च.शा.१.०९५-१०९
०९५-०९७
[सम्पाद्यताम्] उपधा हि परो हेतुर्दुःखदुःखाश्रयप्रदः।त्यागः सर्वोपधानां च सर्वदुःखव्यपोहकः॥९५॥
कोषकारो यथा ह्यंशूनुपादत्ते वधप्रदान् ।उपादत्ते तथाऽर्थेभ्यस्तृष्णामज्ञः सदाऽऽतुरः॥९६॥
यस्त्वग्निकल्पानर्थाञ् ज्ञो ज्ञात्वा तेभ्यो निवर्तते।अनारम्भादसंयोगात्तं दुःखं नोपतिष्ठते॥९७॥
पदच्छेदः-
उपधा हि परः हेतुः दुःख-दुःखाश्रयप्रदः।त्यागः सर्वोपधानां च सर्वदुःखव्यपोहकः॥९५॥
कोषकारः यथा हि अंशून् उपादत्ते वधप्रदान् । उपादत्ते तथा अर्थेभ्यः तृष्णाम् अज्ञः सदा आतुरः॥९६॥ यः तु अग्निकल्पान् अर्थान् ज्ञः ज्ञात्वा तेभ्यः निवर्तते।अनारम्भाद् असंयोगात् तं दुःखं न उपतिष्ठते॥९७॥
अन्वयः-
हि उपधा दुःख-दुःखाश्रयप्रदः परः हेतुः ।सर्वोपधानां त्यागः च सर्वदुःखव्यपोहकः॥९५॥यथा हि कोषकारः वधप्रदान् अंशून् उपादत्ते । तथा अज्ञः सदा आतुरः अर्थेभ्यः तृष्णाम् उपादत्ते॥९६॥
यः तु ज्ञः अर्थान् अग्निकल्पान् ज्ञात्वा तेभ्यः निवर्तते, तम् (प्रति) अनारम्भाद् असंयोगात् दुःखं न उपतिष्ठते॥९७॥
सरलार्थः-
दुःखं तथा दुःखाश्रयभूतं शरीरम् इति उभयोः अपि मूलकारणं तृष्णा।सर्वासां तृष्णानां त्यागः सर्वदुःखनाशस्य उपायः॥९५
यथा कोशकारः कीटः तन्तून् संचिनोति।ते संचिताः तन्तवः एव तस्य वधाय भवन्ति।तथा अज्ञः तथा सदा संसारदुःखार्तः नरः अर्थेभ्यः तृष्णाः संचिनोति।९६
यः ज्ञः नरः, सः ‘एते अर्थाः अग्नितुल्याः सन्ति’ इति जानाति।एवं ज्ञात्वा सः तेभ्यः अर्थेभ्यः निवृत्तः भवति।एतादृशं नरं तृष्णावशात् कर्म नारभते। तथा तृष्णाशून्यकर्माचरणात् शरीरेण सह तस्य संयोगः न भवति।तेन सः दुःखं नानुभवति॥९७
आयुर्वेददीपिका
परः हेतुः इति मूलकारणम्। दुःखरूपेण एव दुःखाश्रयः शरीरम्। भोगतृष्णया हि प्रवर्तमानो धर्माधर्मान् दुःखशरीरोत्पादकान् उपादत्ते, सर्वोपधात्यागात् तु न रागद्वेषाभ्यां क्वचित् प्रवर्तते, अप्रवर्तमानः च न धर्माधर्मान् उपादत्ते, एवम् अनागत-धर्म-अधर्म-उपरमः, उपात्त-धर्म-अधर्मयोः तु राग-द्वेष-शून्यस्य उपभोगाद् एव क्षयः ; तेन सर्वथा कर्मक्षयाद् दुःखशरीर-अभाव इति भावः। अत्र एव तृष्णायाः दुःखकारणत्वे दृष्टान्तम् आह- कोषकारः इत्यादि। कोषकारः स्वनामप्रसिद्धः कीटः। सदा आतुर इति सदा संसारदुःखगृहीतः। अनारम्भाद् इति राग-द्वेष-पूर्वक-आरम्भविरहात्। असंयोगादिति आरम्भशून्यत्वेन धर्म-अधर्म-उच्छेदकृतात् शरीर-असंयोगात्; शरीराभावे च निराश्रयम् अकारणकं दुःखं न भवति इति भावः॥९५-९७॥
अरुन्धतीपद्धतिः –
उपधातः दुःखं यावत् कार्यकारणशृङ्खला चक्रपाणिना उक्ता। सा एव अत्र विलोमम् उच्यते दुःखतः उपधापर्यन्तम्। स्थूणानिखननन्यायेन दृढीकरणाय एतत।
दुःखं मे न भवेत् इति सर्वेषां जीवानां स्वाभाविकी इच्छा वर्तते।दुःखनाशाय उत्तमः उपायः दुःखकारणनाशः।दुःखकारणं तु शरीरपरिग्रहः।अतः शरीरपरिग्रहः एव न सम्भवेत् इति प्रयासः कार्यः।शरीरपरिग्रहः भवति धर्माधर्मनिमित्तम्।धर्मः इति सत्कर्म।अधर्मः इति दुष्कर्म।पूर्वजन्मसु जीवेन क्वचिद् धर्मः अनुष्ठितः क्वचिद् अधर्मः अनुष्ठितः। तेषां धर्माधर्माणां फलभोगार्थम् अपरं जन्म भवति।धर्माधर्मौ यदि न भवतः तर्हि तेषां फलभोगाय अपरजन्मनः अपि आवश्यकता न स्यात्।धर्माधर्मौ कुतः भवतः? इच्छाद्वेषाभ्यां भवतः। कस्मिंश्चिद्विषये जीवस्य इच्छा अस्ति तथा कस्मिंश्चिद्विषये तस्य द्वेषः अस्ति।एवम् इच्छाद्वेषाभ्यां सः कर्मणि प्रवर्तते।इष्टप्राप्त्यर्थं तथा द्विष्टपरिहारार्थं सः कर्माणि कुरुते।तेषु कतिचनकर्माणि सत्कर्माणि सन्ति, कतिचन दुष्कर्माणि सन्ति।अस्तु।इच्छाद्वेषयोः नाशः भवति चेद् एषा शृङ्खला न आरभ्यते।इच्छाद्वेषयोः नाशः कथं करणीयः?उपधातः इच्छाद्वेषौ जायेते।उपधा इत्युक्ते भोगतृष्णा।सा एव नश्यति चेत् न इच्छाद्वेषौ उत्पद्येते। अग्रिमा शृङ्खला च न आरभ्यते।अतः उपधा सर्वदुःखानां मूलम् अस्ति इति निष्कर्षः।
ननु जीवः केवलं दुःखपरिहारम् इच्छति, न तु सुखपरिहारम्।दुःखम् अधर्माचरणात् जायते।सुखं धर्माचरणात् जायते।अत्र तु धर्माधर्मौ उभौ अपि त्याज्यौ इति उपदेशः क्रियते।केवलम् अधर्मः त्याज्यः धर्मः अनुष्ठेयः। तेन दुःखं न भवति,सुखमेव भवति इति कुतो न उपदिश्यते?
