वाक्यपदीय द्वितीय काण्ड

विकिपुस्तकानि तः

मुखपृष्ठं गच्छतु

प्रथम काण्डं पश्यतु

तृतीय काण्डं पश्यतु



आख्यातं शब्दसंघातो $ जातिः संघातवर्तिनी &
एको ऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहृतिः // वाप २.१ //

पदम् आद्यं पृथक् सर्वं $ पदं सापेक्षम् इत्य् अपि &
वाक्यं प्रति मतिर् भिन्ना बहुधा न्यायदर्शिनाम् // वाप २.२ //

निघातादिव्यवस्थार्थं $ शास्त्रे यत् परिभाषितम् &
साकाङ्क्षावयवं तेन न सर्वं तुल्यलक्षणं // वाप २.३ //

साकाङ्क्षावयवं भेदे $ परानाकाङ्क्षशब्दकम् &
कर्मप्रधानं गुणवद् एकार्थं वाक्यम् उच्यते // वाप २.४ //

संबोधनपदं यच् च $ तत् क्रियाया विशेषकम् &
तथा तिङन्तं तत्राहुस् तिङन्तस्य विशेषकम् // वाप २.५ //

यथानेकम् अपि क्त्वान्तं $ तिङन्तस्य विशेषकम् &
तथा तिङन्तं तत्राहुस् तिङन्तस्य विशेषकम् // वाप २.६ //

यथैक एव सर्वार्थ- $ प्रकाशः प्रविभज्यते &
दृश्यभेदानुकारेण वाक्यार्थावगमस् तथा // वाप २.७ //

चित्रस्यैकस्य रूपस्य $ यथा भेदनिदर्शनैः &
नीलादिभिः समाख्यानं क्रियते भिन्नलक्षणैः // वाप २.८ //

तथैवैकस्य वाक्यस्य $ निराकाङ्क्षस्य सर्वतः &
शब्दान्तरैः समाख्यानं साकाङ्क्षैर् अनुगम्यते // वाप २.९ //

यथा पदे विभज्यन्ते $ प्रकृतिप्रत्ययादयः &
अपोद्धारस् तथा वाक्ये पदानाम् उपपद्यते // वाप २.१० //

वर्णान्तरसरूपत्वं $ वर्णभागेषु दृष्यते &
पदान्तरसरूपाश् च पदभागा इव स्थिताः // वाप २.११ //

भागैर् अनर्थकैर् युक्ता $ वृषभोदकयावकाः &
अन्वयव्यतिरेकौ तु व्यवहारनिबन्धनम् // वाप २.१२ //

शब्दस्य न विभागो ऽस्ति $ कुतो ऽर्थस्य भविष्यति &
विभागैः प्रक्रियाभेदम् अविद्वान् प्रतिपद्यते // वाप २.१३ //

ब्राह्मणार्थो यथा नास्ति $ कश् चिद् ब्राह्मणकम्बले &
देवदत्तादयो वाक्ये थतैव स्युर् अनर्थकाः // वाप २.१४ //

सामान्यार्थस् तिरोभूतो $ न विशेषे ऽवतिष्ठते &
उपात्तस्य कुतस् त्यागो निवृत्तः क्वावतिष्ठताम् // वाप २.१५ //

अशाब्दो यदि वाक्यार्थः $ पदार्थो ऽपि तथा भवेत् &
एवं सति च संबन्धः शब्दस्यार्थेन हीयते // वाप २.१६ //

विशेशशब्दाः केषां चित् $ सामान्यप्रतिरूपकाः &
शब्दान्तराभिसंबन्धाद् व्यज्यन्ते प्रतिपत्तृषु // वाप २.१७ //

तेषां तु कृत्स्नो वाक्यार्थः $ प्रतिभेदं समाप्यते &
व्यक्तोपव्यञ्जना सिद्धिर् अर्थस्य प्रतिपतृषु // वाप २.१८ //

