च.शा.१.१५०-१५६

विकिपुस्तकानि तः
Jump to navigation Jump to search

१५०-१५१[सम्पाद्यताम्]

एतत्तदेकमयनं मुक्तैर्मोक्षस्य दर्शितम्। तत्त्वस्मृतिबलं, येन गता न पुनरागताः॥१५०॥
अयनं पुनराख्यातमेतद्योगस्य योगिभिः। सङ्ख्यातधर्मैः साङ्ख्यैश्च मुक्तैर्मोक्षस्य चायनम्॥१५१॥

पदच्छेदः-
एतत् तद् एकम् अयनं मुक्तैः मोक्षस्य दर्शितम्। तत्त्वस्मृतिबलं, येन गताः न पुनरागताः॥१५०॥
अयनं पुनर् आख्यातम् एतद् योगस्य योगिभिः। सङ्ख्यातधर्मैः साङ्ख्यैः च मुक्तैः मोक्षस्य च अयनम्॥१५१॥

अन्वयः-
मुक्तैः एतत् तद् एकं मोक्षस्य तत्त्वस्मृतिबलम् अयनं दर्शितम्,, येन गताः न पुनः आगताः॥१५०॥ पुनः योगिभिः योगस्य एतद् अयनम् आख्यातम् । सङ्ख्यातधर्मैः मुक्तैः साङ्ख्यैः च मोक्षस्य (एतद्) अयनम् (आख्यातम्)।॥१५१॥

सरलार्थः-
जीवन्मुक्तैः मोक्षस्य एषः मार्गः प्रदर्शितः।अस्मिन् मार्गे तत्त्वस्य स्मृतिः एव बलं भवति।अनेन मार्गेण ये मोक्षं गताः ,ते पुनः न आगताः।योगविद्भिः अपि एषः एव योगस्य मार्गः कथितः।यैः तत्त्वानां गणना कृता, तैः साङ्ख्यैः आपि मोक्षस्य एषः एव मार्गः उपदिष्टः।

आयुर्वेददीपिका
एवं स्मृतिं सामान्येन प्रतिपाद्य तत्त्वस्मृतेः मोक्षसाधकत्वं दर्शयन आह एतद् इत्यादि। एकम् अयनम् इति श्रेष्ठः पन्थाः। मुक्तैः इति जीवन्मुक्तैः इति ज्ञेयं, सर्वथामुक्तानां शरीर-अभावेन-उपदर्शकत्व-अभावात्। तत्त्वस्मृतिबलम् इति तत्त्वस्मृतिरूपं बलं; किंवा, तत्त्वस्मृतिः बलं यत्र मोक्षसाधनमार्गे तत् तत्त्वस्मृतिबलम्। येन इति येन यथा। गताः इति मोक्षं गताः न पुनः आगताः इति मुक्तिं याताः न पुनः आगच्छन्ति॥१५०-१५१॥

अरुन्धतीपद्धतिः –
मुक्तशब्दस्य ‘जीवन्मुक्तः’ इति अर्थः टीकाकारेण कृतः तत्र सम्भवतन्त्रयुक्तिः आधारः। मुक्ताः द्विविधाः जीवन्मुक्ताः विदेहमुक्ताः च।तत्र विदेहमुक्ताः देहाभावात् उपदेशं न कुर्वन्ति। उपदेष्टृत्वं सम्भवति जीवन्मुक्तेषु एव ।अतः सम्भवतन्त्रयुक्त्या अत्र मुक्तशब्देन जीवन्मुक्ताः एव ग्राह्याः।
तत्त्वस्मृतिबलम् इति समासस्य द्विधा विग्रहं दर्शयति चक्रपाणिः।तत्त्वस्मृतिरूपं बलम् इति कर्मधारयः।अस्मिन् विग्रहे कृते एषः आशयः बुद्ध्यते- ‘मुक्तेः एषः मार्गः।मार्गक्रमणाय तत्त्वस्मृतिः इति बलम्।येन बलेन गतअः पुनः न आगच्छन्ति।
तत्त्वस्मृतिः बलं यत्र तत् तत्त्वस्मृतिबलम् इति बहुव्रीहिः।अस्मिन् विग्रहे कृते अयनशब्दस्य विशेषणं भवति तत्त्वस्मृतिबलम् ।तत्त्वस्मृतिबलम् अयनं दर्शितम् इति अन्वयः।उभयत्र आशये न अन्तरं विद्यते।