ब्रूमः। धर्माचरणजन्यं यत् सुखं तद् मूढानां सुखम्।विवेकिनः तदपि दुःखमेव मन्यन्ते –
परिणामतापसंस्कारदुःखैः गुणवृत्तिविरोधात् च दुःखमेव सर्वं विवेकिनः।पातञ्जलयोग.२.१५
अतः सकलदुःखनाशाय धर्माधर्मौ उभौ अपि त्याज्यौ।
कोशकारः कीटः इत्युक्ते कौशेयतन्तुकीटः।सः कौशेयतन्तून् वर्धयति।कौशेयतन्तुनिमित्तं सः मरणं प्राप्नोति।तथैव अज्ञः जनः तृष्णाः वर्धयति।ताभिः स्वयम् पोषिताभिः तृष्णाभिः एव सः नाशं गच्छति इति दृष्टान्तसमन्वयः।
०९८
[सम्पाद्यताम्] धीधृतिस्मृतिविभ्रंशः सम्प्राप्तिः कालकर्मणाम्।असात्म्यार्थागमश्चेति ज्ञातव्या दुःखहेतवः॥९८॥
पदच्छेदः-
धी-धृति-स्मृति-विभ्रंशः सम्प्राप्तिः कालकर्मणाम्।असात्म्यार्थ-आगमः च इति ज्ञातव्याः दुःखहेतवः॥९८॥
अन्वयः-
धी-धृति-स्मृति-विभ्रंशः, कालकर्मणां सम्प्राप्तिः,असात्म्यार्थ-आगमः च इति एते दुःखहेतवः ज्ञातव्याः ॥९८॥
सरलार्थः-
धी-भ्रंशः,धृति-भ्रंशः तथा स्मृति-विभ्रंशः, कालकर्मणां सम्प्राप्तिः,असात्म्यार्थ-आगमः च इति एतानि दुःखस्य कारणानि।
आयुर्वेददीपिका
‘कारणं वेदनानां किम्’ इति अस्य उत्तरम् आह धीधृतीत्यादि-अयं च अर्थः प्रकरण-आगतत्वाद् उच्यमानः न पुनरुक्तताम् आवहति।
अरुन्धतीपद्धतिः –
कालबुद्धीन्द्रियार्थानां योगो मिथ्या न चाति च।द्वयाश्रयाणां व्याधीनां त्रिविधो हेतुसङ्ग्रहः॥च.सू.१.५४
इति एतस्मिन् सूत्रे वेदनानां कारणं किम् इति प्रश्नस्य उत्तरं पूर्वं दत्तम्।
अथ खलु... त्रीणि आयतनानि...। च.सू.११.३४
इत्यस्य उत्तरे -
असात्म्येन्द्रियसंयोगः प्रज्ञापराधः परिणामश्चेति त्रयः त्रिविधविकल्पाः
हेतवो विकाराणाम् ...। च.सू.११.४३
इति वेदनानां कारणम् उक्तम्।
तथापि अस्मिन् प्रकरणे किमर्थं पुनरुच्यते?अस्य सन्देहस्य उत्तरं चक्रपाणिः वदति अयं चार्थः इत्यादिना।
अस्मिन् प्रकरणे अग्निवेशेन पृष्टम् अतः पुनः सविस्तरम् उत्तरम् उच्यते इति नात्र पुनरुक्तदोषः।
आयुर्वेददीपिका
धीधृतिस्मृतयः प्रज्ञाभेदाः।एते च शिष्यव्युत्पत्त्यर्थं प्रज्ञाभेदत्वेन अन्यथा व्युत्पाद्य इह उच्यन्ते।
अरुन्धतीपद्धतिः –
पूर्वं सूत्रस्थाने तिस्रैषणीयाध्याये प्रज्ञापराधः इति अन्यतमः वेदनाहेतुः उक्तः।अत्र तु सः न दृश्यते इति सन्देहे चक्रपाणिः ब्रूते धीधृतिस्मृतयः इत्यादि।अत्रापि प्रज्ञापराधः इति पूर्वोक्तः हेतुः अस्ति एव । धीः च धृतिः च स्मृतिः च एते प्रज्ञायाः भेदाः।अतः धीधृतिस्मृतिभ्रंशः इत्युक्ते प्रज्ञापराधः एव। शिष्याणां विशेषव्युत्पत्तिः भवेत्, अधिकज्ञानं भवेत् इति एतदर्थं प्रज्ञायाः भेदान् आदाय सः हेतुः अत्र उक्तः धीधृतिस्मृतिविभ्रंशः इति।
आयुर्वेददीपिका
सम्प्राप्तिः कालकर्मणाम् इति कालस्य सम्प्राप्तिः तथा कर्मणः च सम्प्राप्तिः। कर्मसम्प्राप्तिः पच्यमानकर्मयोगः।
अरुन्धतीपद्धतिः –
सूत्रे ‘सम्प्राप्तिः कालकर्मणाम्’ इति पदे स्तः।सम्प्राप्तिः इति योगः।कालस्य योगः इति एकः हेतुः तथा कर्मणां योगः इति अपरः हेतुः।कर्मशब्देन अत्र पूर्वजन्मसु कृतं कर्म ग्राह्यं अनागतावेक्षणतन्त्रयुक्त्या।अग्रे कर्मप्रतिपादकं वचनम् इदम् –
निर्दिष्टं दैवशब्देन कर्म यत् पौर्वदेहिकम्।च.शा.१.११६
एतादृशानि यानि पौर्वदेहिकानि कर्माणि, तेषु पच्यमानकर्मणां योगः कर्मसम्प्राप्तिशब्देन विवक्षितः।पूर्वम् अगणितजन्मसु यानि कर्माणि पुरुषेण आचरितानि तानि सञ्चितकर्माणि इति उच्यन्ते।तेषु सञ्चितकर्मसु कानिचन फलोन्मुखानि भवन्ति।तैः एव नूतनं जन्म आरभ्यते।यैः कर्मभिः नूतनं जन्म आरब्धं, तानि प्रारब्धकर्माणि इति उच्यन्ते।प्रारब्धः फलभोगः यैः तानि प्रारब्धकर्माणि।एतेषाम् एव निर्देशः चक्रपाणिना कृतः पच्यमानकर्मशब्देन।
ननु सूत्रे कर्म-सम्प्राप्तिः इत्येव योजना अस्ति।पच्यमानविशेषणं दत्त्वा चक्रपाणिना किं साधितम्?
