च.शा.१.१४२-१४९
१४२
[सम्पाद्यताम्]मोक्षो रजस्तमोऽभावात् बलवत्कर्मसङ्क्षयात्। वियोगः सर्वसंयोगैरपुनर्भव उच्यते।।१४२।।
पदच्छेदः-
मोक्षः रजस्तमः-अभावात् बलवत्-कर्मसङ्क्षयात्।
वियोगः सर्वसंयोगैः अपुनर्भवः उच्यते।।१४२।।
अन्वयः-
रजस्तमः-अभावात्, बलवत्-कर्मसङ्क्षयात्, सर्वसंयोगैः अपुनर्भवः वियोगः मोक्षः (इति) उच्यते।।१४२।।
सरलार्थः-
यदा रजसः तमसः च अभावः भवति, प्रबलकर्मणां च क्षयः भवति, तदा सर्वैः संयोगैः आत्यन्तिकः वियोगः भवति।सः मोक्षः उच्यते।१४२
आयुर्वेददीपिका
अथ कथं मोक्षः भवति, कश्च इति आह – मोक्षः इत्यादि।बलवत्-कर्मसङ्क्षयाद् इति अवश्यभोक्तव्य-फलस्य कर्मणः क्षयात्। सर्वसंयोगैः इति सर्वैः आत्मसम्बन्धिभिः शरीर-बुद्धि-अहङ्कार-आदिभिः। न पुनः शरीरादिसम्बन्धः भवति इति अपुनर्भवः॥१४२॥
अरुन्धतीपद्धतिः –
मोक्षस्य उपायः कः तथा मोक्षस्य स्वरूपं किमं इति अधुना प्रतिपाद्यते। ‘रजस्तमोऽभावात्’ तथा ‘बलवत्कर्मसङ्क्षयात्’ इति पञ्चम्यन्ते द्वे पदे।एताभ्यां पदाभ्यां मोक्षोपायः अभिहितः। विभाषा गुणेऽस्त्रियमाम् (अष्टाध्यायी२.३.२५) इति हेतौ पञ्चमी एषा।वियोगः इति प्रथमान्तं पदम्।तत् मोक्षस्वरूपवाचकम्। ‘सर्वसंयोगैः’ तथा ‘अपुनर्भवः’ इति वियोगस्य विशेषणद्वयम् ।
बलवत् कर्म यदत्र उक्तं तत् पूर्वमपि(च.शा.१.११७) महत्कर्म इति उल्लिखितम्।यस्य कर्मणः परिहारः नास्ति,यद् भोक्तव्यमेव तद् बलवत्कर्म।तस्य क्षयः भोगादेव भवति।
सर्वैः संयोगाः सर्वसंयोगाः।आत्मनः स्वसम्बन्धिभिः शरीरादिभिः संयोगाः अत्र विवक्षिताः।
अत्र चक्रपाणिना सर्वैः संयोगाः सर्वसंयोगाः इति विग्रहः कृतः।एषः तृतीयातत्पुरुषः।अत्र कर्मधारयः अपि सम्भवति यथा सर्वे संयोगाः सर्वसंयोगाः।एवमपि सः एव अर्थः निष्पद्यते।परं चक्रपाणिना एषा सम्भावना न विचारिता इति चेत् न।
ननु सर्वे संयोगाः इति विग्रहः नोचितः।यतो हि मोक्षः आत्मनः भवति।आत्मनः अन्यैः सर्वैः भावैः सह संयोगस्य वियोगः मोक्षोपायः भवति।एषः चक्रपाणिकृतः अर्थः।स च तृतीयात्तत्पुरुषेण लभ्यते।