स व्यक्तः क्रमवाञ् छब्द $ उपांशु यम् अधीयते &
अक्रमस् तु वितत्येव बुद्धिर् यत्रावतिष्ठते // वाप २.१९ //

यथोत्क्षेपविशेषे ऽपि $ कर्मभेदो न गृह्यते &
आवृत्तौ व्यज्यते जातिः कर्मभिर् भ्रमणादिभिः // वाप २.२० //

वर्णवाक्यपदेष्व् एवं $ तुल्योपव्यञ्जना श्रुतिः &
अत्यन्तभेदे तत्त्वस्य सरूपेव प्रतीयते // वाप २.२१ //

नित्येषु च कुतः पूर्वं $ परं वा परमार्थतः &
एकस्यैव तु सा शक्तिर् यद् एवम् अवभासते // वाप २.२२ //

चिरं क्षिप्रम् इति ज्ञाने $ कालभेदाद् ऋते यथा &
भिन्नकाले प्रकाशेते स धर्मो ह्रस्वदीर्घयोः // वाप २.२३ //

न नित्यः क्रममात्राभिः $ कालो भेदम् इहार्हति &
व्यावर्तिनीनां मात्राणाम् अभावे कीदृशः क्रमः // वाप २.२४ //

ताभ्यो या जायते बुद्धिर् $ एका सा भागवर्जिता &
सा हि स्वशक्त्या भिन्नेव क्रमप्रत्यवमर्शिनी // वाप २.२५ //

क्रमोल्लेखानुषङ्गेण $ तस्यां यद् बीजम् आहितम् &
तत्त्वनानात्वयोस् तस्य निरुक्तिर् नावतिष्ठते // वाप २.२६ //

भावनासमये त्व् एतत् $ क्रमसामर्थ्यम् अक्रमम् &
व्यावृत्तभेदो येनार्थो भेदवान् उपलभ्यते // वाप २.२७ //

पदानि वाक्ये तान्य् एव $ वर्णास् ते च पदे यदि &
वर्णेषु वर्णभागानां भेदः स्यात् परमाणुवत् // वाप २.२८ //

भागानाम् अनुपश्लेषान् $ न वर्णो न पदं भवेत् &
तेषाम् अव्यपदेश्यत्वात् किम् अन्यद् व्यपदिश्यताम् // वाप २.२९ //

यद् अन्तःशब्दतत्त्वं तु $ भागैर् एकं प्रकाशितम् &
तम् आहुर् अपरे शब्दं तस्य वाक्ये तथैकताम् // वाप २.३० //

अर्थभागैस् तथा तेषाम् $ अन्तरो ऽर्थः प्रकाश्यते &
एकस्यैवात्मनो भेदौ शब्दार्थाव् अपृथक्स्थितौ // वाप २.३१ //

प्रकाशकप्रकाश्यत्वं $ कार्यकारणरूपता &
अन्तर्मात्रात्मनस् तस्य शब्दतत्त्वस्य सर्वदा // वाप २.३२ //

तस्यैवास्तित्वनास्तित्वे $ सामर्थ्ये समवस्थिते &
अक्रमे क्रमनिर्भासे व्यवहारनिबन्धने // वाप २.३३ //

संप्रत्ययप्रमाणत्वात् $ पदार्थास्तित्वकल्पने &
पदार्थाभ्युच्चये त्यागाद् आनर्थक्यं प्रसज्यते // वाप २.३४ //

राजशब्देन राजार्थो $ भिन्नरूपेण गम्यते &
वृत्ताव् आख्यातसदृशं पदम् अन्यत् प्रयुज्यते // वाप २.३५ //

यथाश्वकर्ण इत्य् उक्ते $ विनैवाश्वेन गम्यते &
कश् चिद् एव विशिष्टो ऽर्थः सर्वेषु प्रत्ययस् तथा // वाप २.३६ //

वाक्येषु अर्थान्तरगतः $ सादृश्यपरिकल्पने &
केषां चित् रूढिशब्दत्वं शास्त्र एवानुगम्यते // वाप २.३७ //