१५२-१५३[सम्पाद्यताम्]

सर्वं कारणवद्दुःखमस्वं चानित्यमेव च। न चात्मकृतकं तद्धि तत्र चोत्पद्यते स्वता॥१५२॥
यावन्नोत्पद्यते सत्या बुद्धिर्नैतदहं यया। नैतन्ममेति विज्ञाय ज्ञः सर्वमतिवर्तते॥१५३॥

पदच्छेदः-
सर्वं कारणवद् दुःखम् अस्वं च अनित्यम् एव च। न च आत्मकृतकं तद् हि तत्र च उत्पद्यते स्वता॥१५२॥
यावद् न उत्पद्यते सत्या बुद्धिः न एतद् अहं यया। न एतद् मम इति विज्ञाय ज्ञः सर्वम् अतिवर्तते॥१५३॥

अन्वयः-
सर्वं कारणवद् दुःखम् ,अस्वं च अनित्यम् एव च। हि तद् च न आत्मकृतकम्। तत्र च (तावत्कालं) स्वता उत्पद्यते ,यावत् सत्या बुद्धिः न उत्पद्यते। यया (सत्यया बुद्ध्या ) ‘अहं एतद् न’ ‘एतद् मम न’ इति विज्ञाय ज्ञः सर्वम् अतिवर्तते॥१५३॥

सरलार्थः-
यद् यत् कारणवत् तत् तत् सर्वं दुःखरूपं तथा आत्मव्यतिरिक्तम् अनित्यं च अस्ति।तत् आत्मजन्यम् अपि नास्ति।परन्तु तत्र स्वीयभावः उत्पद्यते। यावत् सत्या बुद्धिः न उत्पद्यते, तावद् अयं स्वीयभावः विद्यते।सत्यया बुद्ध्या अहम् एतद् बुद्ध्यादिस्वरुपः नास्मि।मम एतद् बुद्ध्यादिप्रपञ्चजातं नास्ति इति पुरुषः जानाति।तदा सः ज्ञानी भूत्वा सर्वं प्रकृतिप्रपञ्चं त्यजति।

आयुर्वेददीपिका
इदानीं सङ्क्षेपेण संसारहेतुम् अज्ञानं, तथा मोक्षहेतुं च सम्यग् अज्ञानं दर्शयन् आह सर्वम् इत्यादि।सर्वं कारणवद् इति सर्वम् उत्पद्यमानं बुद्धि-अहङ्कार-शरीरादि। दुःखम् इति दुःखहेतुः एव। अस्वम् इति सर्वं कारणवद् एव आत्मव्यतिरिक्तं परमार्थतः। न च आत्मकृतकम् इति न च आत्मना उदासीनेन कृतम्। तत्र इति कारणवति बुद्धिशरीरादौ। स्वता इति ममता ‘मम इयं बुद्धिः’ इत्यादिरूपा। अथ कियन्तं कालम् इयं भ्रान्त्या युतोत्पद्यते इति आह यावद् इत्यादि । सत्या बुद्धिः सम्यगज्ञानम्। यया सत्यया बुद्ध्या। नैतद् बुद्ध्याद्यहं, किन्तु भिन्न एवाहं; तथा नैतद् बुद्ध्यादि मम, किन्तु प्रकृतेः प्रपञ्च इति विज्ञाय। ज्ञः तत्त्वसाक्षात्कारवान्। सर्वमतिवर्तत इति सर्वं बुद्ध्यादि त्यजति॥१५२-१५३॥

