चल-अपाङ्गां .....खलु कृती ॥१.२४॥
चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं
रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।
करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं
वयं तत्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥१.२४॥
पदच्छेदः-
चल-अपाङ्गां दृष्टिं स्पृशसि बहुशः वेपथुमतीं
रहस्य-आख्यायी इव स्वनसि मृदु कर्णान्तिकचरः ।
करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वम् अधरं
वयं तत्वान्वेषात् मधुकर, हताः त्वं खलु कृती ॥१.२४॥
अन्वयः-
रे मधुकर, चल-अपाङ्गां बहुशः वेपथुमतीं दृष्टिं स्पृशसि। रहस्य-आख्यायी इव कर्णान्तिकचरः मृदु स्वनसि ।करौ व्याधुन्वत्याः (अस्याः) रतिसर्वस्वम् अधरं पिबसि। वयं तत्वान्वेषात् हताः। त्वं खलु कृती ॥१.२४॥
सन्दर्भः-
शकुन्तलायाः मुखम् अभितः भ्रमरः भ्रमति।सा च तं वारयति।एतद् दृश्यं दृष्ट्वा दुष्यन्तः स्वगतं वदति।॥१.२४॥
सरलार्थः-
रे भ्रमर, शकुन्तलायाः नेत्रः कम्पमानः, तत्र विद्यमानं कृष्णमण्डलं चलम्।तादृशं नेत्रं त्वं स्पृशसि।कश्चन रहस्यवक्ता यथा कर्णस्य समीपे आगत्य मन्दस्वरेण वदति, तथा त्वं तस्याः कर्णस्य समीपं गत्वा मृदु नादं करोषि।त्वां वारयितुं सा करौ चालयति।परं त्वं तस्याः अधरे उपविशसि।तत्र उपविश्य, रतिसर्वस्वम् इव अधरं पिबसि।वयं तत्त्वस्य अन्वेषणे एव हताः ,त्वं नूनं कृतिमान् सञ्जातः।॥१.२४॥
वृत्तम् –
शिखरिणी
अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि अभिज्ञानशाकुन्तले शिखरिणी-वृत्तनिबद्धानि पद्यानि यतः यतः .....दृष्टिबिभ्रमम्॥१.२३ कः पौरवे .....तपस्विकन्यासु ॥१.२५॥