अपच्यमानकर्मणां निराकरणं साधितम्।बहुषु जन्मसु सञ्चितानि यानि कर्माणि सन्ति, तेषु प्रारब्धकर्मणामेव फलमिदं जन्म, अस्मिन् जन्मनि सुखदुःखभोगाः च।तदुक्तं पतञ्जलिना –
सति मूले तद्विपाको जात्यायुर्भोगाः। - योगदर्शनम्-२.१३
इति।य़ानि तु न पच्यमानानि तानि सञ्चितकर्मसंज्ञकानि।आगामिनि काले तानि फलोन्मुखानि भविष्यन्ति।परन्तु कदाचित् प्रायश्चित्तादिकर्मभिः पच्यमानावस्थातः पूर्वमेव तेषां नाशः अपि सम्भवति।न तदा तानि फलदानि भवन्ति।यदुक्तम्
एतदथर्वशीर्षं योऽधीते,… स पञ्चमहापापात् प्रमुच्यते।
अथवा
यानि कानि च पापानि जन्मान्तरकृतानि च।तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे॥
इति च।एतानि नष्टानि कर्माणि वेदनाहेतवः न भवन्ति।अतः वेदनाहेतुगणनाकाले तेषां निराकरणम् आवश्यकम्।तदेव साधितं चक्रपाणिना पच्यमानविशेषणेन।
आयुर्वेददीपिका
कालसम्प्राप्तिग्रहणेन च इह ये कालव्यक्ताः ते गृह्यन्ते, न अवश्यं कालजन्याः; यतः स्वाभाविकान् अपि कालजन्यान् तथा तृतीयकादीन् अपि असात्म्येन्द्रियार्थ-आदिजन्यान् कालजत्वेन एव इह अभिधास्यति।
अरुन्धतीपद्धतिः –
कालस्य सम्प्राप्तिः इति कालस्य योगः।कालः व्याधिजनकः अपि अस्ति, व्याधिव्यञ्जकः अपि अस्ति।व्याधिजनकः यथा वसन्तः कफरोगजनकः।व्याधिव्यञ्जकः यथा अन्येद्युष्कज्वरे। कालसम्प्राप्तिशब्देन कालवेदनयोः कः सम्बन्धः अत्र विवक्षितः? जनकत्व-सम्बन्धो वा व्यञ्जकत्व-सम्बन्धो वा?अस्य उत्तरं वदति चक्रपाणिः कालसम्प्राप्तिग्रहणेन इत्यादि।
कालसम्प्राप्तिशब्देन कालवेदनयोः अत्र जनकत्वसम्बन्धोऽपि विवक्षितः, व्यञ्जकत्वसम्बन्धोऽपि विवक्षितः।यत्र कालः व्याधिजनकः तस्य व्याधेः कालः इति कारणम् अस्ति एव।यत्र तु कालः केवलं व्यञ्जकः, तस्य अपि व्याधेः कारणं कालः इति प्रकृते मुनेः अभिप्रेतम्।
किमत्र प्रमाणम्? अनागतावेक्षातन्त्रयुक्तिः अत्र प्रमाणम्।अस्मिन् एव अध्याये अग्रे कालसम्प्राप्तेः विवरणं कृतम्।तत्र
एषु कालेषु नियता ये रोगास्ते च कालजाः॥११२॥
इति कालजन्याः रोगाः उदाहृताः।तथा -
अन्येद्युष्को द्व्यहग्राही तृतीयकचतुर्थकौ| स्वे स्वे काले प्रवर्तन्ते काले ह्येषां बलागमः||११३||
इति कालव्यङ्ग्याः रोगाः अपि उदाहृताः।एतेषां कालव्यङ्ग्यानां रोगाणां जनकं कारणं प्रज्ञापराधः वा असात्म्येन्द्रियार्थसंयोगः वा विद्यते।तस्मात् तस्मात् कारणात् एते उद्भवन्ति परं तं तं कालं प्राप्य आविर्भवन्ति।एतेषां व्यञ्जकं कारणं कालः।अतः प्रकृते कालजाः इति कालजन्याः तथा कालव्यङ्ग्याः च।
आयुर्वेददीपिका
कर्मजाः तु प्रज्ञापराधजन्याः एव इह कर्मजन्यत्वेन विशेषेण शिष्यव्युत्पत्त्यर्थं पृथग् उच्यन्ते, कालव्यञ्ज्यत्वेन च कर्मजाः इह कालसम्प्राप्तिजन्येषु अवरोद्धव्याः। प्रज्ञापराध-अवरोधः च यथा कर्मजानां, तथा प्रथम-अध्याये एव उक्तम्। किञ्च आचार्येण उन्मादनिदाने स्वयम् एव उक्तं यत्- “प्रज्ञापराधात् सम्भूते व्याधौ कर्मज आत्मनः” इत्यादि (नि.७) तथा जनपदोद्ध्वंसनीये च विमाने पुनः उक्तं- “वायु-आदीनां यद् वैगुण्यम् उत्पद्यते तस्य मूलम् अधर्मः, तन्मूलं वा असत्कर्म पूर्वकृतं, तयोः योनिः प्रज्ञापराधः एव” इति (वि.३) इति। तस्माद् इह सम्प्राप्तिः कालकर्मणाम् इति अनेन न कालजन्याः गदाः उच्यन्ते, किं तु कालव्यञ्ज्याः॥९८॥
अरुन्धतीपद्धतिः –
कर्मजव्याधेः विवरणम् अधुना आरभ्यते।अत्र अयं प्रश्नः उद्भवति।
कालबुद्धीन्द्रियार्थानां योगो मिथ्या न चाति च।द्वयाश्रयाणां व्याधीनां त्रिविधो हेतुसङ्ग्रहः॥च.सू.१.५४
इत्यस्मिन् सूत्रे वेदनायाः त्रीणि कारणानि उक्तानि।
असात्म्येन्द्रियसंयोगः प्रज्ञापराधः परिणामश्चेति त्रयः त्रिविधविकल्पाः
हेतवो विकाराणाम् ...। च.सू.११.४३
इति अस्मिन् सूत्रे त्रीणि रोगकारणानि उक्तानि। प्रकृते सूत्रे तर्हि कथं वेदनानां चत्वारि कारणानि उच्यन्ते? एतस्य प्रश्नस्य उत्तरम् आरभते चक्रपाणिः कर्मजास्तु इत्यनेन।
