सर्वयोनिगतं विद्यादेकयोनावपि स्थितम् ॥८१॥

पदच्छेदः-
विभुत्वम् अतः एव अस्य यस्मात् सर्वगतः महान् । मनसः च समाधानात् पश्यति आत्मा तिरस्कृतम् ॥८०॥
नित्य-अनुबन्धं मनसा देहकर्म-अनुपातिना । सर्वयोनिगतं विद्याद् एकयोनौ अपि स्थितम् ॥८१॥

अन्वयः-
यस्मात् (आत्मा) सर्वगतः , महान् अतः एव अस्य विभुत्वम् । आत्मा मनसः च समाधानात् तिरस्कृतं पश्यति॥८०॥ सर्वयोनिगतम् अपि, देहकर्म-अनुपातिना मनसा नित्य-अनुबन्धम् (आत्मानम्) एकयोनौ स्थितम् विद्याद् ॥८१॥

सरलार्थः-
आत्मा सर्वगतः अस्ति तथा महान् अस्ति अतः तस्य विभुत्वम् उपपन्नम्।यदि मनसः समाधिः भवति तर्हि आत्मा (शैलकुड्यादिभिः) तिरस्कृतम् अपि पश्यति। पूर्वदेहे कृतेन कर्मणा केनचित् एकेन मनसा सह आत्मनः नित्यानुबन्धः अस्ति।तस्मात् यद्यपि आत्मा सर्वयोनिगतः अस्ति तथापि एकयोनौ स्थितः अस्ति इति ज्ञातव्यम्।

आयुर्वेददीपिका
‘न पश्यति विभुः कस्मात्’ इत्यादि प्रश्नस्य उत्तरं वक्तुं प्रवृत्तो विभुत्वसाधकार्थगुणहेतुप्राप्त्या विभुत्वम् एव तावदात्मनः साधयति- विभुत्वम् इत्यादि। विभुत्वं सर्वगतपरिमाणयोगित्वम्। अतः एव इति उक्तसर्वगतत्वात्। एतद् एव स्पष्टार्थं साक्षाद्ब्रूते- यस्माद् इत्यादि।

अरुन्धतीपद्धतिः –
अग्निवेशस्य प्रश्नेषु ‘न पश्यति विभुः कस्मात्’ इति प्रश्नः आसीत्।तस्य उत्तरम् इदानीम् उच्यते। तत्र अपि ‘आत्मा विभुः अस्ति’ इति प्रथमं साधयति मुनिः।
विभुत्वं साधयति इति विभुत्वसाधकः।विभुत्वसाधकः अर्थः अस्ति यस्य तादृशः गुणः विभुत्वसाधकार्थगुणः।सः विभुत्वसाधकार्थगुणः एव हेतुः विभुत्वसाधकार्थगुणहेतुः।तस्य हेतोः प्राप्तिः प्रापणं योजनम् इति यावत्।
कः अयं हेतुः? ।सर्वगतत्वम् इति हेतुः।यस्मात् सर्वगतः, तस्मात् आत्मा विभुः इति आशयः। किं नाम सर्वगतत्वम्?सर्वगतत्वं सर्वत्रोपलभ्यमानत्वम्।यस्मात् आत्मा सर्वत्र उपलभ्यते, तस्मात् सः विभुः।
ननु किमर्थं मुनिना विभुत्वं साध्यते? नायं प्रश्नः अग्निवेशेन पृष्टः आसीत्।किञ्च, आत्मनः विभुत्वम् अभ्युपगम्य सः पृच्छति, ‘यदि आत्मा विभुः तर्हि सः शैलकुड्यतिरस्कृतं किमर्थं न पश्यति?’ इति।
प्रसङ्गतन्त्रयुक्त्या अस्य समाधानम् उच्यते।
प्रसङ्गो नाम पूर्वाभिहितस्यार्थस्य प्रकरणागतत्वादिना पुनरभिधानम्...।
आत्मनः विभुत्वं पूर्वम् अभिहितम् -
अव्यक्तमात्मा क्षेत्रज्ञः शाश्वतो विभुरव्ययः। च.शा.१.६१
प्रसङ्गात् इह पुनरुच्यते।प्रसङ्गः कः? विभुत्वम् आदाय अग्निवेशेन कृतः प्रश्नः एव प्रसङ्गः।
पुनरुक्तेः किं प्रयोजनम्?उच्यते। विभुत्वं तन्त्रान्तरेषु अपि प्रसिद्धम्।तत्र तु कालदिगाकाशादीनाम् अपि विभुत्वम् अङ्गीकृतम्।साङ्ख्यमते आकाशादीनाम् अपेक्षया आत्मनः विभुत्वम् उत्कृष्टम्।विभुत्वविषये एतं भेदं वक्तुकामः मुनिः प्रसङ्गम् आसाद्य स्वाभिमतं विभुत्वं साधयति।

आयुर्वेददीपिका
सर्वगतत्वं सर्वतः अपि उपलभ्यमानत्वेन सर्वगत-आकाशादिपरिमाणस्य अपि अस्ति, तेन तद्व्यवच्छेदार्थं ‘महान्’ इति पदं; तेन सर्वत्र उपलभ्यमानं महापरिमाणयोगिद्रव्यं विभुः उच्यते इति फलति।

अरुन्धतीपद्धतिः –
सूत्रे सर्वगतः इति अस्मात् पदात् अनन्तरं महान् इति एकम् आत्मविशेषणम् उक्तम्। तस्य अर्थम् अधुना चक्रपाणिः विवृणोति सर्वगतत्वं सर्वतोऽपि इत्यादिना।सर्वगतत्वम् इति विभुत्वस्य अर्थः तर्हि एषः धर्मः आकाशादिषु द्रव्येषु अपि अस्ति।आदिपदेन दिक्कालौ ग्राह्यौ। आकाशं सर्वगतं यतो हि तत् सर्वत्र उपलभ्यते।दिक् तथा कालः इति एतौ अपि सर्वगतौ, यतः तौ अपि सर्वत्र उपलभ्येते।आत्मा तेभ्यः भिन्नः अस्ति इति व्यवच्छेदः आवश्यकः। आकाशादयः महापरिमाणयोगिनः न सन्ति, आत्मा महापरिमाणयोगि अस्ति।अतः सूत्रे ‘महान्’ इति आत्मविशेषणं योजितम्।यत् द्रव्यं सर्वत्र उपलभ्यते तथा महापरिमाणयोगि अस्ति, स आत्मा इति वचनेन कालात्मदिशां व्यवच्छेदः सिद्ध्यति।
ननु आकाशादीनां महापरिमाणयोगित्वं नास्ति इति यदुच्यते तद् नोचितम्। आकाशं, कालः आत्मा तथ दिक् इति एतेषां सर्वेषां सर्वगतत्वम् अस्ति तथा महत्परिमाणयोगित्वम् अपि अस्ति।इदमत्र प्रमाणम्-
कालखात्मदिशां सर्वगतत्वं परमं महत्।– न्यायमुक्तावली प्रत्यक्षखण्डः २६
ब्रूमः।आकाशदिक्कालानां परममहत्परिमाणयोगित्वं न्यायवैशेषिकाभ्याम् अङ्गीकृतम, न तु साङ्ख्यैः।साङ्ख्यमते तु एतानि सर्वाणि द्रव्याणि विकृतयः।पुरुषः तु न प्रकृतिः न विकृतिः।तस्मात् परममहत्त्वपरिमाणम् आत्मनः सम्भवति, न तु आकाशदिक्कालानाम्।
अस्मिन् अध्याये सूत्रकारेण साङ्ख्यानां सरणिः आदृता, तस्मात् साङ्ख्यमतानुसारम् एव सूत्रार्थः करणीयः।अतः एतावता इदं साधितं यत् सर्वगतत्वे सति महत्त्वं नाम विभुत्वम्।तत् च पुरुषे विद्यते।सर्वगतत्वं कालदिगाकाशेषु विद्यते परं तेषु साङख्यमतेन महत्त्वं न विद्यते। यतो हि साङ्ख्यमते एताः विकृतयः।पुरुषः न प्रकृतिः न विकृतिः अतः तस्य महान् इति संज्ञा उचिता , कालदिगाकाशानाम्।

