पाणिनिसम्प्रदाये पदविभागः

विकिपुस्तकानि तः

पाणिनिसम्प्रदाये पदविभागः।टिप्पनीं लिखत

द्विधा कैश्चित् पदं भिन्नं, चतुर्धा पञ्चधापि च।–वाक्यपदीयम्३.३.३
पाणिनिसम्प्रदाये केचन पदद्वैविध्यं मन्यन्ते, केचन चतुर्धा पदम् इति मन्यन्ते केचन पञ्चधा पदम् इति मन्यन्ते।

द्विविधपदवादः
नाम तथा आख्यातम् इति पदस्य भेदद्वयमेव इति केचन वदन्ति।यथा -
भावप्रधानम् आख्यातम् ।सत्त्वप्रधानानि नामानि।–निरुक्तम्१.१
भावः क्रिया।काशिका २.३.३७
गच्छति पठति लिखति इत्यादीनि आख्यातानि।एतानि पूर्वापरीभूताम् चलस्वरूपां क्रियां बोधयन्ति।
गौः अश्वः हस्ती इत्यादीनि नामानि।यतो हि स्थिरपदार्थान् एतानि बोधयन्ति।

पदचतुष्टयवादः
केचन वैयाकरणाः पदस्य चातुर्विध्यम् अङ्गीकुर्वन्ति यथा-
चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्च।महाभाष्यम्१.१
उपसर्गाः क्रियायोगे।अष्टा.१.४.४९
प्रादयः क्रियायोगे उपसर्गसंज्ञकाः भवन्ति।प्र, परा, अप, सम्, अनु, अव, निस्, निर, दुस्, दुर्, वि, आङ्, नि, अधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप एते प्रादयः।
चादयोऽसत्त्वे।अष्टा.
उच्चावचेष्वर्थेषु निपतन्ति।निरुक्तम् १.४
चादयः यदा लिङ्गसङ्ख्यारहितानां पदार्थानां वाचकाः भवन्ति, तदा निपाताः उच्यन्ते।एते उपमादिषु विविधेषु अर्थेषु प्रयुज्यन्ते।क्वचित् एते पदपूरणार्थाः अतः निरर्थकाः भवन्ति।

पदपञ्चकवादः
नाम आख्यातम् उपसर्गाः निपाताः तथा कर्मप्रवचनीयाः इति पदं पञ्चविधं केचन मन्यन्ते।
कर्म प्रोक्तवन्तः इति कर्मप्रवचनीयाः।म.भाष्यम्
एते स्वरूपतः उपसर्गाः एव।तथापि क्रियाभिः सह न भवन्ति अतः तेषां पृथग् गणना एतैः क्रियते।यथा
‘अर्जुनम् अनुगच्छन्ति योद्धारः’ इत्यत्र अनु इति उपसर्गः।
‘अन्वर्जुनं योद्धारः’ इत्यत्र अनु इति कर्मप्रवचनीयः।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे पाणिनिदर्शनम्