उपादायापि ये हेयास् $ तान् उपायान् प्रचक्षते &
उपायानां च नियमो नावश्यम् अवतिष्ठते // वाप २.३८ //

अर्थं कथं चित् पुरुषः $ कश् चित् संप्रतिपद्यते &
संसृष्टा वा विभक्ता चा भेदा वाक्यनिबन्धनाः // वाप २.३९ //

सो ऽयम् इत्य् अभिसंबन्धो $ बुद्ध्या प्रक्रम्यते यदा &
वाक्यार्थस्य तदैको ऽपि वर्णः प्रत्यायकः क्व चित् // वाप २.४० //

केवलेन पदेनार्थो $ यावान् एवाभिधीयते &
वाक्यस्थं तावतो ऽर्थस्य तद् आहुर् अभिधायकम् // वाप २.४१ //

संबन्धे सति यत् त्व् अन्यद् $ आधिक्यम् उपजायते &
वाक्यार्तम् एव तं प्राहुर् अनेकपदसंश्रयम् // वाप २.४२ //

स त्व् अनेकपदस्थो ऽपि $ प्रतिभेदं समाप्यते &
जातिवत् समुदाये ऽपि संख्यावत् कल्प्यते ऽपरैः // वाप २.४३ //

सर्वभेदानुगुण्यं तु $ सामान्यम् अपरे विदुः &
तद् अर्थान्तरसंसर्गाद् भजते भेदरूपताम् // वाप २.४४ //

भेदान् आकाङ्क्षतस् तस्य $ या परिप्लवमामता &
अवच्छिनत्ति संबन्धस् तां विशेषे निवेशयन् // वाप २.४५ //

कार्यानुमेयः संबन्धो $ रूपं तस्य न विद्यते &
असत्त्वभूतम् अत्यन्तम् अतस् तं प्रतिजानते // वाप २.४६ //

नियतं साधने साध्यं $ क्रिया नियतसाधना &
स संनिधानमात्रेण नियमः संप्रकाशते // वाप २.४७ //

गुणभावेन साकाङ्क्षं $ तत्र नाम प्रवर्तते &
साध्यत्वेन निमित्तानि क्रियापदम् अपेक्षते // वाप २.४८ //

सन्त एव विशेषा ये $ पदार्थेष्व् अविभाविताः &
ते क्रमाद् अनुगम्यन्ते न वाक्यम् अभिधायकम् // वाप २.४९ //

शब्दानां क्रममात्रे च $ नान्यः शब्दो ऽस्ति वाचकः &
क्रमो हि धर्मः कालस्य तेन वाक्यं न विद्यते // वाप २.५० //

ये च संभविनो भेदाः $ पदार्थेष्व् अविभाविताः &
ते संनिधाने व्यज्यन्ते न तु वर्णेष्व् अयं क्रमः // वाप २.५१ //

वर्णानां च पदानां च $ क्रममात्रनिवेशिनी &
पदाख्या वाक्यसंज्ञा च शब्दत्वं नेष्यते तयोः // वाप २.५२ //

समाने ऽपि तु शब्दत्वे $ दृष्टः संप्रत्ययः पदात् &
प्रतिवर्णं त्व् असौ नास्ति पदस्यार्थम् अतो विदुः // वाप २.५३ //

यथा सावयवा वर्णा $ विना वाच्येन केन चित् &
अर्थवन्तः समुदिता वाक्यम् अप्य् एवम् इष्यते // वाप २.५४ //

अनर्थकान्य् अपायत्वात् $ पदार्थेनार्थवन्ति वा &
क्रमेणोच्चरितान्य् आहुर् वाक्यार्थं भिन्नलक्षणम् // वाप २.५५ //

नित्यत्वे समुदायानां $ जातेर् वा परिकल्पने &
एकस्यैकार्थताम् आहुर् वाक्यस्याव्यभिचारिणीम् // वाप २.५६ //