अरुन्धतीपद्धतिः –
स्वशब्देन अत्र चेतनाधातुः आत्मा ग्राह्यः।प्रकृत्यादिप्रपञ्चः अस्वः अस्ति इत्युक्ते पुरुषस्य स्वरूपभूतः नास्ति। तथापि अहमेव बुद्ध्यादिप्रपञ्चः इति भ्रमः भवति।
प्रकृत्यादिप्रपञ्चः आत्मकृतकः नास्ति इत्युक्ते आत्मना निर्मितः नास्ति।तथापि पुरुषस्य भ्रमः भवति यद् मम अयं प्रपञ्चः।

१५४[सम्पाद्यताम्]

तस्मिंश्चरमसन्न्यासे समूलाः सर्ववेदनाः। ससञ्ज्ञाज्ञानविज्ञाना निवृत्तिं यान्त्यशेषतः॥१५४॥

पदच्छेदः-
तस्मिन् चरमसन्न्यासे समूलाः सर्ववेदनाः। ससञ्ज्ञा-ज्ञान-विज्ञानाः निवृत्तिं यान्ति अशेषतः॥१५४॥

अन्वयः-
तस्मिन् चरमसन्न्यासे सर्ववेदनाः समूलाः, ससञ्ज्ञा-ज्ञान-विज्ञानाः,अशेषतः निवृत्तिं यान्ति ॥१५४॥

सरलार्थः-
विद्वत्संन्यासदशायां सर्वाः वेदनाः निवृत्तिं यान्ति।वेदनानां मूलं बुद्ध्यादिप्रपञ्चः। सः अपि निवृत्तिं याति।निर्विकल्प-सविकल्प-अध्यवसाय-ज्ञानानि अपि निवृत्तिं यान्ति।

आयुर्वेददीपिका
चरम-सन्न्यासः इति पश्चाद्भावि-सकलकर्म-सन्न्यासे। प्रथमं हि मोक्ष-उपयोगित्वेन गुरुवचनात् क्रियासन्न्यासः कृतः एव, परं स्व-अनुभवविरक्तेन न कृतः; अभ्यासाद् उद्भूतेन ज्ञानेन साक्षाद् दृष्टभावस्वभावेन यः सर्वसन्न्यासः क्रियते, तत्र समूलाः सर्ववेदनाः ज्ञानादयः च शरीर-उपरमाद् एव उपरमन्ते। समूलाः इति सकारणाः, कारणं च बुद्धि-आदयः। सञ्ज्ञा आलोचनं निर्विकल्पकं, ज्ञानं सविकल्पकं, विज्ञानं बुद्ध्यवसायः; किंवा, सञ्ज्ञा नाम उल्लेखेन ज्ञानं, विज्ञानं शास्त्रज्ञानम्। तत्त्वज्ञानम् अपि हि मोक्षं जनयित्वा निवर्तते एव, कारण-अभावात्॥१५४॥

अरुन्धतीपद्धतिः –
संन्यासो द्विविधः, विविदिषासंन्यासः विद्वत्संन्यासः च।तत्र ज्ञानात् पूर्वं ज्ञानसाधनभूतो विविदिषासंन्यासः।ज्ञानोत्तरं ज्ञानफलभूतः विद्वत्संन्यासः।
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी।
नवद्वारे पुरे देही नैव कुर्वन् न कारयन् ॥
इत्यनेन भगवता उक्तः संन्यासः विद्वत्संन्यासः।स एव प्रकृते चरमसंन्यासशब्देन विवक्षितः।
ननु ज्ञानोत्तरं वेदनाः समूलाः नश्यन्ति, संज्ञाज्ञानविज्ञानानि नश्यन्ति इति यदुक्तं तद् न सङ्गच्छते।यतो हि ‘अहं ज्ञः’ इति ज्ञानाद् उत्तरकाले अपि देहः अनुवर्तते।देहश्च वेदनानाम् अधिष्ठानम् इति उक्तम्।बुद्ध्यादयः अपि वर्तन्ते।कथं तर्हि समूलवेदनानाशः सम्भवति?
अस्योत्तरमुक्तं चक्रपाणिना ‘समूलाः सर्ववेदनाः ज्ञानादयः च शरीर-उपरमाद् एव उपरमन्ते’ इति।
अयं देहः प्रारब्धकर्मणां परिपाकः।यावत् तानि प्रारब्धकर्माणि न क्षीयन्ते तावदेषः देहः अनुवर्तिष्यते एव सत्यपि ज्ञाने।प्रारब्धकर्मणां भोगादेव क्षयः।तस्मात् ज्ञानोत्तरमपि यावद्देहम् एताः वेदनाः वर्तन्ते।देहपाते तु सर्वाः वेदनाः समूलाः नाशं यान्ति।
भवतु ज्ञानेन सर्ववेदनानाशः ज्ञानविज्ञाननाशः।‘अहं ज्ञः’ इति ज्ञानं तु अवशिष्यते एव।कथं तर्हि उक्तं वेदनाः ससंज्ञा-ज्ञान-विज्ञनाः निवृत्तिं यान्ति’ इति?
तत्रोत्तरमाह चक्रपाणिः ‘तत्त्वज्ञानम् अपि हि’ इत्यादि।
अध्यवसायो बुद्धेर्धर्मो ज्ञानं विराग ऐश्वर्यम्। –साङ्ख्यकारिका २३
अतः बुद्धिः आश्रयभूता।तत्त्वज्ञानम् आश्रितम्।बुद्धिः निवर्तते चेत् त्तत्त्वज्ञानमपि निवर्तते एव।