पूर्वोक्तानि त्रीणि कारणानि अत्र सन्ति एव।पूर्वं नोक्तं कर्मसम्प्राप्तिः इति कारणम् अत्र अधिकं दृश्यते।कर्मशब्देन अत्र पौर्वदेहिकं कर्म ग्राह्यम् इति पूर्वं सकारणं प्रतिपादितम्। पूर्वकर्मजाः ये रोगाः ते वस्तुतः प्रज्ञापराधजाः एव।अत्र शिष्याणां विशेषबोधार्थं ते पृथग् गणिताः।अतःत्रीणि रोगकारणानि इति सिद्धान्तः अबाधितः।
ननु कर्मजानां व्याधीनां प्रज्ञापराधजन्येषु समावेशः कथं भवति?एवं सन्देहे सति चक्रपाणिः उत्तरति प्रज्ञापराधावरोधः इत्यादिना।तदुत्तरम् एवम् -
त्रिविधो हेतुसङ्ग्रहः (च.सू.१.५४) इत्यस्य टीकायां मया सविस्तरम् अस्य प्रश्नस्य उत्तरं दत्तम्।तद् अत्र अनुसन्धेयम् इति सः सूचयति।
उन्मादनिदाने “प्रज्ञापराधात् सम्भूते व्याधौ कर्मज आत्मनः” (नि.७) इति मुनिवचनं विद्यते।तत्र व्याधेः विशेषणद्वयं विद्यते प्रज्ञापराधसम्भूतत्वं तथा कर्मजत्वम्।अनेन कर्मजव्याधीनां समावेशः प्रज्ञापराधजव्याधिषु भवति इति स्वयं मुनिना एव दर्शितम्।
विमानस्थाने -
“वायु-आदीनां यद् वैगुण्यम् उत्पद्यते तस्य मूलम् अधर्मः, तन्मूलं वा असत्कर्म पूर्वकृतं, तयोः योनिः प्रज्ञापराधः एव” (वि.३)
इति मुनिवचनं पठ्यते।अत्र असत्कर्मणः मूलं प्रज्ञापराधः इति उक्तम्
तस्मात् अत्र कर्म इति यत् वेदनानां कारणम् उक्तं तत् प्रज्ञापराधे एव समाविष्टं भवति।
एवं तर्हि अत्र ‘कर्मसम्प्राप्तिः’ इति यद् वेदनाकारणम् उक्तं तत् प्रज्ञापराधे अन्तर्भावनीयम् इति प्राप्ते चक्रपाणिः वदति-
कालव्यञ्ज्यत्वेन च कर्मजाः इह कालसम्प्राप्तिजन्येषु अवरोद्धव्याः।
कथम् एतद् युज्यते? अनागतावेक्षणतन्त्रयुक्त्या।कर्मजव्याधीनां वर्णनम् अग्रे मुनिना करिष्यते।तत्र
हेतुस्तदपि कालेन रोगाणामुपलभ्यते ॥११६॥
इति कर्मरूपहेतोः कालेन रोगव्यञ्जकत्वं प्रतिपाद्यते।यस्मात् ‘कालेन उपलभ्यते’ इति मुनिना उक्तं तस्मात् अस्य कर्मरूपहेतोः समावेशः काले युक्तः।कर्मजव्याधीनां कालजन्यव्याधिषु यः समावेशः अत्र कथ्यते सः केवलम् अस्मिन् प्रकरणे वेद्यः इति चक्रपाणिः सूचयति इह इति पदेन।अन्यदा तु प्रज्ञापराधजन्येषु एव कर्मजानां व्याधीनां समावेशः कार्यः।
०९९
[सम्पाद्यताम्] विषमाभिनिवेशो यो नित्यानित्ये हिताहिते। ज्ञेयः स बुद्धिविभ्रंशः समं बुद्धिर्हि पश्यति॥९९॥
पदच्छेदः-
विषम-अभिनिवेशः यः नित्य-अनित्ये हित-अहिते।ज्ञेयः सः बुद्धिविभ्रंशः समं बुद्धिः हि पश्यति॥९९॥
अन्वयः-
नित्य-अनित्ये हित-अहिते यः विषम-अभिनिवेशः, सः बुद्धिविभ्रंशः ज्ञेयः।हि बुद्धिः समं पश्यति॥९९॥
सरलार्थः-
नित्यं किम् अनित्यं किम् हितं किम् अहितं किम् इति अस्मिन् विषये यः अथार्थः निश्चयः, सः एव बुद्धेः भ्रंशः।यतो हि समा बुद्धिः यथार्थं निश्चयं करोति।९९
आयुर्वेददीपिका
धीविभ्रंशं विवृणोति विषमेत्यादि।विषमाभिनिवेशः अयथाभूतत्वेन अध्यवसानं नित्ये अनित्यम् इति, एवं हिते अहितम् अहिते वा हितम् इति या बुद्धिः सः बुद्धिभ्रंशः। अथ कथम् अयं बुद्धिविभ्रंशशब्देन उच्यते इति आह समं बुद्धिः हि पश्यति उचिता बुद्धिः समं यथाभूतं यस्मात् पश्यति, तस्माद् असमदर्शनं बुद्धिविभ्रंशः उचितः एव इति अर्थः।।९९॥
अरुन्धतीपद्धतिः –
यथा कश्चद् वातलः देवदत्तः ‘अभ्यङ्गः मदर्थम् अहितकरः’ इति मन्यते।हितविषये अहितनिश्चयं कुर्वन्ती तस्य एषा बुद्धिः सापराधा।स एव वातलः देवदत्तः ‘‘कलायः मदर्थं हितकरः’ इति मन्यते। अहितविषये हितनिश्चयं कुर्वन्ती एषा अपि तस्य बुद्धिः सापराधा एव।
१००
[सम्पाद्यताम्] विषयप्रवणं सत्त्वं धृतिभ्रंशान्न शक्यते।नियन्तुमहितादर्थाद्धृतिर्हि नियमात्मिका॥१००॥
पदच्छेदः-
विषयप्रवणं सत्त्वं धृतिभ्रंशात् न शक्यते। नियन्तुम् अहिताद् अर्थाद् धृतिः हि नियमात्मिका॥१००॥
अन्वयः-
धृतिभ्रंशात् विषयप्रवणं सत्त्वम् अहिताद् अर्थाद् नियन्तुं न शक्यते। हि धृतिः नियमात्मिका (अस्ति)॥१००॥
सरलार्थः-
यदा धृतिभ्रंशः भवति, तदा विषयासक्तं चित्तम् अहिताद् विषयात् व्यावर्तयितुं न शक्यते यतो हि धृतिः नियमनस्वरूपा अस्ति।१००
आयुर्वेददीपिका
धृतिभ्रंशम् आह- विषयेत्यादि| विषयप्रवणं विषयेषु प्रसज्जत्। नियन्तुम् इति व्यावर्तयितुम्। धृतिः हि नियमात्मिका इति यस्माद् धृतिः अकार्यप्रसक्तं मनः निवर्तयति स्वरूपेण, तस्मात् मनो-नियमं कर्तुम् अशक्ता धृतिः स्वकर्मभ्रष्टा भवति इति अर्थः॥१००॥