आयुर्वेददीपिका
विभुत्वं व्युत्पाद्य कुड्यादितिरोहितज्ञानं नैकान्तेन भवति इति दर्शयन् आह मनसः इत्यादि। समाधानं समाधिः। अनेन, योगिनः समाधिबलात् तिरोहितम् अपि पश्यन्ति इति दर्शयति। ये तु तिरोहितं न पश्यन्ति तत्र अपि उपपत्तिम् आह नित्येत्यादि। सर्वयोनिगतम् अपि आत्मानं मनसाऽनुबन्धगतम् एकयोनौ अववस्थितं विद्याद् इति योज्यम्। देहनिर्वर्तकेन कर्मणा अनुपातः आत्मनि सम्बन्धः यस्य, तेन मनसा देहकर्मानुपातिना। एतेन, यद्यपि आत्मा कुड्यादिभिः अतिरोहितः तथाऽपि यद् अस्य उपलब्धिसाधनं मनः तस्य एकस्मिन् एव शरीरे व्यवस्थितस्य व्यवधानात् न पश्यति अयं तिरस्कृतम् इति उक्तं भवति॥८०-८१॥

अरुन्धतीपद्धतिः –
आत्मा विभुः अस्तीति साधितम्। सः विभुः अपि शैलकुड्यतिरस्कृतं द्रव्यं द्रष्टुं कथं न शक्नोति इति प्रश्नस्य उत्तरम् अधुना उच्यते।
सः शैलकुड्यतिरस्कृतं द्रव्यं द्रष्टुं कथं न शक्नोति इति प्रश्नस्य उत्तरे मुनिः वदति ‘पश्यति आत्मा तिरस्कृतम्’ इति।एषा विसङ्गतिः परिहरणीया चेत् पूर्वपक्षतन्त्रयुक्तेः अवलम्बः करणीयः।
पूर्वपक्षो नाम प्रतिज्ञातार्थसन्दूषकं वाक्यम् ... ।च.सि.१२ चक्रपाणिः ।
‘आत्मा तिरस्कृतं द्रष्टुं न शक्नोति’ इति अग्निवेशस्य प्रतिज्ञा। तस्याः अर्थस्य सन्दूषकं मुनेः इदं वचनम्- ‘आत्मा तिरस्कृतं द्रष्टुं शक्नोति इति।नातः विसङ्गतिः काचिद् विद्यते प्रश्नोत्तरयोः।
परन्तु इदं च नः प्रत्यक्षं यद् ‘आत्मा तिरस्कृतं द्रष्टुं न शक्नोति’ इति।कथं मुनिः वदति ‘पश्यत्यात्मा तिरस्कृतम्’ इति? किञ्च अग्रे स्वयं मुनिना अपि तिरस्कृतस्य ज्ञानं किमर्थं न भवति इति उपपत्तिः उक्ता।मुनेः अभिप्रायः कथं ज्ञातव्यः?
अनेकान्ततन्त्रयुक्त्या अभिप्रायः ज्ञातव्यः।
अनेकान्तो नाम अन्यतरपक्षानवधारणम् ...
अत्रापि अन्यतरपक्षानवधारणं मुनेः अभिप्रेतम्।तिरस्कृतस्य ज्ञानं केषाञ्चिद् भवति केषाञ्चिद् न भवति इति अन्यतरपक्ष-अनवधारणम्।केषां भवति?योगिनां भवति।केषां न भवति? इतरेषां न भवति इति आशयः अभिप्रेतः।
विषयप्रत्यक्षे इन्द्रियार्थसन्निकर्षः कारणभूतः।स च न सम्भवति शैलकुड्यादितिरस्कृतविषयस्य ज्ञाने।अतः सामान्यजनस्य तादृशविषयज्ञानं न भवति।आत्मेन्द्रियमनोऽर्थानां सन्निकर्षाभावः अत्र ज्ञाने प्रतिबन्धकम्।
योगिनां योगबलात् शैलकुड्यादितिरस्कृतविषयस्य अपि ज्ञानं भवति। इन्द्रियार्थसन्निकर्षस्य अभावः अथवा मनसः एकस्मिन् शरीरे व्यवस्थितत्वम् इति तत्र प्रतिबन्धकं न भवति।
योगिनाम् अपि शैलकुड्यतिरस्कृतस्य विषयस्य ज्ञानं कथं सम्भवति?अस्य प्रश्नस्योत्तरं दत्तं ‘मनसः समाधानात्’ इति।
मनसः समाधिः सिद्ध्यति चेत् तिरस्कृतम् अपि द्रष्टुं शक्नोति पुरुषः।अत्र प्रमाणम् एतत् योगसूत्रम् –
भुवनज्ञानं सूर्ये संयमात्।- पा.यो.दर्शनम्३,२६
धारणा च ध्यानं च समाधिः च यदा एकत्र भवन्ति तदा संयमः इति तस्य संज्ञा भवति।अस्य संयमस्य आलम्बनं यदि सूर्यः अस्ति तर्हि सकलस्य भुवनस्य ज्ञानं भवति। अतिरस्कृतस्य तिरस्कृतस्य अपि ज्ञानं तदा भवति।एतत् च योगिनाम् एव सम्भवति, न अस्मदादीनाम्।

८२[सम्पाद्यताम्]

