तुरग-खुर-हतः .....आश्रमद्रुमेषु ॥१.३२॥

विकिपुस्तकानि तः

तुरगखुरहतस्तथा हि रेणुर्विटपविषक्तजलार्द्रवल्कलेषु । पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु ॥१.३२॥

पदच्छेदः-
तुरग-खुर-हतः तथा हि रेणुः विटप-विषक्त-जलार्द्र-वल्कलेषु । पतति परिणत-अरुणप्रकाशः शलभसमूहः इव आश्रमद्रुमेषु ॥१.३२॥

अन्वयः-
तथा हि तुरग-खुर-हतः परिणत-अरुणप्रकाशः रेणुः विटप-विषक्त-जलार्द्र-वल्कलेषु शलभसमूहः आश्रमद्रुमेषु इव पतति॥१.३२॥

सन्दर्भः-

सरलार्थः-
यथा शलभानां समूहः आश्रमस्थेषु वृक्षेषु पतति, तथा अश्वानां खुरैः आहतः सान्ध्यप्रकाशः इव धूलिकणसमूहः वृक्षशाखासु अवलम्बितेषु आर्द्रवल्कलेषु पतति।१.३२

वृत्तम् –
आर्या

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि   अभिज्ञानशाकुन्तले आर्यावृत्तनिबद्धानि पद्यानि
वाचं .....दृष्टिः अस्याः ॥१.३१॥     तीव्र-आघात-.....स्यन्दन-आलोक-भीतः ॥१.३३॥