सर्वे संयोगाः सर्वसंयोगाः इति कर्मधारये कृते, येषु संयोगेषु आत्मा संयोगित्वेन नास्ति ते अपि गृह्यन्ते।यथा सत्वरजस्तमसां संयोगः।एतादृशाः आत्मविरहिताः संयोगाः न अत्र विवक्षिताः।यतो हि आत्मविरहितानां संयोगानां नाशः मोक्षाय अकिञ्चित्करः।अतः चक्रपाणिकृतः विग्रहः एव उचितः।
१४३-१४६
[सम्पाद्यताम्]सतामुपासनं सम्यगसतां परिवर्जनम्।
व्रतचर्योपवासौ च नियमाश्च पृथग्विधाः।।१४३।।
धारणं धर्मशास्त्राणां विज्ञानं विजने रतिः।
विषयेष्वरतिर्मोक्षे व्यवसायः परा धृतिः।।१४४।।
कर्मणामसमारम्भः कृतानां च परिक्षयः।
नैष्क्रम्यमनहङ्कारः संयोगे भयदर्शनम्।।१४५।।
मनोबुद्धिसमाधानमर्थतत्त्वपरीक्षणम्।
तत्त्वस्मृतेरुपस्थानात् सर्वमेतत् प्रवर्तते।।१४६।।
पदच्छेदः-
सताम् उपासनं सम्यग् असतां परिवर्जनम्।
व्रतचर्या-उपवासौ च नियमाः च पृथग्विधाः।।१४३।।
धारणं धर्मशास्त्राणां विज्ञानं विजने रतिः।
विषयेषु अरतिः मोक्षे व्यवसायः परा धृतिः।।१४४।।
कर्मणाम् असमारम्भः कृतानां च परिक्षयः।
नैष्क्रम्यम् अनहङ्कारः संयोगे भयदर्शनम्।।१४५।।
मनोबुद्धिसमाधानम् अर्थतत्त्वपरीक्षणम्।
तत्त्वस्मृतेः उपस्थानात् सर्वम् एतत् प्रवर्तते।।१४६।।
अन्वयः-
सताम् सम्यग् उपासनम्, असतां परिवर्जनम्, व्रतचर्या-उपवासौ च,पृथग्विधाः नियमाः च धर्मशास्त्राणां धारणं, विज्ञानं, विजने रतिः, विषयेषु अरतिः, मोक्षे व्यवसायः, परा धृतिः, कर्मणाम् असमारम्भः, कृतानां (कर्मणां)परिक्षयः च, नैष्क्रम्यम्, अनहङ्कारः, संयोगे भयदर्शनं, मनोबुद्धिसमाधानम्, अर्थतत्त्वपरीक्षणम् (इति मोक्षोपायाः)।तत्त्वस्मृतेः उपस्थानात् एतत् सर्वं प्रवर्तते।।१४६।।
सरलार्थः-
सज्जनानां ताम् सम्यक् सेवा, दुर्जनानां परिवर्जनम्, व्रतचर्या, उपवासः, पृथग्विधाः नियमाः, धर्मशास्त्राणां धारणं, विज्ञानं, विजने रतिः, विषयेषु अरतिः, मोक्षे व्यवसायः, उत्तमा धृतिः, कर्मणाम् असमारम्भः, कृतानां (कर्मणां)परिक्षयः , प्रपञ्चात् निष्क्रमणस्य इच्छा, अनहङ्कारः, पुरुषस्य अन्यतत्त्वैः सह संयोगे भयदर्शनं, मनोबुद्धिसमाधानम्, अर्थतत्त्वपरीक्षणम् इति एते मोक्षोपायाः सन्ति। तत्त्वस्मृतेः उपस्थानात् एतत् सर्वं प्रवर्तते।।१४६।।
आयुर्वेददीपिका