आदिर्नास्त्यात्मनः क्षेत्रपारम्पर्यमनादिकम्।अतस्तयोरनादित्वात् किं पूर्वमिति नोच्यते ॥८२॥

पदच्छेदः-
आदिः नास्ति आत्मनः क्षेत्रपारम्पर्यम् अनादिकम्।अतः तयोः अनादित्वात् किं पूर्वम् इति न उच्यते ॥८२॥

अन्वयः-
आत्मनः आदिः नास्ति। क्षेत्रपारम्पर्यम् अनादिकम् अस्ति।अतः तयोः (उभयोः) अनादित्वात् किं पूर्वम् इति न उच्यते ॥८२॥

सरलार्थः-
आत्मनः आरम्भः नास्ति।क्षेत्रपरम्परा अपि आदिरहिता अस्ति।क्षेत्रक्षेत्रज्ञौ उभौ अपि अनादी अतः प्रथमं किम् अनन्तरं किम् इति वक्तुं न शक्यते।

आयुर्वेददीपिका
‘क्षेत्रज्ञः क्षेत्रमथवा’ इत्यादि प्रश्नस्य उत्तरम् आदिः इत्यादि। क्षेत्रपारम्पर्यम् इति क्षेत्रस्य अव्यक्त-वर्जितस्य महदादि-त्रयोविंशतिकस्य परम्परासन्ततेः अनादित्वेन एव क्षेत्र-क्षेत्रज्ञयोः इदं प्रथमम् इति व्यपदेशः न एव भवति इति अर्थः।

अरुन्धतीपद्धतिः –
क्षेत्रं पूर्वम् अथवा क्षेत्रज्ञः पूर्वः इति अग्निवेशस्य प्रश्नः।क्षेत्र-क्षेत्रज्ञयोः कालकृते परापरत्वे के इति प्रश्नस्य स्वरूपम्।
ज्येष्ठे कालकृतं परत्वम्।कनिष्ठे कालकृतम् अपरत्वम्। -तर्कसङ्ग्रहः।
इति व्यवस्था वर्तते।एषा व्यवस्था कालकृता अस्ति अतः जन्यानां पदार्थानां विषये एव एषा सम्भवति,
‘जन्यानां कालोपाधित्वम्’
इति न्यायात्।
प्रकृते क्षेत्रपरम्परा अनादिः,अतः तस्यां कालोपाधित्वं नास्ति। क्षेत्रज्ञः अपि अनादिः, तस्मात् तस्य अपि कालोपाधित्वं नास्ति।अतः उभयोः पदार्थयोः क परः कः अपरः इति वक्तुं न शक्यते इति मुनेः उत्तरम्।
ननु अग्निवेशस्य प्रश्नः क्षेत्रविषये आसीत्।मुनिना क्षेत्रपरम्परा अनादिः इति कृत्वा उत्तरम् उच्यते।अर्थान्तरमिदम्।
अत्रोच्यते।क्षेत्रं सदैव परम्परापतितमेव भवति।पारम्पर्यशून्यं क्षेत्रं साङ्ख्यमते नाङ्गीक्रियते।अस्मिन् सर्गे यद् महदादिक्षेत्रं, तत् प्रधानाद् आविर्भूतं, न तु अपूर्वम् उत्पन्नम्। एतत् च क्षेत्रं पूर्वतने प्रलये प्रधाने विलीनम् आसीत्।तदेवाधुना व्यक्तदशां प्राप्तम्। पूर्वतनसर्गे यत् क्षेत्रं, तत् तत्पूर्वप्रलये लीनस्य क्षेत्रस्य व्यक्तरूपम्।एवमेव एषा अनादि: परम्परा।अतः नात्र अर्थान्तरदोषः शङ्कनीयः।

आयुर्वेददीपिका
ननु यदि क्षेत्रपरम्परा अपि अनादिः तदा तस्य आत्मवद् उच्छेदः न प्राप्नोति, यद् अनादि तद् नित्यं भवति, यथा आत्मा इति दृष्टम्?

अरुन्धतीपद्धतिः –
‘क्षेत्रपरम्परा अनादिः’ इत्युक्ते सति अपरः सन्देहः उद्भवति।तं सन्देहम् उपस्थापयति चक्रपाणिः ननु यदि इत्यादिना।सन्देहकारस्य आशयः एवम्-
क्षेत्रपरम्परा यदि अनादिः तर्हि तस्याः नाशः न स्यात्।यदि तस्याः नाशः नास्ति तर्हि मोक्षः अपि न स्यात्।एवं तर्केण अनिर्मोक्षप्रसङ्गः प्राप्तः।श्रुतिस्तु मोक्षं प्रतिपादयति।एवं प्रमाणद्वयविरोधः सन्देहस्य बीजम्।
क्षेत्रपरम्परायाः नाशः न सम्भवति इत्यत्र तर्कः सन्देहकारेण एवमुक्तः –
क्षेत्रपरम्परा नित्या
अनादित्वात्
यद् यद् अनादि, तत् तद् नित्यं यथा आत्मा
क्षेत्रपरम्परा अपि अनादिः
तस्मात् नित्या।
इत्थं सन्देहकारेण आदौ अनादित्वहेतुना क्षेत्रपरम्परायाः नित्यत्वं साधितम्। अनन्तरम् अनुमानसिद्धः अनिर्मोक्षप्रसङ्गः, तथा आगमोक्तः मोक्षः इति अनयोः विरोधः प्रदर्शितः।एषः विरोधः एव सन्देहस्य कारणम्।

आयुर्वेददीपिका
ब्रूमः। अनादित्वे अपि यत् स्वरूपेण एव अनादि, तद् न उच्छिद्यते, यथा- आत्मा; यत् तु उच्छित्ति-धर्मकं बुद्ध्यादि, तद् उच्छिद्यते एव; सन्तानः तु परमार्थतः सन्तानिभ्यः अतिरिक्तः नास्ति एव, यद् अनादिः स्यात्; तेन, सन्तानस्य अनादित्वं भाक्तम् एव। किञ्च एवम्भूतस्य बुद्ध्यादि-सन्तानस्य उच्छेदे मोक्षप्रतिपादकः आगमः एव प्रमाणत्वेन ज्ञेयः॥८२॥