१५५[सम्पाद्यताम्]

अतः परं ब्रह्मभूतो भूतात्मा नोपलभ्यते। निःसृतः सर्वभावेभ्यश्चिह्नं यस्य न विद्यते। ज्ञानं ब्रह्मविदां चात्र नाज्ञस्तज्ज्ञातुमर्हति।।१५५।।

पदच्छेदः-
अतः परं ब्रह्मभूतः भूतात्मा न उपलभ्यते। निःसृतः सर्वभावेभ्यः चिह्नं यस्य न विद्यते। ज्ञानं ब्रह्मविदां च अत्र न अज्ञः तद् ज्ञातुम् अर्हति।।१५५।।

अन्वयः-
अतः परं सर्वभावेभ्यः निःसृतः, ब्रह्मभूतः ,यस्य चिह्नं न विद्यते (तादृशः) भूतात्मा न उपलभ्यते।अत्र च ब्रह्मविदां ज्ञानं (सम्भवति)। अज्ञः तद् ज्ञातुम् न अर्हति।।१५५।।

सरलार्थः-
अतः परं सर्वभावेभ्यः विमुक्तः, ब्रह्मस्वरूपः ,चिह्नरहितः भूतात्मा न ज्ञायते।अस्मिन् विषये ब्रह्मविदां ज्ञानं सम्भवति। अज्ञः जनः तद् ज्ञातुम् न अर्हति।।१५५।।

आयुर्वेददीपिका
‘सर्वविद्’ इत्यादि-प्रश्नस्य उत्तरम् अतः परम् इत्यादि।ब्रह्मभूतः इति प्रकृत्यादिरहितः। चिह्नं यस्य न विद्यते इति अनेन मुक्तात्मनः प्राण-अपान-आदि-आदि-आत्मलिङ्ग-अभावाद् गमकं चिह्नं न अस्ति एव इति दर्शद्यति। न क्षरति अन्यथात्वं न गच्छति इति अक्षरम्। अविद्यमानं लक्षणं यस्य इति अलक्षणम्। एतस्य एव मोक्षस्य इतरपुरुष-अज्ञेयतां दर्शयति ज्ञानम् इत्यादि। ब्रह्मविदाम् एव अत्र मनः प्रत्येति, न अज्ञानाम् अहङ्कारादि-वासनागृहीतानाम् इति अर्थः॥१५५॥