प्रस्तावात् मोक्ष-उपायम् आह सताम् इत्यादि ।परा धृतिः इति अतिशयितं मनोनियमनम्। कर्मणाम् असमारम्भः इति अनागत-धर्म-अधर्म-साधनानाम् अकरणम्। कृतानां च परिक्षयः इति जन्मान्तरैः कृतानां कर्मणां फलोपभोगात् परिक्षयः।नैष्क्रम्यं संसारनिष्क्रमण-इच्छा। अनहङ्कारः इति मम इदम्, अहं ‘करोमि’ इत्यादिबुद्धिवर्जनम्। संयोगे इति आत्मशरीरादिसंयोगे। मनोबुद्धिसमाधानम् इति मनोबुद्ध्योः आत्मनि समाधानम्। ‘सर्वम् एतद्’ इति ‘कर्मणामसमारम्भः’ इत्यादि उक्तम् | तत्त्वस्मृतिः आत्मादीनां यथाभूतानुस्मरणं ; सा च ‘नात्मा शरीरादि-उपकार्यः, शरीरादयः च अमी आत्मव्यतिरिक्ताः, इत्यादिस्मरणरूपस्मृतिः।१४३-१४६
अरुन्धतीपद्धतिः –
सच्छब्देन अत्र जीवनमुक्ताः मुमुक्षवः च ग्राह्याः।असच्छब्देन मोक्षपराङ्मुखाः ग्राह्याः। धर्मशास्त्राणां धारणमिति धर्मशास्त्रानुसारम् आचरणम्।विज्ञानमिति अध्यात्मविज्ञानम्।
सूत्रे परा धृतिः इति उक्तम्।तस्याः साधनमाह याज्ञवल्क्यः मुनिः –
ऊरुस्थोत्तानचरणः सव्ये न्यस्योत्तरं करम्।
उत्तानं किञ्चिदुन्नाम्य मुखं विष्टभ्य चोरसा॥१९८
निमीलिताक्षः सत्त्वस्थो दन्तैर्दन्तानसंस्पृशन्।
तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः॥१९९
सन्निरुध्येन्द्रियग्रामं नातिनीचोच्छ्रितासनः।
द्विगुणं त्रिगुणं वापि प्राणायाममुपक्रमेत्॥२००
ततो ध्येयः स्थितो योऽसौ हृदये दीपवत्प्रभुः।
धारयेत् तत्र चात्मानं धारणां धारयन् बुधः॥२०१ याज्ञ.स्मृतिः।
तत्त्वस्मृतेरुपस्थानात् सर्वमेतत् प्रवर्तते।।१४६।।
इति सूत्रम्।तत्र ‘सर्वमेतत्’ इति पदे स्तः।अतः सतामुपासनम् इति एतस्मादारभ्य अर्थतत्त्वपरीक्षणम् इति एतत्पर्यन्तं सर्वे उपायाः तत्र ग्राह्याः।चक्रपाणिना कर्मणाम् असमारम्भः इति एतस्मादारभ्य अग्रिमाः उपायाः तावद् गृहीताः।ततः पूर्वं न गृहीताः।किमर्थम्?
तत्त्वस्मृतेरुपस्थानात् पूर्ववर्तिनः भावाः न प्रवर्तन्ते अतः ते न गृहीताः।
पूर्ववर्तिनः भावाः तत्त्वस्मृतेरुपस्थानात् न प्रवर्तन्ते इत्यत्र किं प्रमाणम्?
सत्सेवनाद्याः धृत्यन्ताः उपायाः तत्त्वस्मृतेः कारणभूताः।अतः तत्त्वस्मृतेः कार्यरूपाः ते न भवन्ति।
किमत्रापि प्रमाणम्?