अभेदपूर्वकाभेदाः $ कल्पिता वाक्यवादिभिः &
भेदपूर्वान् अभेदांस् तु मन्यन्ते पददर्शिनः // वाप २.५७ //

पदप्रकृतिभावश् च $ वृत्तिभेदेन वर्ण्यते &
पदानां संहिता योनिः संहिता वा पदाश्रया // वाप २.५८ //

पदाम्नायश् च यद्य् अन्यः $ संहिताया निदर्शकः &
नित्यस् तत्र कथं कार्यं पदं लक्षणदर्शनात् // वाप २.५९ //

प्रतिवर्णम् असंवेद्यः $ पदार्थप्रत्ययो यथा &
पदेश्व् एवम् असंवेद्यं वाक्यार्थस्य निरूपणम् // वाप २.६० //

वाक्यार्थः संनिविशते $ पदेषु सहवृत्तिषु &
यथा तथैव वर्णेषु पदार्थः सहवृत्तिषु // वाप २.६१ //

सूक्ष्मं ग्राह्यं यथान्येन $ संसृष्टं सह गृह्यते &
वर्णो ऽप्य् अन्येन वर्णेन संबद्धो वाचकस् तथा // वाप २.६२ //

पदस्योच्चारणाद् अर्थो $ यथा कश् चिन् निरूप्यते &
वर्णानाम् अपि सांनिध्यात् तथा सो ऽर्थः प्रतीयते // वाप २.६३ //

प्राप्तस्य यस्य सामर्थ्यान् $ नियमार्था पुनः श्रुतिः &
तेनात्यन्तं विशेषेण सामान्यं यदि बाध्यते // वाप २.६४ //

यजेतेति ततो द्रव्यं $ प्राप्तं सामर्थ्यलक्षणम् &
व्रीहिश्रुत्या निवर्तेत न स्यात् प्रतिनिधिस् तथा // वाप २.६५ //

तस्माद् व्रीहित्वम् अधिकं $ व्रीहिशब्दः प्रकल्पयेत् &
द्रव्यत्वम् अविरुद्धत्वात् प्राप्त्यर्थः सन् न बाधते // वाप २.६६ //

तेन चापि व्यवच्छिन्ने $ द्रव्यत्वे सहचारिणि &
असंभवाद् विशेषाणां तत्रान्येषाम् अदर्शनम् // वाप २.६७ //

न च सामान्यवत् सर्वे $ क्रियाशब्देन लक्षिताः &
विशेषा न हि सर्वेषां सतां शब्दो ऽभिधायकः // वाप २.६८ //

शुक्लादयो गुणाः सन्तो $ यथा तत्राविवक्षिताः &
तथाविवक्षा भेदानां द्रव्यत्वसहचारिणाम् // वाप २.६९ //

असंनिधौ प्रतिनिधिर् $ मा भून् नित्यस्य कर्मणः &
काम्यस्य वा प्रवृत्तस्य लोप इत्य् उपपद्यते // वाप २.७० //

विशिष्टैव क्रिया येन $ वाक्यार्थः परिकल्प्यते &
द्रव्याभावे प्रतिनिधौ तस्य तत् स्यात् क्रियान्तरम् // वाप २.७१ //

निर्ज्ञातार्थं पदं यच् च $ तदर्थे प्रतिपादिते &
पिकादि यद् अविज्ञातं तत् किम् इत्य् अनुयुज्यते // वाप २.७२ //

सामर्थ्यप्रापितं यच् च $ व्यक्त्यर्थम् अनुषज्यते &
श्रुतिर् एवानुषङ्गेण बाधिका लिङ्गवाक्ययोः // वाप २.७३ //

अप्राप्तो यस् तु शुक्लादिः $ संनिधानेन गम्यते &
स यत्नप्रापितो वाक्ये श्रुतिधर्मविलक्षणः // वाप २.७४ //