अरुन्धतीपद्धतिः –
यथा वातलः देवदत्तः ‘कलायो मदर्थम् अहितकरः’ इति जानन् अपि कलायास्वादलुब्धः सन् कलायं भक्षयितुं प्रवर्तते।यदि धृतिः समा, तर्हि सा तस्य मनः कलायात् निवर्तयति।यदि धृतिः भ्रष्टा, तर्हि सा देवदत्तस्य चित्तं नियमयितुम् असमर्था।अस्याम् अवस्थायां प्रज्ञापराधः ध्रुवं भविष्यति।
‘कलायो मदर्थम् अहितकरः’ इति अहितविषये अहितनिश्चयः देवदत्तस्य अस्ति अतः अयं धीभ्रंशः न।अयं धृतिभ्रंशः एव।
१०१
[सम्पाद्यताम्] तत्त्वज्ञाने स्मृतिर्यस्य रजोमोहावृतात्मनः।भ्रश्यते स स्मृतिभ्रंशः स्मर्तव्यं हि स्मृतौ स्थितम्॥१०१॥
पदच्छेदः-
तत्त्वज्ञाने स्मृतिः यस्य रजोमोह-आवृत-आत्मनः।भ्रश्यते सः स्मृतिभ्रंशः स्मर्तव्यं हि स्मृतौ स्थितम्॥१०१॥
अन्वयः-
रजोमोह-आवृत-आत्मनः यस्य स्मृतिः तत्त्वज्ञाने भ्रश्यते,सः स्मृतिभ्रंशः (ज्ञेयः), हि स्मर्तव्यं स्मृतौ स्थितम्॥१०१॥
सरलार्थः-
यस्य मनः रजोगुणेन मोहेन वा आवृतं भवति, तेन तत्त्वज्ञानविषये स्मृतिः न भवति, तस्य तद् अस्मरणं नाम स्मृतिभ्रंशः य़तो हि स्मरणं स्मृतिकार्यम्।
आयुर्वेददीपिका
स्मृतिभ्रंशं विवेचयति तत्त्वेत्यादि।तत्त्वज्ञाने स्मृतिः यस्य भ्रश्यते इति योजना। स्मर्तव्यं हि स्मृतौ स्थितम् इति स्मर्तव्यत्वेन सम्मतस्य अर्थस्य स्मरणं प्रशस्तस्मृतिधर्मः। तत्र च तत्त्वज्ञानस्य शिष्टानां स्मर्तव्यत्वेन सम्मतस्य यद् अस्मरणं, तत् स्मृति-अपराधाद् भवति इति अर्थः॥१०१॥
अरुन्धतीपद्धतिः –
वातलेन देवदत्तेन ‘कलायः ते अहितकरः’ इति कुतश्चिद् आप्तात् अवगतम्।कलायात् चित्तं निवर्तयितुं सः धृत्या समर्थः।तथापि कलायभोजने प्राप्ते यदि स आप्तवाक्यं न स्मरति तर्हि सः कलायं भक्षयति इति ध्रुवम्।यदि तदा देवदत्तः आप्तोपदेशं स्मरेत् , तर्हि कलायात् मनः निवर्तयेदपि।अतः अयं न धीभ्रंशः, न वा धृतिभ्रंशः।अयं स्मृतिभ्रंशः।यत् स्मरणीयं, तत् काले यदि न स्मर्यते तर्हि सः स्मृत्यपराधः मन्तव्यः।
सूत्र तत्त्वज्ञाने इति सप्तम्यन्तं पदं विद्यते।विषयसप्तमी एषा।तत्त्वज्ञानविषये इति अर्थः। हितविषयस्य हितप्रकारकज्ञानं तथा अहितविषयस्य अहितप्रकारकं ज्ञानम् अत्र तत्त्वज्ञानम्।
१०२-१०८
[सम्पाद्यताम्] धीधृतिस्मृतिविभ्रष्टः कर्म यत् कुरुतेऽशुभम्। प्रज्ञापराधं तं विद्यात् सर्वदोषप्रकोपणम्॥१०२॥
उदीरणं गतिमतामुदीर्णानां च निग्रहः। सेवनं साहसानां च नारीणां चातिसेवनम्॥१०३॥
कर्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम्। विनयाचारलोपश्च पूज्यानां चाभिधर्षणम्॥१०४॥
ज्ञातानां स्वयमर्थानामहितानां निषेवणम्| परमौन्मादिकानां च प्रत्ययानां निषेवणम्॥१०५॥
अकालादेशसञ्चारौ मैत्री सङ्क्लिष्टकर्मभिः। इन्द्रियोपक्रमोक्तस्य सद्वृत्तस्य च वर्जनम्॥१०६॥
ईर्ष्यामानभयक्रोधलोभमोहमदभ्रमाः। तज्जं वा कर्म यत् क्लिष्टं क्लिष्टं यद्देहकर्म च॥१०७॥
यच्चान्यदीदृशं कर्म रजोमोहसमुत्थितम्। प्रज्ञापराधं तं शिष्टा ब्रुवते व्याधिकारणम् ॥१०८॥
पदच्छेदः-
धी-धृति-स्मृति-विभ्रष्टः कर्म यत् कुरुते अशुभम्। प्रज्ञापराधं तं विद्यात् सर्वदोषप्रकोपणम्॥१०२॥
उदीरणं गतिमताम् उदीर्णानां च निग्रहः। सेवनं साहसानां च नारीणां च अतिसेवनम्॥१०३॥
कर्मकाल-अतिपातः च मिथ्यारम्भः च कर्मणाम् ।विनय-आचारलोपः च पूज्यानां च अभिधर्षणम्॥१०४॥
ज्ञातानां स्वयम् अर्थानाम् अहितानां निषेवणम्| परम् औन्मादिकानां च प्रत्ययानां निषेवणम्॥१०५॥
अकाल-अदेश-सञ्चारौ मैत्री सङ्क्लिष्टकर्मभिः। इन्द्रियोपक्रम-उक्तस्य सद्वृत्तस्य च वर्जनम्॥१०६॥
ईर्ष्या-मान-भय-क्रोध-लोभ-मोह-मद-भ्रमाः। तज्जं वा कर्म यत् क्लिष्टं क्लिष्टं यत् देहकर्म च॥१०७॥
यत् च अन्यद् ईदृशं कर्म रजो-मोह-समुत्थितम्।प्रज्ञापराधं तं शिष्टाः ब्रुवते व्याधिकारणम् ॥१०८॥
अन्वयः-
धी-धृति-स्मृति-विभ्रष्टः (नरः) यत् अशुभं कर्म कुरुते तं सर्वदोषप्रकोपणं प्रज्ञापराधं विद्यात् ॥१०२॥ गतिमताम् उदीरणम्, उदीर्णानां च निग्रहः,साहसानां सेवनं च, नारीणां च अति-सेवनम्,॥१०३॥कर्मकाल-अतिपातः च, कर्मणां मिथ्यारम्भः च, विनय-आचारलोपः च, पूज्यानाम् अभिधर्षणं च, ॥१०४॥स्वयं ज्ञातानाम् अहितानाम् अर्थानां निषेवणम्,