अनागतावेक्षा तन्त्रयुक्तिः अत्र प्रमाणम्।अग्रिमे सूत्रे स्वयं मुनिः वदिष्यति यत्-
स्मृतिः सत्सेवनाद्यैश्च धृत्यन्तैरुपजायते।१४७
अतः चक्रपाणिना सत्सेवनादीनां धृत्यन्तानां समावेशः ‘एतत् सर्वम्’इति पदयोः अर्थे न कृतः तत् समीचीनमेव।
मोक्षोपायाः याज्ञवल्क्यमुनिना एवमुक्ताः –
आचार्योपासनं वेदशास्त्रार्थेषु विवेकिता।
तत्कर्मणाम् अनुष्ठानं सङ्गः सद्भिर्गिरः शुभाः॥१५६
स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनम्।
त्यागः परिग्रहाणां च जीर्णकाषायधारणम्॥१५७
विषयेन्द्रियसंरोधः तन्द्रालस्यविवर्जनम्।
शरीरपरिसङ्ख्यानं प्रवृत्तिष्ववदर्शनम्॥१५८
नीरजस्तमसा सत्त्वशुद्धिर्निःस्पृहता शमः।
एतैरुपायैः संशुद्धः सत्त्वयोग्यमृती भवेत्॥१५९
तत्त्वस्मृतेरुपस्थानात् सत्त्वयोगात् परिक्षयात्।
कर्मणां, सन्निकर्षात् च सतां, योगः प्रवर्तते॥१६० याज्ञ.स्मृतिः यतिधर्मप्र.
संयोगे भयदर्शनम् इति सूत्रे उक्तम्।तत्र विवक्षिताः संयोगाः नाम आत्मनः अन्यैः महदादिभावैः सह संयोगाः।तत्त्वस्मृतिः यदि अस्ति तर्हि एतादृशेषु संयोगेषु भयं जायते ।
१४७
[सम्पाद्यताम्]स्मृतिः सत्सेवनाद्यैश्च धृत्यन्तैरुपजायते।
स्मृत्वा स्वभावं भावानां स्मरन् दुःखात् प्रमुच्यते।।१४७।।
पदच्छेदः-
स्मृतिः सत्सेवनाद्यैः च धृत्यन्तैः उपजायते।
स्मृत्वा स्वभावं भावानां स्मरन् दुःखात् प्रमुच्यते।।१४७।।
अन्वयः-
स्मृतिः च सत्सेवनाद्यैः धृत्यन्तैः (उपायैः) उपजायते। भावानां स्वभावं स्मृत्वा, स्मरन् दुःखात् प्रमुच्यते।।१४७।।
सरलार्थः-
सत्सेवनाद् आरभ्य परा धृतिः इति एतत्पर्यन्तं ये उपायाः उक्ताः, तैः तत्त्वस्मृतिः जायते।(पुरुषः) भावानां स्वभावं स्मरति।ततः परस्परानुपकारकत्वं स्मरति, ततः दुःखात् मुक्तः भवति।
आयुर्वेददीपिका
अथ स्मृतिः कथं दुःखप्रमोषे कारणम् इति आह स्मृत्वा इत्यादि।स्वभावम् इति प्रत्यात्मनियतरूपम्। गुरुवचनात् हि प्रथमप्रतिपन्नम् आत्मादीनां रूपं परस्परभिन्नं परस्परानुपकारकत्वेन व्यवस्थितं स्मरन् न क्वचिद् अपि प्रवर्तते, अप्रवर्तमानः च न दुःखेन प्रवृत्तिजन्येन युज्यते इति अर्थः॥१४७॥
अरुन्धतीपद्धतिः –
सूत्रे स्मृत्वा स्मरन् इति द्विवारं प्रयोगः कृतः।गुरुमुखात् व्यक्तपदार्थस्य(प्रपञ्चस्य) अव्यक्तपदार्थस्य (प्रकृतेः) तथा पुरुषस्य स्वभावं पुरुषः शृणोति।स्वभावः इति स्वरूपम्।