अरुन्धतीपद्धतिः –
ब्रह्मभूतः इति पदं मूले विद्यते।ब्रह्म एव भूतः ब्रह्मभूतः इति कर्मधारयः तत्र अभिप्रेतः। एवकारः अन्यव्यवच्छेदकः भवति।अत्र प्रकृत्यादीनाम् अन्यतत्त्वानां व्यवच्छेदार्थम् एवकारः योजितः।तस्मात् ब्रह्मभूतः इत्यस्य प्रकृत्यादिरहितः इति व्याख्यानं करोति चक्रपाणिः।
‘न क्षरति’ इत्यदिना ‘अलक्षणम्’ इति एतत्पर्यन्तं चक्रपाणिना यद् व्याख्यानं कृतं तस्य मूलम् अस्मिन् पुस्तके न दृश्यते।अक्षरम् तथा अलक्षणम् इति एतत्पदद्वययुक्ता काचित् पङ्क्तिः अत्र अस्ति इति अनुमीयते।अयं चानुमानप्रयोगः -
एते पदे मूलग्रन्थस्थे
चक्रपाणिकृत-व्याख्यानदर्शनात्।
यत्र यत्र चक्रपाणिकृत-व्याख्यानदर्शनं तत्र तत्र मूलग्रन्थस्थत्वम्।
यथा ‘अथातः कतिधापुरुषीयं शारीरं व्याख्यास्यामः’ इति पदानि।
अस्मिन् पुस्तके तत्सूत्रं लुप्तं दृश्यते।
साङ्ख्यकारिकाविषये अपि एवं कारिकालोपः दृश्यते।साङ्ख्यकारिकायां सप्ततिः कारिकाः सन्ति इति स्वयं ग्रन्थकारः वदति।अधुना नवषष्टिकारिकाः एव उपलभ्यन्ते। एकषष्टितम-कारिकायां गौडपादभाष्ये कतिपयपदानि व्यख्यातानि, यानि एकषष्टितमकारिकायां नैव सन्ति।अतः तत्रापि इदमनुमानं भवति यत् तानि व्याख्यातानि पदानि मूलग्रन्थे सन्ति, गौडपादकृतव्यख्यानदर्शनात्। व्याख्यानात् तानि पदानि चित्वा चित्वा लुप्ता कारिका कल्पयितुं शक्यते।एतच्च कठिनं कार्यं कृतं लोकमान्य-टिळकमहोदयेन।(गीतारहस्ये सप्तमं प्रकरणम्।पृ.१६०-१६१)
अत्रापि लुप्तसूत्रकल्पनार्थं तथा प्रयासः कार्यः।

१५६[सम्पाद्यताम्]

तत्र श्लोकः-
प्रश्नाः पुरुषमाश्रित्य त्रयोविंशतिरुत्तमाः। कतिधापुरुषीयेऽस्मिन्निर्णीतास्तत्त्वदर्शिना॥१५६॥

पदच्छेदः-
प्रश्नाः पुरुषम् आश्रित्य त्रयोविंशतिः उत्तमाः। कतिधापुरुषीये अस्मिन् निर्णीताः तत्त्वदर्शिना॥१५६॥

अन्वयः-
तत्र श्लोकः अस्मिन् कतिधापुरुषीये (अध्याये) तत्त्वदर्शिना (मुनिना) पुरुषम् आश्रित्य त्रयोविंशतिः उत्तमाः प्रश्नाः निर्णीताः ॥१५६॥

सरलार्थः-
अस्मिन् कतिधापुरुषीयनामके अध्याये तत्त्वज्ञेन पुनर्वसुमुनिना पुरुषविषयकाणां त्रयोविंशति-प्रश्नानां निर्णयः उत्तमरीत्या उक्तः॥१५६

आयुर्वेददीपिका
सङ्ग्रहो व्यक्तः॥१५६॥

अरुन्धतीपद्धतिः –
एते त्रयोविंशतिः प्रश्नाः तथा तेषामुत्तराणि एवम् -
अग्निवेशस्य प्रश्नः०१ - कतिधा पुरुषो धीमन्! धातुभेदेन भिद्यते?च.शा.१.३
पुनर्वसोः उत्तरम् - खादयश्चेतनाषष्ठा धातवः पुरुषः स्मृतः। च.शा.१.१६

अग्निवेशस्य प्रश्नः ०२- पुरुषः कारणं कस्मात्? च.शा.१.३
पुनर्वसोः उत्तरम्- भास्तमः...। च.शा.१.३९