अरुन्धतीपद्धतिः –
अस्य सन्देहस्य उत्तरं ब्रूते चक्रपाणिः अनादित्वे अपि इत्यादिना। आत्मनः अनादित्वं तथा बुद्ध्यादीनां त्रयोविंशतितत्त्वानाम् अनादित्वम् इति एतयोः भेदं दर्शयति सः।आत्मनः अनादित्वं स्वरूपभूतम्।बुद्ध्यादीनाम् अनादित्वं तु प्रवाहरूपेण, न तु स्वरूपभूतम्।प्रकृतेर्महान् ततोऽहङ्कारः इत्यादीना वचनेन बुद्ध्यादीनां सादित्वम् उक्तम्।अतः तानि तत्त्वानि उच्छिद्यन्ते अपि।उच्छिद्यन्ते अतः उच्छित्तिधर्मकाणि तानि तत्त्वानि।
बुद्ध्यादि-तत्त्वानां महदादिभ्यः उत्पत्तिः उक्ता, अतः तानि तत्त्वानि पृथक् पृथक् सादीनि भवन्तु नाम।बुद्ध्यादिसन्तानः तु अनादिः अस्ति न वा ?बुद्ध्यादिसन्तानः अनादिः अस्ति चेत् यद् अनादि तद् नित्यम् इति व्याप्त्या पूर्ववत् सन्तानस्य नित्यत्वम् आपतितम्।तदा अपि अनिर्मोक्षप्रसङ्गः अस्ति एव।
अस्योत्तरं वदति चक्रपाणिः सन्तानस्तु इत्यादिना।बुद्ध्यादिसन्तानः अपि सादिः एव । कथम्? बुद्ध्यादय़ः पदार्थाः पृथक पृथक् विचारिताः चेत् ते सन्तानिनः।तेषां क्रमोत्पादः विचारितः चेत् ते एव सन्तानरूपाः।अतः सन्तानः इति सन्तानिभ्यः अतिरिक्तः कश्चिद् भिन्नः पदार्थः न।बुद्ध्यादीनां सन्तानिनां यदि आदिः अस्ति तर्हि बुद्ध्यादि-सन्तानस्य अपि आदिः अस्ति एव।तस्मात् बुद्ध्यादिसन्तानः सादिः।
एवं चेत् ‘क्षेत्रपारम्पर्यम् अनादिकम्’ इति बुद्ध्यादिसन्तानस्य अनादित्वं मुनिना कथम् उक्तम्? तस्य उत्तरं वदति चक्रपाणिः तेनेति।सन्तानस्य अनादित्वं यद् मुनिना उक्तं, तद् भाक्तम् अस्ति। भाक्तम् इत्युक्ते औपचारिकं, गौणम्।आत्मनः अनादित्वं यथा मुख्यभूतं तथा एतद् बुद्ध्यादीनाम् अनादित्वं न।
भवतु नाम गौणम् अनादित्वं बुद्ध्यादिसन्तानस्य।तथा अपि यद् अनादि तद् नित्यम् इति व्याप्त्या तस्य नित्यत्वं भवति एव।तत् कथं निवार्यते?तद् न निवार्यते चेद् अनिर्मोक्षप्रसङ्गः।
तत्र चक्रपाणिः ब्रूते किञ्चेत्यादिना।‘बुद्ध्यादिसन्तानः नित्यः’ इति अनुमानेन साध्यते। मोक्षप्रतिपादकेन आगमेन तु ‘सः अनित्यः’ इति सिद्ध्यति।अनुमानस्य अपेक्षया आगमः प्रबलं प्रमाणम्।अतः अनुमानम् इदम् आगमेन बाधितम्।तस्मात् अनादिः अपि बुदध्यादिसन्तानः न नित्यः।
यदि बुद्ध्यादिसन्तानस्य नित्यत्वम् अनादित्वात् साधयद् अनुमानं प्रबलेन मोक्ष-प्रतिपादकागमेन बाध्यते, तर्हि एतद् अनादित्वं मुख्यं वा भाक्तं वेति चर्चा निष्प्रयोजना आसीत्।बुद्ध्यादीनाम् अनादित्वं मुख्यम् अभविष्यत् चेदपि, ततः अनुमानेन साधितं नित्यत्वं प्रबलेन आगमेन बाधितं स्याद् एव।
सत्यमेतत्।तथापि बुद्ध्यादीनाम् अनादित्वं मुख्यं वा भाक्तं वेति चर्चा निष्प्रयोजना नास्ति।आत्मा अनादिः। बुद्ध्यादिसन्तानः अपि अनादिः।तथापि तयोः अनादित्वं समानं नास्ति।आत्मनः अनादित्वं स्वरूपभूतम् अतः मुख्यम्।बुद्ध्यादिसन्तानस्य अनादित्वं प्रवाहरूपम् अतः भाक्तम् इति अनया चर्चया एव स्पष्टीकृतम्।अनादित्वयोः एतं भेदम् उद्घाटयितुमेव टीकाकारेण अयं प्रपञ्चः कृतः।

८३[सम्पाद्यताम्]

ज्ञः साक्षीत्युच्यते नाज्ञः साक्षी त्वात्मा यतः स्मृतः।सर्वे भावा हि सर्वेषां भूतानामात्मसाक्षिकाः॥८३॥

पदच्छेदः-
ज्ञः साक्षी इति उच्यते न अज्ञः साक्षी तु आत्मा यतः स्मृतः।सर्वे भावाः हि सर्वेषां भूतानाम् आत्मसाक्षिकाः॥८३॥

अन्वयः-
यतः ज्ञः साक्षी इति उच्यते न तु अज्ञः (अतः) आत्मा साक्षी स्मृतः। हि सर्वेषां भूतानां सर्वे भावाः आत्मसाक्षिकाः सन्ति॥८३॥

सरलार्थः-
लोके यः ज्ञाता, सः एव साक्षी इति उच्यते।अज्ञः कदापि साक्षी इति न उच्यते।अतः आत्मा साक्षी इति स्वीकृतः।यतो हि सर्वेषां भूतानां सर्वे भावाः आत्मना एव ज्ञायन्ते, न अन्येन।८३

आयुर्वेददीपिका
‘साक्षिभूतश्च कस्यायम्’ इत्यस्य उत्तरं ज्ञः इत्यादि। ज्ञः ज्ञानवान् साक्षी इति लोके कथ्यते, न तु अज्ञः पाषाणादिः। तेन, ज्ञत्वेन असति अपि अन्यस्मिन् कर्तरि साक्षी इति उच्यते इति वाक्यार्थः। सर्वेषाम् इति खादिभूतानाम्।सर्वे भावाः इति सर्वे भूतधर्माः दर्शनयोग्याः। आत्मसाक्षिकाः इति आत्मोपलभ्यमानाः॥८३॥