औन्मादिकानां प्रत्ययानां परं निषेवणम् च, ॥१०५॥अकाल-अदेश-सञ्चारौ सङ्क्लिष्टकर्मभिः मैत्री, इन्द्रियोपक्रम-उक्तस्य सद्वृत्तस्य वर्जनम् च, ॥१०६॥ईर्ष्या-मान-भय-क्रोध-लोभ-मोह-मद-भ्रमाः,तज्जं वा यत् क्लिष्टं कर्म, क्लिष्टं यत् देहकर्म च॥१०७॥ यत् च अन्यद् ईदृशं रजो-मोह-समुत्थितम् कर्म, तं शिष्टाः प्रज्ञापराधं व्याधिकारणम् ब्रुवते ॥१०८॥
सरलार्थः-
य़स्य धीः भ्रष्टा भवति, धृतिः भ्रष्टा भवति अथवा स्मृतिः भ्रष्टा भवति, सः नरः अशुभं कर्म आचरति।सः प्रज्ञापराधः।एषः सर्वदोषाणां प्रकोपं करोति।१०२।यथा वेगानाम् उदीरणम्, अथवा उदीर्णवेगानां धारणम्।साहसकर्म,अतिमैथुनम्।१०३।कर्मकालस्य उल्लङ्घनं,कर्मणाम् अनुचितः आरम्भः, विनयस्य आचारस्य च लोपः, पूज्यानाम् अवमानः॥१०४॥ये अर्थाः अहिताः इति ज्ञातं, तेषां सेवनम् उन्मादहेतूनां सेवनम्॥१०५॥अनुचिते काले अनुचिते देशे अटनं, पतितजनैः सह सख्यं, इन्द्रियोपक्रमणीयाध्याये उक्तस्य सद्ववृत्तस्य वर्जनम्॥१०६॥ ईर्ष्या, मानः,भयं, क्रोधः,लोभः,मोहः,मदः,भ्रमः, इति एतेमनोभावाः तथा एतैः विकारैः आरब्धं निद्यं देहकर्म॥१०७ यत् च अन्यद् एतादृशं रजो-मोह-समुत्थितम् कर्म, सः प्रज्ञापराधः इति आप्ताः वदन्ति॥१०८
आयुर्वेददीपिका
एवं बुद्धि-आदिभ्रंश-त्रयरूप-प्रज्ञापराध-जन्यं कर्म प्रज्ञापराधत्वेन दर्शयन् आह धी-इत्यादि। सर्वदोष-शब्देन वातादयः रजस्तमसी च गृह्यन्ते। कर्मकालातिपातः चिकित्साकाल-अतिवर्तनम्। मिथ्यारम्भ इति अयोग-अतियोग-मिथ्यायोग-रूपः।विनय-आचारलोपेन एव प्राप्तम् अपि यत् पुनः पूज्यानाम् अभिधर्षणादि अभिधीयते, तद् विशेषेण प्रकोपकत्व-ख्यापनार्थम् उदाहरणार्थं च। सङ्क्लिष्टकर्मभिः इति पतितैः। क्लिष्टम् इति निन्दितम्॥ १०२-१०८
अरुन्धतीपद्धतिः –
ननु प्रज्ञापराधशब्दस्य अर्थः कः?धीधृतिस्मृतिविभ्रंशः अथवा धीधृतिस्मृतिविभ्रंशजन्यम् अशुभं कर्म?एतं सम्भाव्यं सन्देहं निराकरोति चक्रपाणिः बुद्ध्यादिवचनेन।
प्रज्ञापराधशब्दस्य मुख्यः अर्थः धीधृतिस्मृतिविभ्रंशः।धीधृतिस्मृतिविभ्रंशजन्ये अशुभे कर्मणि अपि ‘प्रज्ञापराधः’ इति शब्दः प्रयुज्यते।परं न स अस्य शब्दस्य मुख्यार्थः। ‘धीधृतिस्मृतिविभ्रंशजन्यम् अशुभं कर्म’ इति तस्य गौणः अर्थः। धीधृतिस्मृतिविभ्रंशः इति कारणम्।अशुभं कर्म कति कार्यम्। कार्यकारणयोः अभेदं मत्त्वा कार्यस्य उल्लेखः अपि कारणवाचकेन शब्देन क्रियते।
‘उदीरणं गतिमताम्’ इत्यादीनि अस्मिन् सूत्रे उक्तानि कर्माणि नाम प्रज्ञापराधजन्यम् अशुभं कर्म।तथापि तेषामत्र उल्लेखः ‘प्रज्ञापराधः’ इत्येव क्रियते इति चक्रपाणेः आशयः।
‘विनयाचारलोपः’ इति प्रज्ञापराधः सूत्रे उक्तः।तत्र एव पूज्यानाम् अभिधर्षणं., सङ्क्लिष्टकर्मभिः जनैः सह मैत्री इति एतादृशानां समावेशः भवति।तथापि मुनिना ते प्रज्ञापराधाः पृथक्तया किमर्थमुक्ताः इति स्पष्टीकरोति चक्रपाणिः विनयाचारलोपेन इत्यादिना।
पृथग्वचनस्य कारणद्वयं चक्रपाणिः वदति।यद्यपि एते प्रज्ञापराधाः विनयाचारलोपे समाविष्टाः तथापि ते गभीरतराः।विशेषेण प्रकोपं कुर्वन्ति।अतः तेषां गभीरताज्ञापनाय पुनः उक्ताः इति एकं कारणम्।विनयाचारलोपः नाम कीदृशः इति उदाहरणेन वक्तव्यम्।तदर्थम् अपि एते हेतवः पृथक्तया उक्ताः इति द्वितीयं कारणम्।
ननु प्रज्ञापराधः सवर्वदोषप्रकोपणः अस्ति इति मुनिना उक्तम्।सर्वदोषाः इत्युक्ते सर्वे दोषाः।तत्र सर्वदोष-शब्देन वातादयः रजस्तमसी च गृह्यन्ते इति चक्रपाणिः टीकते।नेदमुचितम्।यतो हि-
अतिमात्रं पुनः सर्वदोषप्रकोपणम् इच्छन्ति कुशलाः।...तस्य वातपित्तश्लेष्माणः...सर्वे युगपत् प्रकोपमापद्यन्ते...।च.वि.२.७
इत्यत्र सर्वदोषशब्देन मुनेः वातपित्तश्लेष्माणः एव अभिमताः न रजस्तमसी।अतः अत्रापि सर्वदोषप्रकोपणः इत्यत्र ‘वातपित्तश्लेष्मणां प्रकोपकः’ इत्येतावान् एव अर्थः ग्राह्यः।सर्वशब्देन रजस्तमसोः ग्रहणं मास्तु।
