सामग्री पर जाएँ

महो देवो मर्त्याँ आविवेश ।

विकिपुस्तकानि तः

स्पष्टीकुरुत - महो देवो मर्त्याँ आविवेश ।
अथवा
स्पष्टीकुरुत - शास्त्रपूर्वके प्रयोगेऽभ्युदयः तत्तुल्यं वेदशब्देन ।

व्याकरणं किमर्थम् अध्येयम् इति प्रश्नस्य उत्तरे व्याकरणस्य नाना प्रयोजनानि शास्त्रकारैः उक्तानि।तत्र अन्यतमं प्रयोजनं नाम अभ्युदयः। शब्दानां ज्ञानपूर्वके प्रयोगे अभ्युदयः भवति।यथा वैदिकशब्दानां शास्त्रपूर्वकेण प्रयोगेण अभ्युदयः भवति तथा लौकिकशब्दानाम् अपि इति कात्यायनेन वार्तिकरूपेण उक्तम्।
शब्दस्तु अचेतनः।तस्य एतत् सामर्थ्यं कथं सम्भवति यत् साधु प्रयुक्तः सन् सः स्वर्गे लोके च कामधुक् भवति इति आक्षेपः अत्र कैश्चित् क्रियते।तस्य उत्तरं वैयाकरणैः एवम् उक्तम्-
शब्दः इति महान् देवः।तस्य वर्णनं श्रुत्या एवं कृतम् -
चत्वारि शृङ्गा त्रयो अस्य पादा:, द्वे शीर्षे सप्त हस्तासो अस्य।
त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आविवेश॥–ऋग्वेदः ४.५८.३

महत: देवस्य -
चत्वारि शृङ्गानि (नाम-आख्यात-उपसर्ग-निपाता:)
त्रय: पादा: (भूत-वर्तमान-भविष्यत्काला:)
द्वे शीर्षे (नित्य-अनित्यशब्दौ)
सप्त हस्ता: (सप्त विभक्तय:)
देव: त्रिषु स्थानेषु बद्ध: (उरसि कण्ठे शिरसि)
देव: मानवान् प्रविशति
एवं महान् साधुशब्दरूपः देवः अस्माकम् अभ्युदयं साधयितुं नितरां समर्थः।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे पाणिनिदर्शनम्