यतः यतः .....दृष्टिबिभ्रमम्॥१.२३

विकिपुस्तकानि तः

यतो यतः षट्चरणोऽभिवर्तते ततस्ततः प्रेरितवामलोचना।
बिवर्तितभ्रूरियमद्य शिक्षते भयादकामापि हि दृष्टिबिभ्रमम्॥१.२३

पदच्छेदः-
यतः यतः षट्चरणः अभिवर्तते ततः ततः प्रेरितवामलोचना।
बिवर्तितभ्रूः इयम् अद्य शिक्षते भयात् अकामा अपि हि दृष्टिबिभ्रमम्॥१.२३
अन्वयः-
यतः यतः षट्चरणः अभिवर्तते,ततः ततः प्रेरितवामलोचना, बिवर्तितभ्रूः इयम् अकामा अपि हि अद्य भयात् दृष्टिबिभ्रमं शिक्षते ॥१.२३
सन्दर्भः-

सरलार्थः-
यत्र यत्र भ्रमरः भ्रमति, तत्र तत्र एषा सुन्दरी दृष्टिक्षेपं करोति।भ्रुकुटिं विवर्तयति च।तेन कामभावं विना अपि अद्य भयवशात् दृष्टिविभ्रमं शिक्षते इति भाति।१.२३

वृत्तम् –
वंशस्थम्

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि       अभिज्ञानशाकुन्तले वंशस्थ-वृत्तनिबद्धानि पद्यानि
असंशयं .....अन्तःकरणप्रवृत्तयः ॥१.२२॥  चल-अपाङ्गां .....खलु कृती ॥१.२४॥