मुक्तेषु..... इव रथ्याः ॥१.०८॥

विकिपुस्तकानि तः

मुक्तेषु रश्मिषु निरायतपूर्वकाया
निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः ।
आत्मोत्थितैरपि रजोभिरलङ्घनीया
धावन्त्यमी मृगजवाक्षमयेव रथ्याः ॥१.०८॥

पदच्छेदः-
मुक्तेषु रश्मिषु निरायत-पूर्वकाया
निष्कम्पचामरशिखाः निभृत-ऊर्ध्वकर्णाः ।
आत्मोत्थितैः अपि रजोभिः अलङ्घनीयाः
धावन्ति अमी मृगजवाक्षमया इव रथ्याः ॥१.०८॥

अन्वयः-
मुक्तेषु रश्मिषु (सत्सु) निरायत-पूर्वकायाः,निष्कम्पचामरशिखाः निभृत-ऊर्ध्वकर्णाः,आत्मोत्थितैः अपि रजोभिः अलङ्घनीयाः अमी रथ्याः मृगजव-अक्षमया इव धावन्ति ॥१.०८॥

सन्दर्भः-
सूतः स्वरथस्य अश्वानां वेगं प्रशंसति।

सरलार्थः-
अश्वानां रश्मयः शिथिलाः कृताः।इदानीं तेषां देहस्य पूर्वभागे नियमनं नास्ति।तेषां शिरसि विद्यमाना चामरशिखाः स्तब्धाः सन्ति।तैः कर्णाः ऊर्ध्वम् उत्थापिताः।तेषां खुरैः या धूलिः उद्गच्छति, सा धूलिः अपि तान् उल्लङ्घ्य अग्रे गन्तुं न शक्नोति।ननु मृगस्य वेगम् एते न सहन्ते अतः एतावता वेगेन धावन्ति।१.०८

वृत्तम् – वसन्ततिलका

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि               अभिज्ञानशाकुन्तले वसन्ततिलकावृत्तनिबद्धानि पद्यानि
ग्रीवाभङ्ग-अभिरामं..... उर्व्यां प्रयाति ॥१.०७ ॥    यद् आलोके..... रथजवात् ॥१.०९॥