अस्य ज्ञानस्य निरन्तरं स्मरणं तस्य भवति चेत् सः जानाति यत् ‘अहं ज्ञः।नेदं व्यक्तम् अव्यक्तं च मम उपकाराय भवति।‘
एषः परस्परोपकारकत्वाभावः तेन नित्यं स्मर्यते चेत् सः ‘कर्मणाम् असमारम्भः’ इत्यादीन् पूर्वसूत्रोक्तान् उपायान् अनुष्ठातुं समर्थः भवति।ततः प्रवृत्तिजन्यात् सुखदुःखात् मुक्तः भवति।
एवं भावानां स्वभावस्य स्मरणं तथा तेषां परस्पर-अनुपकारकत्वस्य स्मरणम् इति द्विधा स्मरणम् विवक्षितम्।तदर्थं द्विवारं स्मरतिधातोः प्रयोगः सूत्रे कृतः।
आदौ सत्सेवनादि-धृत्यन्तोपायानाम् अनुष्ठानम्।ततः तत्त्वस्मृतिः।ततः कर्म-असमारम्भादयः।ततः मोक्षः इति एषा कार्यकारणपरम्परा।
१४८-१४९
[सम्पाद्यताम्]वक्ष्यन्ते कारणान्यष्टौ स्मृतिर्यैरुपजायते।
निमित्तरूपग्रहणात् सादृश्यात् सविपर्ययात्।।१४८।।
सत्त्वानुबन्धादभ्यासाज्ज्ञानयोगात् पुनः श्रुतात्।
दृष्टश्रुतानुभूतानां स्मारणात् स्मृतिरुच्यते।।१४९।।
पदच्छेदः-
वक्ष्यन्ते कारणानि अष्टौ स्मृतिः यैः उपजायते।
निमित्तरूपग्रहणात् सादृश्यात् सविपर्ययात्।।१४८।।
सत्त्वानुबन्धाद् अभ्यासात् ज्ञानयोगात् पुनः श्रुतात्।
दृष्ट-श्रुत-अनुभूतानां स्मारणात् स्मृतिः उच्यते।।१४९।।
अन्वयः-
यैः स्मृतिः उपजायते,(तानि) अष्टौ कारणानि वक्ष्यन्ते । निमित्तरूपग्रहणात्, सादृश्यात्, सविपर्ययात्, सत्त्वानुबन्धाद्, अभ्यासात्, ज्ञानयोगात्, पुनः श्रुतात्
दृष्ट-श्रुत-अनुभूतानां स्मारणात् स्मृतिः उच्यते।।१४९।।
सरलार्थः-
यैः अष्टभिः कारणैः स्मृतिः जायते, तानि वदामि।कारणस्य ज्ञानं, आकृतेः ज्ञानं, सादृश्यं, विपर्ययः, सत्त्वानुबन्धः, अभ्यासः, ज्ञानयोगः, पुनः श्रवणम् इति एतानि अष्टौ स्मृतिप्रबोधकानि।एतैः दृष्टस्य, श्रुतस्य अनुभूतस्य स्मारणं क्रियते अतः स्मृतिः इति पदेन तस्य निर्देशः भवति।
आयुर्वेददीपिका
इदानीं स्मृतिप्रस्तावात् स्मृतिकारणान्याह- वक्ष्यन्त इत्यादि। निमित्तग्रहणं कारणज्ञानं, कारणं हि दृष्ट्वा कार्यं स्मरति। रूपग्रहणम् आकारग्रहणम् । यथा- वने गवयं दृष्ट्वा गां स्मरति। सादृश्याद् यथा- पितुः सदृशं पुरुषं दृष्ट्वा पितरं स्मरति। सविपर्ययादिति अत्यर्थवैसादृश्याद् अपि स्मरणं भवति; यथा- अत्यर्थकुरूपं दृष्ट्वा प्रतियोगिनम् अत्यर्थसुरूपं स्मरति। सत्त्वानुबन्धाद् इति मनसः प्रणिधानात्, स्मर्तव्यस्मरणाय प्रणिहितमनाः स्मर्तव्यं स्मरति। अभ्यासाद् इति अभ्यस्तम् अर्थम् अभ्यासबलाद् एव स्मरति। ज्ञानयोगाद् इति तत्त्वज्ञानयोगात्; उपजाततत्त्वज्ञानः हि तद्-बलाद् एव सर्वं स्मरति। पुनः श्रुताद् इति श्रुतः अपि अर्थः विस्मृतः पुनः एकदेशं श्रुत्वा स्मर्यते। स्मृतिकारणम् अभिधाय स्मृतिरूपम् आह- दृष्टेत्यादि।