अरुन्धतीपद्धतिः –
अस्य प्रश्नस्य बीजं पूर्वं (च.शा.१.१०) प्रश्नावतारकाले प्रदर्शितम्।प्रश्नस्य उत्तरम् एवं यत् साक्षित्वं चेतनस्य एव सम्भवति, न जडस्य।परन्तु आत्मव्यतिरिक्तः कोऽपि पदार्थः चेतनः नास्ति। अतः यद्यपि ‘बोद्धृत्वे सति अकर्तृत्वम्’ इति साक्षिलक्षणं, तथापि अनन्यगत्या कर्ता सन् अपि आत्मा ‘साक्षी’ इति उच्यते।
ननु कुतः इयमगतिः?आत्मा साक्षित्वेन अभिमतः चेत् प्रपञ्चकर्तृत्वम् महदादेः अन्यस्य कस्यचित् भवतु इति चेत्, न। जडस्य यथा बोद्धृत्वं न घटते तथा कर्तृत्वम् अपि न घटते।अतः आत्मा एव कर्ता। स एव बोद्धा।

८४-८५[सम्पाद्यताम्]

नैकः कदाचिद्भूतात्मा लक्षणैरुपलभ्यते।विशेषोऽनुपलभ्यस्य तस्य नैकस्य विद्यते॥८४॥
संयोगपुरुषस्येष्टो विशेषो वेदनाकृतः।वेदना यत्र नियता विशेषस्तत्र तत्कृतः॥८५॥

पदच्छेदः-
न एकः कदाचिद् भूतात्मा लक्षणैः उपलभ्यते। विशेषः अनुपलभ्यस्य तस्य न एकस्य विद्यते॥८४॥
संयोगपुरुषस्य इष्टः विशेषः वेदनाकृतः।वेदना यत्र नियता विशेषः तत्र तत्कृतः॥८५॥

अन्वयः-
एकः भूतात्मा कदाचिद् (कदापि) लक्षणैः न उपलभ्यते।अनुपलभ्यस्य तस्य एकस्य विशेषः न विद्यते॥८४॥संयोगपुरुषस्य वेदनाकृतः विशेषः इष्टः ।यत्र वेदना नियता तत्र तत्कृतः विशेषः ॥८५॥

सरलार्थः-
भूतात्मा कदापि प्राणापानादिलिङ्गैः रहितः एकः न उपलभ्यते। प्राणापानादिलिङ्गैः एव सः उपलभ्यते।लक्षणरहितस्य अतः अनुपलभ्यस्य तस्य एकस्य कोऽपि विशेषः न अस्ति।

आयुर्वेददीपिका
‘स्यात् कथं चाविकारस्य’ इत्यादिप्रश्नस्य उत्तरं- नैक इत्यादि। अविकारस्य परमात्मनः वेदनाकृतः विशेषः नास्ति एव, यत्र तु वेदनाकृतः विशेषः, स राशिरूपः परमात्मव्यतिरिक्तः एव इति वाक्यार्थः। भूतानाम् अधिष्ठाता आत्मा भूतात्मा, अयं भूतात्मा एकः भूतव्यतिरिक्तः न लक्षणैः प्राणापानादिभिः उक्तैः उपलभ्यते। कुतः न उपलभ्यते इति आह- विशेषः इत्यादि। एकस्य भूतरहितस्य; यद् आत्मनः विशेषः वेदनादिः न उपलभ्यते एव, तेन अनुपलब्धिः एव अत्र प्रमाणम् इति अर्थः।

अरुन्धतीपद्धतिः –
प्रकृते विकाराः महदादयः।अविद्यमानाः विकाराः यस्य सः अविकारः। महदादिभिः संसर्गरहितः इत्यर्थः।अतः एकः इत्यपि उच्यते।
लक्षणानि प्राणापानादीनि।
वेदनाकृतः विशेषः इत्युक्ते सुखम् अथवा दुःखम् ।सुखदुःखरूपः वेदनाविशेषः लक्षणान्तर्गतः इति अतीतावेक्षया ज्ञायते -
इच्छा द्वेषः सुखं दुःखं प्रयत्नश्चेतना धृतिः।बुद्धिः स्मृतिरहङ्कारो लिङ्गानि परमात्मनः॥च.शा.१.७२॥
उपलब्धिः इति ज्ञानम्।
बुद्धिरुपलब्धिर्ज्ञानम् इति अनर्थान्तरम्।- न्यायदर्शनम्१.९.१५
तस्मात् ‘न ज्ञायते’ इति नोपलभ्यते इत्यस्य अर्थः ।
लक्षणैः इति तृतीयान्तं पदम्।अत्र साहित्यम् इति तृतीयार्थः ग्राह्यः। ‘पुत्रेण आगतः पिता’ इत्यत्र पुत्रेण इति पदे तृतीया विभक्तिः विद्यते।अतः पुत्रागमनसहित-आगमनकर्ता पिता इति अर्थः गृह्यते।अत्रापि तथैव अर्थः कार्यः।
न एकः कदाचिद् भूतात्मा लक्षणैः उपलभ्यते
इत्यस्य वचनस्य अर्थः एवम् -
एकः आत्मा इत्युक्ते अविकारः पुरुषः।तादृशः अविकारः पुरुषः प्राणापानादिभिः लक्षणैः सह कदापि न ज्ञायते।
न ज्ञायते अतः न विद्यते।अनुपलब्धिप्रमाणेन जाता एषा प्रमा।स्फीतालोकयुते भूतले चक्षुष्मतः पुरुषस्य यदि ‘घटज्ञानं न’ भवति, तर्हि ‘भूतले घटः नास्ति’ इति तस्य प्रमा जायते।तथैवात्र।‘अविकारे पुरुषे लक्षणानि न ज्ञायन्ते’, ‘अतः अविकारे पुरुषे लक्षणानि न सन्ति’ इति प्रमा जायते।
एवम् अविकारे पुरुषे लक्षणानाम् अभावः प्रमितः। अग्नवेशस्य प्रश्नः तु वेदनाकृतविशेषसम्बद्धः अस्ति।अविकारे पुरुषे वेदनाकृतः विशेषः कथं विद्यते इति तस्य प्रश्नः। वेदनाकृतः विशेषः सुखदुःखस्वरूपः।तस्य अपि अभावः अधुना साध्यते।
विशेषः अनुपलभ्यस्य तस्य न एकस्य विद्यते॥८४॥

आयुर्वेददीपिका
संयोगपुरुषः चतुर्विंशतिकः। ननु एवम् अपि चतुर्विंशति-अन्तर्निविष्टस्य भूतात्मनः अपि वेदनाकृतविशेषेण भवितव्यं, यतः समुदायधर्मः समुदायिनाम् एव भवति, यथा- माषराशेः गुरुत्वं प्रत्येकं माषाणाम् एव गौरवेण भवति इति आह- वेदनेत्यादि। वेदना सुखदुःखरूपा। यत्र बुद्ध्यादिसमूहे नियता व्यवस्थिता वेदना, तत्र एव तत्कृतो दैन्यहर्षादिविशेषः अपि नियतः; तत्र एव बुद्ध्यादिराशौ वर्तते न आत्मनि इति भावः। बुद्ध्यादिगतेन गुणत्रयपरिणामरूपेण सुखदुःखादिना असुखदुःखः एव आत्मा तत्सम्बन्धात् सुखदुःखादिमान् भवति॥८४-८५॥