अग्निवेशस्य प्रश्नः ०३- प्रभवः पुरुषस्य कः? च.शा.१.३
पुनर्वसोः उत्तरम् -प्रभवो न ह्यनादित्वात् विद्यते परमात्मनः। पुरुषो राशिसञ्ज्ञस्तु मोहेच्छाद्वेषकर्मजः । च.शा.१.५३

अग्निवेशस्य प्रश्नः ०४ -किमज्ञो ज्ञः, सः? च.शा.१.
पुनर्वसोः उत्तरम् -आत्मा ज्ञः। च.शा.१.५४

अग्निवेशस्य प्रश्नः ०५ -स नित्यः किं? किमनित्यो निदर्शितः? च.शा.१.४
पुनर्वसोः उत्तरम् -अनादिः पुरुषो नित्योविपरीतस्तु हेतुजः। च.शा.१.५९

अग्निवेशस्य प्रश्नः ०६ - प्रकृतिः का? च.शा.१.४
पुनर्वसोः उत्तरम् -खादीनि ...भूतप्रकृतिरुद्दिष्टा... च.शा.१.

अग्निवेशस्य प्रश्नः ०७ - विकाराः के? च.शा.१.४
पुनर्वसोः उत्तरम् - विकाराश्चैव ...विकारा इति सञ्ज्ञिताः॥ च.शा.१.६४॥

अग्निवेशस्य प्रश्नः ०८ - किं लिङ्गं पुरुषस्य च? च.शा.१.४
पुनर्वसोः उत्तरम् - प्राणापानौ ... लिङ्गानि परमात्मनः॥ च.शा.१.७२॥

अग्निवेशस्य प्रश्नः ०९- निष्क्रियस्य क्रिया तस्य भगवन्! विद्यते कथम्।? च.शा.१.६
पुनर्वसोः उत्तरम् -अचेतनं क्रियावच्च मनश्चेतयिता परः।युक्तस्य मनसा तस्य निर्दिश्यन्ते विभोः क्रियाः ।च.शा.१.७५

अग्निवेशस्य प्रश्नः १०- स्वतन्त्रश्चेदनिष्टासु कथं योनिषु जायते? च.शा.१.६
पुनर्वसोः उत्तरम् - यथास्वेनात्मनाऽऽत्मानं सर्वः सर्वासु योनिषु। प्राणैस्तन्त्रयते प्राणी न ह्यन्योऽस्त्यस्य तन्त्रकः॥ च.शा.१.७७॥

अग्निवेशस्य प्रश्नः ११ - वशी यद्यसुखैः कस्माद् भावैराक्रम्यते बलात्? च.शा.१.७
पुनर्वसोः उत्तरम् - वशी तत् कुरुते कर्म यत् कृत्वा फलमश्नुते।वशी चेतः समाधत्ते वशी सर्वं निरस्यति॥ च.शा.१.७८

अग्निवेशस्य प्रश्नः १२- सर्वाः सर्वगतत्वाच्च वेदनाः किं न वेत्ति सः? च.शा.१.७
पुनर्वसोः उत्तरम् - देही सर्वगतोऽप्यात्मा स्वे स्वे संस्पर्शनेन्द्रिये।सर्वाः सर्वाश्रयस्थास्तु नात्माऽतो वेत्ति वेदनाः ॥ च.शा.१.७९॥

अग्निवेशस्य प्रश्नः - १३ न पश्यति विभुः कस्मात् शैलकुड्यतिरस्कृतम्? च.शा.१.८ पुनर्वसोः उत्तरम् मनसश्च समाधानात् पश्यत्यात्मा तिरस्कृतम् ॥ च.शा.१.८०॥