अभिन्नम् एव वाक्यं तु $ यद्य् अभिन्नार्थम् इष्यते &
तत् सर्वं श्रुतिभूतत्वान् न श्रुत्यैव विरोत्स्यते // वाप २.७५ //

वाक्यानां समुदायश् च $ य एकार्थप्रसिद्धये &
साकाङ्क्षावयवस् तत्र वाक्यार्थो ऽपि न विद्यते // वाप २.७६ //

प्रासङ्गिकम् इदं कार्यम् $ इदं तन्त्रेण लभ्यते &
इदम् आवृत्तिभेदाभ्याम् अत्र बाधसमुच्चयौ // वाप २.७७ //

ऊहो ऽस्मिन् विषये न्याय्यः $ संबन्धो ऽस्य न बाध्यते &
सामान्यस्यातिदेशो ऽयं विशेषो ऽत्रातिदिश्यते // वाप २.७८ //

अर्थित्वम् अत्र सामर्थ्यम् $ अस्मिन्न् अर्थो न भिद्यते &
शास्त्रात् प्राप्ताधिकारो ऽयं व्युदासो ऽस्य क्रियान्तरे // वाप २.७९ //

इयं श्रुत्या क्रमप्राप्तिर् $ इयम् उच्चारणाद् इति &
क्रमो ऽयम् अत्र बलवान् अस्मिंस् तु न विवक्षितः // वाप २.८० //

इदं पराङ्गैः संबद्धम् $ अङ्गानाम् अप्रयोजकम् &
प्रयोजकम् इदं तेषाम् अत्रेदं नान्तरीयकम् // वाप २.८१ //

इदं प्रधानं शेषो ऽयं $ विनियोगक्रमस् त्व् अयम् &
साक्षाद् अस्योपकारीदम् इदम् आराद् विशेषकम् // वाप २.८२ //

शक्तिव्यापारभेदो ऽस्मिन् $ फलम् अत्र तु भिद्यते &
संबन्धाज् जातभेदो ऽयं भेदस् तत्राविवक्षितः // वाप २.८३ //

प्रसज्यप्रतिषेधो ऽयं $ पर्युदासो ऽयम् अत्र तु &
इदं गौणम् इदं मुख्यं व्यापीदं गुरु लघ्व् इदम् // वाप २.८४ //

भेदेनाङ्गाङ्गिभावो ऽस्य $ बहुभेदं विकल्प्यते &
इदं नियम्यते ऽस्यात्र योग्यत्वम् उपजायते // वाप २.८५ //

अस्य वाक्यान्तरे दृष्टाल् $ लिङ्गाद् भेदो ऽनुमीयते &
अयं शब्दैर् अपोद्धृत्य पदार्थः प्रविभज्यते // वाप २.८६ //

इति वाक्येषु ये धर्माः $ पदार्थोपनिबन्धनाः &
सर्वे तेन प्रकल्पेरन् पदं चेत् स्यद् अवाचकम् // वाप २.८७ //

अविभक्ते ऽपि वाक्यार्थे $ शक्तिभेदाद् अपोद्धृते &
वाक्यान्तरविभागेन यथोक्तं न विरुध्यते // वाप २.८८ //

यथैवैकस्य गन्धस्य $ भेदेन परिकल्पना &
पुष्पादिषु तथा वाक्ये ऽप्य् अर्थभेदो ऽभिधीयते // वाप २.८९ //

गवये नरसिंहे वाप्य् $ एकज्ञानावृते यथा &
भागं जात्यन्तरस्यैव सदृशं प्रतिपद्यते // वाप २.९० //

अप्रसिद्धं तु यं भागम् $ अदृष्टम् अनुपश्यति &
तावत्य् असंविदं मूढः सर्वत्र प्रतिपद्यते // वाप २.९१ //

तथा पिकादियोगेन $ वाक्ये ऽत्यन्तविलक्षणे &
सदृशस्येव संज्ञानम् असतो ऽर्थस्य मन्यते // वाप २.९२ //