अरुन्धतीपद्धतिः –
सुखं तथा दुःखम् इति वेदनाविशेषः। लक्षणेषु एव पूर्वं एषः वेदनाविशेषः गणितः।तस्मात् यदि अविकारे पुरुषे लक्षणानाम् अभावः सिद्धः तर्हि सुखदुःखरूपस्य वेदनाविशेषस्य अभावः अपि सिद्धः एव।
यदि आत्मनः सुखदुःखरूपो विशेषः न विद्यते तर्हि सः विशेषः विद्यते कुत्र? किञ्च स्वयमेव मुनिना
‘… लिङ्गानि परमात्मनः’ (च.शा.१.७२)
इति यानि परमात्मलिङ्गानि गणितानि, तेषु वेदनाकृतविशेषस्य सुखदुःखरूपस्य अन्तर्भावः दृश्यते।
अस्य उत्तरमुच्यते संयोगपुरुषस्येष्टः इति सूत्रे।चतुर्विंशतिकपुरुषे सुखदुःखे विद्येते।एतानि लिङ्गानि परमात्मनः इति यदुक्तं तत्रापि परमात्मशब्देन संयोगपुरुषः एव विवक्षितः, न तु विकाररहितः एकः पुरुषः।
एवं चेत् पुनरपि प्रश्नः उत्पद्यते ।यदि सुखं दुःखं च संयोगपुरुषस्य धर्मौ तर्हि संयोगपुरुषान्तर्गतस्य आत्मनः अपि तौ धर्मौ भवतः एव।यतो हि कारणगुणाः कार्यगुणान् आरभन्ते।समुदायिनः कारणम्।समुदायः कार्यम्।यथा प्रत्येकं माषकणे गुरुत्वम् अस्ति अतः माषराशौ गुरुत्वं भवति।माषराशेः गुरुत्वं प्रत्येकं माषकणस्य गुरुत्वेन एव आरब्धम्।
संयोगपुरुषः अपि समुदायरूपः।तस्य ये धर्माः, ते समुदायिषु अपि सन्ति इति अभ्युपगन्तव्यम्।तथा सति एकस्य आत्मनः लक्षणानि न सम्भवन्ति इति प्रतिज्ञा बाध्यते।
अत्रोत्तरम् उच्यते।सजातीयसमुदायिजन्यसमुदायस्य धर्माः समुदायिनां धर्माः एव इति वक्तुं युज्यते।यथा माषाः सर्वे माषत्वजातीयाः।तेषां समुदायस्य धर्माः प्रत्येकं माषकणे सन्ति। विजातीयसमुदायिजन्यसमुदायस्य धर्माः सर्वेषां समुदायिनां धर्माः इति वक्तुं न शक्यते। सुरभिजलम् इति जलपृथिव्योः समुदायः।अत्र जलं पृथिवी च समुदायिनौ।समुदायेऽस्मिन् भासमानः सुरभिगन्धः पृथिव्यामेव वर्तते।न तु पृथिवीजलोभययोः।
संयोगपुरुषः अपि चेतनस्य आत्मनः तथा जडानां बुद्ध्यादीनां च समूहः।अतः विजातीयसमुदायिजन्यसमुदायः सः।तत्र सुखदुःखरूपो वेदनाविशेषः तु बुद्ध्यादिसमुदाये नियतः।अतः सः आत्मधर्मः न भवति।

८६-९४[सम्पाद्यताम्]

चिकित्सति भिषक् सर्वास्त्रिकाला वेदना इति।यया युक्त्या वदन्त्येके सा युक्तिरुपधार्यताम्॥८६॥
पुनस्तच्छिरसः शूलं ज्वरः स पुनरागतः। पुनः स कासो बलवांश्छर्दिः सा पुनरागता॥८७॥
एभिः प्रसिद्धवचनैरतीतागमनं मतम्।कालश्चायमतीतानामर्तीनां पुनरागतः॥८८॥
तमर्तिकालमुद्दिश्य भेषजं यत् प्रयुज्यते। अतीतानां प्रशमनं वेदनानां तदुच्यते॥८९॥
आपस्ताः पुनरागुर्मा याभिः शस्यं पुरा हतम्। यथा प्रक्रियते सेतुः प्रतिकर्म तथाऽऽश्रये॥९०॥
पूर्वरूपं विकाराणां दृष्ट्वा प्रादुर्भविष्यताम्।या क्रिया क्रियते सा च वेदनां हन्त्यनागताम्॥९१॥
पारम्पर्यानबन्धस्तु दुःखानां विनिवर्तते। सुखहेतूपचारेण सुखं चापि प्रवर्तते॥९२॥
न समा यान्ति वैषम्यं विषमाः समतां न च। हेतुभिः सदृशा नित्यं जायन्ते देहधातवः॥९३॥
युक्तिमेतां पुरस्कृत्य त्रिकालां वेदनां भिषक्। हन्तीत्युक्तं चिकित्सा तु नैष्ठिकी या विनोपधाम्॥९४॥

पदच्छेदः-
चिकित्सति भिषक् सर्वाः त्रिकालाः वेदनाः इति।यया युक्त्या वदन्ति एके सा युक्तिः उपधार्यताम्॥८६॥
पुनः तत् शिरसः शूलं ज्वरः सः पुनः आगतः। पुनः सः कासः बलवान् छर्दिः सा पुनरः आगता॥८७॥|
एभिः प्रसिद्धवचनैः अतीत-आगमनं मतम्। कालः च अयम् अतीतानाम् अर्तीनां पुनः आगतः॥८८॥
तम् अर्तिकालम् उद्दिश्य भेषजं यत् प्रयुज्यते। अतीतानां प्रशमनं वेदनानां तद् उच्यते॥८९॥
आपः ताः पुनः आगुः मा याभिः शस्यं पुरा हतम्। यथा प्रक्रियते सेतुः प्रतिकर्म तथा आश्रये॥९०॥
पूर्वरूपं विकाराणां दृष्ट्वा प्रादुर्भविष्यताम्। या क्रिया क्रियते सा च वेदनां हन्ति अनागताम्॥९१॥
पारम्पर्यानुबन्धः तु दुःखानां विनिवर्तते। सुखहेतु-उपचारेण सुखं च अपि प्रवर्तते॥९२॥
न समाः यान्ति वैषम्यं विषमाः समतां न च। हेतुभिः सदृशा नित्यं जायन्ते देहधातवः॥९३॥
युक्तिम् एतां पुरस्कृत्य त्रिकालां वेदनां भिषक्। हन्ति इति उक्तं चिकित्सा तु नैष्ठिकी या विना उपधाम्॥९४॥