अग्निवेशस्य प्रश्नः १४ - क्षेत्रज्ञः क्षेत्रमथवा किं पूर्वम् ? च.शा.१.८
पुनर्वसोः उत्तरम् -आदिर्नास्त्यात्मनः क्षेत्र-पारम्पर्यम् अनादिकम्।अतस्तयोरनादित्वात् किं पूर्वमिति नोच्यते ॥ च.शा.१.८२॥
१ अग्निवेशस्य प्रश्नः १५ - साक्षिभूतश्च कस्यायं ? च.शा.१.१०
पुनर्वसोः उत्तरम् - ज्ञः साक्षीत्युच्यते नाज्ञः साक्षी त्वात्मा यतः स्मृतः।सर्वे भावा हि सर्वेषां भूतानामात्मसाक्षिकाः॥ च.शा.१.८३॥

अग्निवेशस्य प्रश्नः १६- स्यात् कथं चाविकारस्य विशेषो वेदनाकृतः? च.शा.१.१०
पुनर्वसोः उत्तरम् - नैकः कदाचिद्भूतात्मा लक्षणैरुपलभ्यते। विशेषोऽनुपलभ्यस्य तस्य नैकस्य विद्यते॥८४॥संयोगपुरुषस्येष्टो विशेषो वेदनाकृतः।॥ च.शा.१.८५॥

अग्निवेशस्य प्रश्नः १७ - वैद्यः आर्तस्य अतीतां वेदनां चिकित्सति वा? च.शा.१.११
पुनर्वसोः उत्तरम् - अतीतानां प्रशमनं वेदनानां तदुच्यते। च.शा.१.८९

अग्निवेशस्य प्रश्नः १८ - वैद्यः आर्तस्य वर्तमानां वेदनां चिकित्सति वा? च.शा.१.११
पुनर्वसोः उत्तरम् - पारम्पर्यानुबन्धस्तु दुःखानां विनिवर्तते। च.शा.१.९२

अग्निवेशस्य प्रश्नः १९ - वैद्यः आर्तस्य भविष्यतीम् वेदनां चिकित्सति वा? च.शा.१.११
पुनर्वसोः उत्तरम् - या क्रिया क्रियते सा च वेदनां हन्त्यनागताम्। च.शा.१.९१

अग्निवेशस्य प्रश्नः २० - कारणं वेदनानां किम्? च.शा.१.१३
पुनर्वसोः उत्तरम् - उपधा हि परो हेतुः ...। धीधृतिस्मृति-विभ्रंशः सम्प्राप्तिः कालकर्मणाम्। असात्म्यार्थागमश्चेति ज्ञातव्या दुःखहेतवः ।च.शा.१.९८

अग्निवेशस्य प्रश्नः २१ - वेदनानां किमधिष्ठानमुच्यते? च.शा.१.१३
पुनर्वसोः उत्तरम् - वेदनानामधिष्ठानं मनो देहश्च सेन्द्रियः।१३६

अग्निवेशस्य प्रश्नः २२ - क्व चैता वेदनाः सर्वा निवृत्तिं यान्त्यशेषतः? च.शा.१.१३
पुनर्वसोः उत्तरम् - योगे मोक्षे च सर्वासां वेदनानाम् अवर्तनम्। च.शा.१.१३७

अग्निवेशस्य प्रश्नः २३ - सर्ववित् सर्वसन्न्यासी सर्वसंयोगनिःसृतः।एकः प्रशान्तो भूतात्मा कैर्लिङ्गैरुपलभ्यते? च.शा.१.१४
पुनर्वसोः उत्तरम् -...चिह्नं यस्य न विद्यते। च.शा.१.१५५

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने कतिधापुरुषीयं शारीरं नाम प्रथमोऽध्यायः||१||

आयुर्वेददीपिका
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां शारीरस्थाने कतिधापुरुषीयं शारीरं नाम प्रथमोऽध्यायः||१||

इति चरक-आयुर्वेददीपिकयोः अरुन्धतीपद्धत्यां शारीरस्थाने कतिधापुरुषीयं शारीरं नाम प्रथमोऽध्यायः||१||

च.शा.१.१४२-१४९     चरकसंहिता-आयुर्वेददीपिकयोः अरुन्धती-पद्धतिः
"https://sa.wikibooks.org/w/index.php?title=च.शा.१.१५०-१५६&oldid=6399" इत्यस्माद् पुनः प्राप्तिः