अत्र ब्रूमः।अधिकरणतन्त्रयुक्तिबलात् रजस्तमसोः ग्रहणं कार्यम्।त्रिविधकुक्षीयविमाने अतिमात्राशनम् अधिकृत्य वर्णने प्रवर्तते मुनिः (च.वि.२.७)।अतिमात्राशनं च देहगतो हेतुः।तेन जायमानः दोषप्रकोपः देहगतः एव भवितुम् अर्हति, कार्यकारणयोः सामानाधिकरण्यनियमात्।
प्रकृते प्रज्ञापराधम् अधिकृत्य प्रवर्तनं मुनेः।प्रज्ञापराधात् जन्तुः अशुभं कर्म कुरुते, ततः तस्य सर्वदोषप्रकोपः भवतीति मुनेः कथनम्।प्रज्ञापराधात् किं किम् अशुभं कुरुते इत्यस्य उदाहरणानि मुनिना दत्तानि।तत्र उदीरणं गतिमताम् इत्यादीनि देहगतानि कर्माणि सन्ति तथा ईर्ष्या, मानः, भयं, क्रोधः,लोभः,मोहः,मदः,भ्रमः, इति एते मनोभावाः अपि सन्ति।अतः अत्र एतादृशैः शरीरमनोगतैः हेतुभिः जायमानः दोषप्रकोपः अपि शरीरमनोगतः भवितुम् अर्हति। तस्मात् अत्र सर्वशब्देन वातपित्तश्लेष्मणां ग्रहणं कार्य, रजस्तमसोः ग्रहणम् अपि कार्यम्।
ननु प्रज्ञापराधात् रजस्तमसोः प्रकोपः भवति इति वचनेन अपरोऽपि दोषो जायते अन्योन्याश्रयः।
...कर्म रजो-मोह-समुत्थितम्।प्रज्ञापराधं तं शिष्टाः ब्रुवते...।च.शा.१.१०८
इति मुनिवचनम्।अधुना प्रज्ञापराधात् रजस्तमसोः प्रकोपः तथा रजस्तमसोः प्रकोपात् प्रज्ञापराधः इति अन्योन्याश्रयः।
एवं प्राप्ते ब्रूमः। बीजवृक्षन्यायेन अदोषम् इदम्।बीजाद् वृक्षः, वृक्षाद् बीजम् इति अत्र अन्योन्याश्रयदोषः न दीयते, तत्परम्परायाः अनादित्वात्।अत्र प्रज्ञापराधात् रजस्तमःप्रकोपः, रजस्तमःप्रकोपात् प्रज्ञापराधः इति एषा अपि परम्परा अनादिः, तस्माद् अत्र अन्योन्याश्रयदोषः न शङ्कनीयः।
यच्च अन्यद् ईदृशं रजोमोहसमुत्थितं कर्म इति सङ्क्षेपतः मुनिना उक्तम्।कानि कर्माणि रजःसमुत्थितानि, कानि च तमःसमुत्थितानि इति तु शास्त्रान्तराद् अवगन्तव्यम्।महाभारतात् सङ्कलितानि कानिचन कर्माणि दिङ्मात्रम् अत्र लिख्यन्ते।
रजःसमुत्थितानि कायिकानि कर्माणि – तद्यथा अत्यशनम् (शान्ति३०१.२१), अतिव्यायामः (आश्व.३७.३), परिग्रहः (आश्व.३७.७) ,दान-प्रतिग्रह-जप-होमपरत्वं (आश्व. ३७.१६), प्रजागरूकत्वं (आश्व.३७.१२), धर्मार्थकामपरत्वं (आश्व.३७.१४), प्रमादः (आश्व.३७.७),स्तेनकर्म (आश्व.३७.१२),व्यूहवत्त्वं ( आश्व.३७.७),चलत्वम् (आश्व.३७.३)।
रजःसमुत्थितानि वाचिकानि कर्माणि – तद्यथा परमर्मावकर्ति वचनं (आश्व.३७.४),मृषावादित्वं (शान्ति२३९.२४),पिशुनत्वं (आश्व.३७.३),वाचि प्रमादः (आश्व.३७.७), निन्दा (आश्व.३७.६),भेदि वचनम् (शान्ति३०१.२२), विवादः (शान्ति३०१.२२), व्यूहयुतं वचनं (आश्व.३७.७),चला वाणी (आश्व.३७.३), विग्रहि वचनम् (शान्ति३०१.२१) ।
रजःसमुत्थितानि मानसानि कर्माणि – तद्यथा अकारुणिकत्वं (शान्ति३०१.२१),अनार्जवं (शान्ति३०१.२३), ईर्ष्यालुत्वं (आश्व.३७.३), कामः (शान्ति३०१.२३),निर्लज्जता (शान्ति३०१.२३), अभ्यसूया (आरण्यक२०३.६), क्रोधः (शान्ति३०१.२३), मानः (आरण्यक२०३.६),प्रशंसाप्रियत्वं (आश्व.३७.६,९),ममता (आश्व.३७.३,११),शोकः (शान्ति२१२.२७),शूरता (आश्व.३७.३,६),अतुष्टिः (शान्ति२१२.२७),अनुरागः (आरण्य. २०३.६), अनयः (आश्व.३७.७),असत्कारः (शान्ति३०१.२२),अभिद्रोहः (आश्व.३७.११),ईप्सा (आश्व.३७.३), आक्रोशः (आश्व.३७.५),क्रयविक्रय-शीलं (आश्व.३७.३),चिन्ताकुलता (शान्ति३०१.२२),तृष्णाकुलत्वं (आश्व.३७.७),नृत्तवादित्रगीतप्रीतिः (आश्व.३७.१३),द्यूतप्रीतिः (आश्व.३७.१३),प्रेत्यलौकिक-भावेच्छा (आश्व.३७.१६),परितापः (शान्ति२१२.२७),मत्सरः (आश्व.३७.६),वैरोपसेवा (शान्ति३०१.२२),चलत्वं (आश्व.३७.३), हरणशीलत्वं (शान्ति३०१.२३), दर्पः(शान्ति३०१.२३)।
तमःसमुत्थितानि कायिकानि कर्माणि-अलसः (आरण्य.२०३.५),भोजनेऽतृप्तिः (शान्ति३०१.२५),स्वप्नशीलता (शान्ति३०१.२५),प्रमादः (शान्ति२१२.२८), वृथाभक्षणं (आश्व.३६.१९), वृथारम्भः (आश्व.३६.१९),भिन्नमर्यादं वर्तनम् (आश्व.३६.२०)।
तमःसमुत्थितानि वाचिकानि कर्माणि- अतिवादः (आश्व.३६.२०),वाचि प्रमादः (शान्ति२१२.२८), सुकृतदूषणं(आश्व.३६.१२), भिन्नमर्यादं वचनम् (आश्व.३६.२०)।