अन्वयः-
भिषक् सर्वाः त्रिकालाः वेदनाः चिकित्सति इति एके यया युक्त्या वदन्ति, सा युक्तिः उपधार्यताम्॥८६॥ तत् शिरसः शूलं पुनः (आगतम्), सः ज्वरः पुनः आगतः, पुनः सः बलवान् कासः (आगतः),सा छर्दिः पुनर् आगता॥८७॥|एभिः प्रसिद्धवचनैः अतीत-आगमनं मतम्। अतीतानाम् अर्तीनां कालः च अयम् पुनः आगतः ॥८८॥तम् अर्तिकालम् उद्दिश्य यत् भेषजं प्रयुज्यते, तद् अतीतानां वेदनानां प्रशमनम् उच्यते॥८९॥ याभिः पुरा शस्यं हतं, ताः आपः पुनः मा आगुः (इति) यथा सेतुः प्रक्रियते तथा आश्रये प्रतिकर्म (क्रियते)॥९०॥ प्रादुर्भविष्यतां विकाराणां पूर्वरूपं दृष्ट्वा या क्रिया क्रियते सा च अनागतां वेदनां हन्ति ॥९१॥सुखहेतु-उपचारेण दुःखानां पारम्पर्यानुबन्धः तु विनिवर्तते,सुखं च अपि प्रवर्तते॥९२॥ देहधातवः समाः वैषम्यं न यान्ति , विषमाः च समतां न (यान्ति)। देहधातवः नित्यं हेतुभिः सदृशा जायन्ते ॥९३॥ एतां युक्तिम् पुरस्कृत्य भिषक् त्रिकालां वेदनां हन्ति इति उक्तम्। या तु उपधां विना (सा) नैष्ठिकी चिकित्सा ॥९४॥

सरलार्थः-
वैद्यः भूते वर्तमाने भविष्यति च काले विद्यमानाः सर्वाः वेदनाः चिकित्सति इति केचन वदन्ति। तत्र तेषां या उपपत्तिः तां शृणु॥८६सा पूर्वतनी शिरोवेदना पुनः आगता, सः पूर्वतनः ज्वरः पुनः आगतः, सः बलवान् कासरोगः पुनः आगतः, सा पुरातनी छर्दिः पुनः आगता इति वचनानि जनेषु प्रसिद्धानि।॥८७॥|एतादृशैः प्रसिद्धैः वचनैः अतीतानां व्याधीनाम् आगमनं जनैः अनुमन्यते।गतवेदनानां कालः पुनः आगतः इति जनाः वदन्ति।॥८८॥तं वेदनाकालम् मनसि कृत्वा यद् औषधम् उपयुज्यते, सा अतीतवेदनायाः चिकित्सा इति उच्यते।॥८९॥येन जलप्रवाहेण पूर्वं शस्यं नाशितं सः जलप्रावाहः पुनः न आगच्छेद् इति एतदर्थं सेतुः निबध्यते।तथा एव शरीरे पुरा यया वेदनया स्वास्थ्यं नाशितं, सा वेदना पुनः न भवेत् इति एतदर्थं चिकित्सा क्रियते॥९०॥अग्रे ये व्याधयः व्यक्ताः भविष्यन्ति, तेषां पूर्वरूपं दृष्ट्वा या चिकित्सा क्रियते, सा अनागतवेदनाः नाशयति।॥९१॥स्वास्थ्यरूपस्य सुखस्य हेतुः उपचारः।तेन दुःखानां सन्तानः नश्यति तथा सुखं प्रवर्तते।॥९२॥ये देहधातवः समाः ते कदापि वैषम्यं प्रति न गच्छन्ति।ये च देहधातवः विषमाः, ते समतां प्रति न गच्छन्ति।देहधातवः नित्यं हेतुसदृशाः एव जायन्ते॥९३॥एतं विचारं कृत्वा ‘वैद्यः त्रिकालां वेदनां हन्ति’ इति कथितम्।या चिकित्सा तृष्णां विना भवति, सा मोक्षोपकारिणी चिकित्सा ॥९४॥

आयुर्वेददीपिका
‘अथवा आर्तस्य’ इत्यादिप्रश्नस्य उत्तरम् आह- चिकित्सतीत्यादि। अतीतवेदनाचिकित्सा न मुख्या, किन्तु लोकप्रसिद्धोपचारेण उच्यत इति वाक्यार्थः। प्रसिद्धवचनैः इति लोकप्रसिद्धवचनैः। प्रतिकर्म चिकित्सा। आश्रये इति शरीरे। पूर्वरूपम् इत्यादिना अनागतवेदनाचिकित्सां समर्थयति। पूर्वरूपं यद्यपि भविष्यताम् एव भवति रोगाणां, तथा अपि भविष्यताम् इति पदेन भूते अपि व्याधौ यानि रूपाणि भवन्ति तानि निराकरोति। उक्तं हि- “प्राक्सन्तापात्, अपि चैनं सन्तापार्तम् अनुबध्नन्ति” (नि. अ. १) इति अनेन रोगावस्थायाम् अपि पूर्वरूपसद्भावः। एवम् अतीत-अनागत-वेदनाचिकित्सा व्युत्पादिता। वर्तमानचिकित्साम् अपि दर्शयन् पारमार्थिकं मतमाह- पारम्पर्येत्यादि। पारम्पर्य-अनुबन्धः सन्तान-न्यायेन अनुबन्धः। दुःखानाम् इति रोगाणाम्। सुखहेतु-उपचारेण इति आरोग्यहेतुचिकित्सासेवया। सुखम् इति आरोग्यम्। एवं मन्यते- यदा चिकित्सा सुखहेतुः सेव्यते तदा दुःखहेतुसेवा-अभावात् दुखं न उत्पद्यते, उत्पन्नं च दुःखं रोगरूपं क्षणभङ्गित्वेन स्वयम् एव नश्यति, सुखहेतुसान्निध्यात् सुखम् आरोग्यम् उत्पद्यते; तेन चिकित्सया अनागतं दुःखं हेतुप्रतिबन्धात् निरुध्यते, सुखं च जन्यते इति सिद्धान्तः । एतद् एव आह- न समाः इत्यादि। समाः च विषमाः च क्षणभङ्गित्वस्वभावात् न वैषम्यावस्थां साम्यावस्थां वा यान्ति इति अर्थः। हेतुभिः सदृशाः इति समहेतोः समाः, तथा विषमहेतोः च विषमाः। एतत् चिकित्साप्राभृतीये अध्याये प्रपञ्चितम् एव। चिकित्साप्रस्तावेन सकलदुःखहारिणीं चिकित्सां मोक्षफलाम् आह- चिकित्सा तु इत्यादि। निष्ठा अत्यन्तदुःखमोक्षः मोक्षरूपः, तदर्थं भूता नैष्ठिकी। विना उपधाम् इति तृष्णां विना, तृष्णाशून्या प्रवृत्तिः मोक्षफला भवति इति अर्थः॥८६-९४॥