दृष्टं प्रत्यक्ष-उपलक्षणं, श्रुतं तु आगमप्रतीतं , तेन सर्वपूर्व-अनुभूतावरोधः। क्वचित्, ‘स्मरणं स्मृतिरुच्यते’ इति पाठः, तत्रापि न अर्थभेदः॥१४८-१४९॥
अरुन्धतीपद्धतिः –
स्मृतिकारणत्वेन उक्तानि एतानि अष्ट न साक्षात् स्मृतिकारणानि। स्मृतिजनकसंस्कारोद्बोधककारणानि एतानि।अतः परम्परया स्मृतिकारणानि।स्मृतिप्रक्रिया च एवम्
आत्ममनसोः संयोगविशेषात् संस्काराच्च स्मृतिः।वैशे.९.२.६
अत्र स्मृतौ आत्ममनसोः संयोगविशेषोऽसमवायिकारणम्।संस्कारो निमित्तकारणम्।आत्मा समवायिकारणम्।
संस्कारस्तु उद्बुद्धः एव स्मृतिं जनयति।- तर्कभाषा
प्रथमम् अनुभवः।ततः तस्य संस्कारः आत्मनि भवति।तस्य संस्कारस्य उद्बोधनं कुतश्चित् कारणात् भवति।ततः उद्बुद्धात् संस्कारात् स्मरणं भवति।
एतच्च न्यायमतानुसारम्। साङ्ख्यमते तु स्मृतेः समवायिकारणं बुद्धिः एव न आत्मा।साङ्ख्यमते प्रथमम् अनुभवः।ततः तस्य संस्कारः बुद्धौ भवति।तस्य संस्कारस्य उद्बोधनं कुतश्चित् कारणात् भवति।ततः उद्बुद्धात् संस्कारात् स्मरणं भवति।
संस्कारः आत्मनि भवतु वा बुद्धौ भवतु।स्मृत्यर्थं संस्कारस्य उद्बोधः आवश्यकः।
संस्कारस्य उद्बोधकानि यानि निमित्तरूपग्रहणादीनि कारणानि, तानि अत्र स्मृतिहेतुत्वेन वर्ण्यन्ते।
चणकपिष्टभक्षणाद् वातः प्रकुप्यति’ इति कार्यकारणभावः पूर्वं येन अनुभूतः, सः चणकपिष्टं दृष्ट्वा वातप्रकोपं स्मरति।एतत् कारणग्रहणात् कार्यस्मरणम्।
यत् स्मर्तव्यं तस्य स्मरणार्थं पुरुषः चित्तमेकाग्रं कुरुते चेत् स्मरणं भवति।एतदेव सत्त्वानुबन्धनम्।
श्रुतपूर्वस्य कस्यचित् श्लोकस्य स्मरणं न भवति।तदा कश्चन अपरः तं श्लोकस्य प्रथमचरणं श्रावयति।एवं प्रथमचरणस्य पुनः श्रवणात् पूर्णं श्लोकं सः स्मरति।
सूत्रे दृष्टश्रुतयोः उल्लेखः अस्ति।दृष्टं नाम चक्षुषा गृहीतम्।श्रुतं नाम श्रोत्रेण गृहीतम्।तेन पूर्वानुभूतस्य गन्धस्य, स्पर्शस्य, रसस्य च स्मरणम् अनुक्तं भवति।तच्च अनिष्टम्।अतः पदार्थतन्त्रयुक्त्या चक्रपाणिः अत्र विवरणं करोति। दृष्टपदेन सर्वेषां प्रत्यक्षानुभवानां ग्रहणं सः सूचयति।तेन गन्धस्पर्शरसाणां स्मरणम् अपि उक्तं भवति।
च.शा.१.१३०-१४१ चरकसंहिता-आयुर्वेददीपिकयोः अरुन्धती-पद्धतिः च.शा.१.१५०-१५६