तमःसमुत्थितानि मानसानि कर्माणि- नास्तिक्यं (आश्व.३६.१३),अविद्याबहुलत्वं (आरण्य.२०३.५),भीरुता (आश्व.३६.१२), अस्मृतिः (आश्व.३६.१३), अक्षमा (आश्व.३६.१८),अकृते कृतमानिता (आश्व.३६.१४), अतितिक्षा (आश्व.३६.२०),अभिमानः (आश्व.३६.१८),अत्यागः (आश्व.३६.१८),मैत्रीराहित्यं (आश्व.३६.१४), जघन्यगुण-वृत्तिः (आश्व.३६.१३), प्रमादः (शान्ति२१२.२८), लोभः (आश्व.३६.१२),नृत्तवादित्र-गीतश्रद्धा (शान्ति३०१.२७), वृथादानं (आश्व.३६.१९),भिन्नमर्यादं चिन्तनम् (आश्व.३६.२०)।
एतानि सर्वाणि कर्माणि प्रज्ञापराधे अन्तर्भवन्ति।
१०९
[सम्पाद्यताम्] बुद्ध्या विषमविज्ञानं विषमं च प्रवर्तनम्।प्रज्ञापराधं जानीयात् मनसः गोचरं हि तत्॥१०९॥
पदच्छेदः-
बुद्ध्या विषमविज्ञानं विषमं च प्रवर्तनम्। प्रज्ञापराधं जानीयात् मनसः गोचरं हि तत्॥१०९॥
अन्वयः-
बुद्ध्या विषमविज्ञानं (तथा) विषमं प्रवर्तनं च (इति एतत्)प्रज्ञापराधं जानीयात्। तत् हि मनसः गोचरम् ॥१०९॥
सरलार्थः-
बुद्ध्याः विषमं ज्ञानं तथा विषमं वर्तनम् इति एतद् उभयम् अपि प्रज्ञापराधसंज्ञकम्।तद् उभयम् अपि मनसः विषयभूतम्।१०९
आयुर्वेददीपिका
सङ्क्षेपेण प्रज्ञापराध-लक्षणम् आह बुद्ध्या इत्यादि । विषमम् इति अनुचितं, विषमविज्ञानं स्वरूपतः एव प्रज्ञापराधः। विषमप्रवर्तनं च प्रज्ञापराध-कार्यत्वेन प्रज्ञापराधशब्देन उच्यते।
अरुन्धतीपद्धतिः –
पूर्वं (च.शा.१.१०२) चक्रपाणिना स्पष्टीकृतं यद् धीधृतिस्मृतिविभ्रंशः इति प्रज्ञापराधशब्दस्य मुख्यः अर्थः।तज्जन्यम् अशुभं कर्म इति तस्य गौणः अर्थः।अत्रापि विषमं विज्ञानम् इति प्रज्ञापराधशब्दस्य मुख्यः अर्थः।विषमं प्रवर्तनम् इति तस्य गौणः अर्थः।एतदेव अत्र उच्यते चक्रपाणिना ‘विषमप्रवर्तनं च’ इत्यादिना।
आयुर्वेददीपिका
मनसः गोचरं हि तद् इति तद् विषमप्रवर्तनं विषमज्ञानं च मनःकार्य-प्रज्ञा-विषयत्वेन मनसः गोचरम् इति अर्थः। विषमप्रवर्तनं च मनो-गोचरजन्यत्वेन उपचाराद् उक्तं, विसदृश-मनोविषय-ज्ञानाद् विषमवाग्देहप्रवृत्तिः अपि भवति॥१०९॥
अरुन्धतीपद्धतिः –
प्रज्ञापराधस्य ज्ञानं कथं भवति इति अत्र उच्यते।प्रज्ञापराधः मनोग्राह्यः अस्ति इति मुनिवचनम्।ज्ञानं मनसः विषयः इति पूर्वम् (च.शा.१.२०)उक्तम्।अतः विषमविज्ञानम् अपि मनसः विषयः।विषमं प्रवर्तनं च मनोविषयः।
अत्र प्रश्नः उद्भवति।
‘विसदृश-मनोविषय-ज्ञानाद् विषमवाग्देहप्रवृत्तिः अपि भवति’ इति चक्रपाणिवचने सः प्रश्नः सूचितः।तस्य विस्तरः एवम्-
विसदृशं च मनोविषयः च तद् ज्ञानं विसदृशमनोविषयज्ञानम्।विसदृशं तथा मनोविषयः इति उभे अपि ज्ञानस्य विशेषणे।विसदृशं ज्ञानम् इत्युक्ते विषमं ज्ञानम्।मनोविषयः ज्ञानम् इति मनोगोचरं ज्ञानम्।एतादृशात् ज्ञानात् या विषमा प्रवृत्तिः भवति, सा मनःप्रवृत्तिः अस्ति एव, परं क्वचित् वाचः विषमप्रवृत्तिः सम्भवति, क्वचित् देहस्य अपि विषमप्रवृत्तिः सम्भवति।
विषमप्रवर्तनं मनोविषयः कथम्? विषमप्रवर्तनं क्वचिद् वाग्विषयः अस्ति, क्वचित् च देहविषयः अस्ति। यथा -
ईर्ष्यामानभयक्रोधलोभमोहमदभ्रमाः।च.शा.१.१०७
एतद् मनोविषयभूतं विषमप्रवर्तनम्।
विषमं प्रवर्तनं क्वचिद् वाक्प्रवृत्तिरूपं भवति यथा-
विनयाचारलोपश्च पूज्यानां चाभिधर्षणम्॥च.शा.१.१०४॥
एतादृशं वाक्प्रवृत्तिरूपं विषमप्रवर्तनं मनोगोचरं भवति तथा बाह्येन्द्रियगोचरम् अपि भवति।
विषमं प्रवर्तनं क्वचिद् देहप्रवृत्तिरूपं भवति यथा-
सेवनं साहसानां च नारीणां चातिसेवनम्॥ च.शा.१. १०३॥कर्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम्।
एतादृशं देहप्रवृत्तिरूपं विषमप्रवर्तनं मनोगोचरं भवति तथा बाह्येन्द्रियगोचरम् अपि भवति।
एवं विषमप्रवर्तनं क्वचिद् मनोमात्रगोचरं भवति, क्वचिद् मनोगोचरं बाह्येन्द्रियगोचरं च भवति। तथापि सर्वं विषमप्रवर्तनम् अत्र मुनिना मनोगोचरम् इति कथम् उक्तम् इति प्रश्नस्य आशयः।
अस्य प्रश्नस्य उत्तरं ब्रूते चक्रपाणिः ‘विषमप्रवर्तनं च’ इत्यादिना।बाह्येन्द्रियगोचरं यद् विषमप्रवर्तनं तद् मनोगोचरम् अपि अस्ति एव।अतः उपचारात् सर्वं विषमप्रवर्तनं मनोगोचरम् इति उक्तं मुनिना।
च.शा.१.०७७-०९४ चरकसंहिता-आयुर्वेददीपिकयोः अरुन्धती-पद्धतिः च.शा.१.११०-११७