अरुन्धतीपद्धतिः –
वैद्यः त्रिकालां वेदनां कथं चिकित्सति इति प्रश्नस्य उत्तरम् आरभ्यते।‘चिकित्सति’ इत्यतः आरभ्य ‘उपधार्यताम्’ इति यावत् उत्तरस्य प्रस्तावः।
‘पुनस्तत् शिरसः शूलम्’ इति एतस्माद् आरभ्य ‘तथाश्रये’ इति यावत् अतीतवेदनाचिकित्सा समर्थिता।
‘पूर्वरूपं विकाराणाम्’ इति आरभ्य ‘हन्ति अनागताम्’ इति एतत्पर्यन्तम् अनागतवेदनाचिकित्सा उच्यते।
‘पारम्पर्यानुबन्धः’ इति अस्मात् आरभ्य ‘जायन्ते देहधातवः’ इति यावत् वर्तमानवेदनानां चिकित्सा वर्णिता।
‘युक्तिमेताम्’ इति आरभ्या ‘इति उक्तं’ इति एतावत्पर्यन्तम् ‘त्रिकालवेदनाचिकित्सा’ इति अस्य विषयस्य उपसंहारः कृतः।
‘चिकित्सा तु’ इत्यतः ‘विनोपधाम्’ इति अयमंशः आगामिविषयोपन्यासपरः।
प्रादुर्भविष्यतां विकाराणां पूर्वरूपं दृष्ट्वा या क्रिया क्रियते सा च अनागतां वेदनां हन्ति इति सूत्रम्।प्रादुर्भविष्यतां विकाराणां पूर्वरूपम् इति प्रयोगः अत्र विद्यते।तद्विषये सन्देहम् उत्थापयति चक्रपाणिः ‘पूर्वरूपं यद्यपि’ इति वचनेन। तस्य समाधानम् अपि वदति ‘तथापि’ इत्यादिवचनेन।
सन्देहः एवम्।पूर्वरूपं सदा भाविरोगाणाम् एव भवति।तथापि सूत्रे भविष्यताम् इति रोगस्य विशेषणं किमर्थम्? अनेन पुनरुक्तदोषः भवति।
तस्य उत्तरम् एवम्।
विकाराणां पूर्वरूपं दृष्ट्वा या क्रिया क्रियते सा च अनागतां वेदनां हन्ति
एतावन्मात्रे उक्ते अतिव्याप्तिदोषः भवति। अनागतवेदनाचिकित्सायाः परिचायकम् इदं वचनम्।तद् वर्तमानवेदनाचिकित्सायाम् अतिव्याप्तं भवति। यतो हि पूर्वरूपं क्वचिद् व्याधेः व्यक्तिदशायाम् अपि अनुवर्तते।तदर्थं प्रमाणत्वेन निदानस्थानस्थं वचनमुक्तं ‘प्राक्सन्तापाद्’ इति।तेन पूर्वरूपाणि भविष्यतः रोगस्य भवन्ति तथा वर्तमानस्य रोगस्य अपि सम्भवन्ति। एताम् अतिव्याप्तिं परिहर्तुं प्रादुर्भविष्यताम् इति विशेषणं सूत्रे दत्तम्।अनेन विशेषणेन वर्तमानव्याधेः वेदनानां व्यावृत्तिः भवति। अनागतवेदनायाः चिकित्सा इति प्रकरणस्य विषयः।तत्र एषा वर्तमानवेदनाव्यावृत्तिः अपेक्षिता एव।
वर्तमानवेदनां वैद्यः चिकित्सति इति तु लोकप्रसिद्धम्।अतः तद्विषये व्यावहारिकम् उदाहरणं न वदति ग्रन्थकारः। चिकित्साप्राभृतीयाध्याये कृतं विवरणमेव पुनः अत्र तनोति प्रसङ्गतन्त्रयुक्त्या।
ननु क्षणभङ्गवादः पूर्वं (च.शा.१.४६,४७,४८) इत्यत्र मुनिना दूषितः।अत्र पुनः चक्रपाणिः कथं वदति- ‘उत्पन्नं च दुःखं रोगरूपं क्षणभङ्गित्वेन स्वयम् एव नश्यति’ इति?
ब्रूमः क्षणभङ्गिवादे सर्वं क्षणिकम् अभ्युपगतम्।‘सर्वम्’ इति अनेन पदेन देहादिसङ्घातः अपि क्षणिकः, आत्मा अपि क्षणिकः इति क्षणभङ्गवादिनः अङ्गीकुर्वन्ति।अत्र देहादिसङ्घातस्य क्षणिकत्वम् आयुर्वेदशास्त्रे अपि अनुमतम् एव।आत्मनः क्षणिकत्वं तावद् आयुर्वेदे न अङ्गीक्रियते।एतावति अंशे उभयोः मतयोः विरोधः, न सर्वशः।
अत्र ‘क्षणभङ्गित्वेन नश्यति’ इति चक्रपाणिः यद्विषये वदति, सः दुःखरूपः पदार्थः , न तु आत्मा।अतः न कापि विप्रतिपत्तिः उभयवचनयोः।
यथा योगमतविषये वेदान्तस्य ‘अर्थैकदेशसम्प्रतिपत्तौ अपि अर्थैकदेश-असम्प्रतिपत्तिः’ प्रदर्शिता श्रीशङ्काराचार्येण (ब्र.सू.भाष्यम्२.१.३) तथैव एषा क्षणभङ्गवादविषये आयुर्वेदस्य अर्थैकदेशसम्प्रतिपत्तौ अपि अर्थैकदेश-असम्प्रतिपत्तिः मन्तव्या।
त्रिकालवेदनाचिकित्सायाः इदं प्रकरणम्।तत्र प्रसङ्गम् उपलभ्य सकलवेदनानां चिकित्सा मुनिना उपन्यस्ता।सकलवेदनाभ्यः मुक्तिः इत्युक्ते मोक्षः,निष्ठा इति।तदर्थं या चिकित्सा, सा नैष्ठिकी चिकित्सा।सा कीदृशी भवति? सर्वेषु कर्मसु तृष्णाशून्या प्रवृत्तिः नैष्ठीकी चिकित्सा भवति। तया सकलवेदनोपरमः भवति।

च.शा.०६६-०७६  चरकसंहिता-आयुर्वेददीपिकयोः अरुन्धती-पद्धतिः      च.शा.१.०९५-१०९
"https://sa.wikibooks.org/w/index.php?title=च.शा.१.०७७-०९४&oldid=6392" इत्यस्माद् पुनः प्राप्तिः