पातञ्जलयोगसुत्रम्

विकिपुस्तकानि तः

पातञ्जलयोगसूत्रपाठः[सम्पाद्यताम्]

प्रथमः समाधिपादः[सम्पाद्यताम्]

अथ योगानुशासनम् । १ ॥

योगश्चित्तवृत्तिनिरोध। ॥ २ ॥

तदा द्रष्टुः स्वरूपेऽवस्थानम् ।। ३ ॥

वृत्तिसारूप्यमितरत्र ।। ४ ।।

वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टा: ।। ५ ।।

प्रमाणविपर्यय विकल्प निद्रास्मृतयः ।। ६ ।।

प्रत्यक्षानुमानागमाः प्रमाणानि ।। ७ ॥

विपर्ययो मिथ्याज्ञानमतद्र पप्रतिष्ठम् ।। ८ ॥

शब्दज्ञानानुपाती वस्तुशून्यो विकल्प: ॥ ९॥

अभावप्रत्ययालम्बना वृत्तिनिद्रा ।। १० ॥

अनुभूतविषयासंप्रमोष: स्मृतिः ॥ ११ ॥

अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥

तत्र स्थितो यत्नोऽभ्यासः ।। १३ ॥

स तु दीर्घकालनरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १४ ॥

दृष्टानुनविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १५ ॥ तत्परं पुरुषख्यातेगुणवतृष्ण्यम् ।। १६ ।।

वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः ॥ १७ ॥

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ।। १८ ।

भवप्रत्ययो विदेह प्रकृतिलयानाम् ।। १९॥ श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २० ॥

तीव्रसंवेगानामासन्नः ॥ २१ ॥

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ २२ ।।

ईश्वरप्रणिधानाद्वा ॥ २३ ॥

क्लेशकर्मविपाकाशयरपरामृष्टा पुरुषविशेष ईश्वरः ॥ २४ ॥

तत्र निरतिशयं सर्वज्ञबीजम् ।। २५ ॥

स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ।।

तस्य वाचकः प्रणवः ॥ २७ ॥

तज्जपस्तदर्थभावनम् ॥ २८ ।।

ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ।। २९ ।।

व्याधिस्त्यान संशयप्रमादाऽऽलस्याऽविरतिभ्रान्तिदर्शनाsलब्धभूमिकत्वाऽनवस्थितत्वानि चित्तविक्षेपास्तेऽन्तराया ॥ ३० ॥

दु.खदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ।। ३१ ।।

तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ।। ३२ ।।

मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां - भावनाताश्चत्तप्रसादनम् । ३३ ।।

प्रच्छर्दनविधारणाभ्यां वा प्राणस्य । ३४ ॥ .. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ।। ३५ ।।

विशोका वा ज्योतिष्मती ॥ ३६ । वीतरागविषयं वा चित्तम् ॥ ३७ ॥ स्वप्ननिद्राज्ञानालम्बनं वा ।। ३८ ।।

यथाभिमतध्यानाद्वा । ३९ ।।

परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ ४० ।।

क्षीणवृत्तरभिजातस्येव मणे ग्रहोतृग्रहणग्राहयेषु तत्स्थतदजनता समापत्ति ॥ ४१ ॥

तत्र शब्दार्थज्ञानविकल्पै संकीर्णा सवितर्का समापत्तिः ॥ ४२ ॥

स्मृतिपरिशुद्धी स्वरूपशून्येवार्थमात्रनिर्भासा निवितर्का ।। ४३ ॥

एतयव सविचारा निर्विचारा च सूक्ष्म विषया व्याख्याता ॥ ४४ ।।

सूक्ष्म विषयत्वं चालिङ्गपर्यवसानम् । ४५ ॥ ता एव सबीजः समाधि । ४६ ॥

निर्विचारवंशारोऽध्यात्मप्रसाद ।। ४७ ॥

ऋतम्भरा तत्र प्रज्ञा ।। ४८ ।।

श्रुतानुमानप्रज्ञाभ्यां सामान्यविषया विशेषार्थत्वात् ।। ४९ ॥

तज्जः सस्कारोऽन्यसंस्कारप्रतिबन्धी ।। ५० ॥

तस्यापि निरोधे सर्व निरोधानिर्बीजसमाधिः ॥ ५१ ॥

"https://sa.wikibooks.org/w/index.php?title=पातञ्जलयोगसुत्रम्&oldid=6861" इत्यस्माद् प्रतिप्राप्तम्