एकस्य भागे सादृश्यं $ भागे भेदश् च लक्ष्यते &
निर्भागस्य प्रकाशस्य निर्भागेणैव चेतसा // वाप २.९३ //

तथैव भागे सादृश्यं $ भागे भेदो ऽवसीयते &
भागाभावे ऽपि वाक्यानाम् अत्यन्तं भिन्नधर्मणाम् // वाप २.९४ //

रूपनाशे पदानां स्यात् $ कथं चावधिकल्पना &
अगृहीतावधौ शब्दे कथं चार्थो विविच्यते // वाप २.९५ //

संसर्ग इव रूपाणां $ शब्दे ऽन्यत्र व्यवस्थितः &
नानारूपेषु तद्रूपं तन्त्रेणापरम् इष्यते // वाप २.९६ //

तस्मिन्न् अभेदे भेदानां $ संसर्ग इव वर्तते &
रूपं रूपान्तरात् तस्माद् अनन्यत् प्रविभज्यते // वाप २.९७ //

शास्त्रे प्रत्यायकस्यापि $ क्वचिद् एकत्वम् आश्रितम् &
प्रत्याय्येन क्वचिद् भेदो ग्रहणग्राह्ययोः स्थितः // वाप २.९८ //

ऊ इत्य् अभेदम् आश्रित्य $ यथासंख्यं प्रकल्पितम् &
लृलुटोर् ग्रहणे भेदो ग्राह्याभ्यां परिकल्पितः // वाप २.९९ //

यस्येत्य् एतद् अणो रूपं $ संज्ञिनाम् अभिधायकम् &
न हि प्रतीयमानेन ग्रहणस्यास्ति संभवः // वाप २.१०० //

ऊ इत्य् एतद् अभिन्नं च $ भिन्नवाक्यनिबन्धनम् &
भेदेन ग्रहणं यस्य पररूपम् इव द्वयोः // वाप २.१०१ //

प्लुतस्याङ्गविवृद्धिं च $ समाहारम् अचोस् तथा &
व्युदस्यता पुनर् भेदः शब्देष्व् अत्यन्तम् आश्रितः // वाप २.१०२ //

अर्धर्चादिषु शब्देषु $ रूपभेदः क्रमाद् यथा &
तन्त्रात् तथैकशब्दत्वे भिन्नानां श्रुतिर् अन्यथा // वाप २.१०३ //

संहिताविषये वर्णाः $ स्वरूपेणाविकारिणः &
शब्दान्तरत्वं यान्तीव शक्त्यन्तरपरिग्रहात् // वाप २.१०४ //

इन्द्रियादिविकारेण $ दृष्टं ग्राह्येषु वस्तुषु &
आत्मत्यागाद् ऋते भिन्नं ग्रहणं स क्रमः श्रुतौ // वाप २.१०५ //

अभिधानक्रियाभेदाच् $ छब्देष्व् अविकृतेष्व् अपि &
रूपम् अत्यन्तभेदेन तद् एवैकं प्रकाशते // वाप २.१०६ //

ऋचो वा गीतिमात्रं वा $ साम द्रव्यान्तरं न तु &
गीतिभेदात् तु गृह्यन्ते ता एव विकृता ऋचः // वाप २.१०७ //

उपायाच् छ्रुतिसंहारे $ भिन्नानाम् एकशेषिणाम् &
तन्त्रेणोच्चारणे तेषां शास्त्रे साधुत्वम् उच्यते // वाप २.१०८ //

परिगृह्य श्रुतिं चैकां $ रूपभेदवताम् अपि &
तन्त्रेणोच्चारणं कार्यम् अन्यथा ते न साधवः // वाप २.१०९ //

सरूपाणां च वाक्यानां $ शास्त्रेणाप्रतिपादितम् &
तन्त्रेणोच्चारणाद् एकं रूपं साधूपलभ्यते // वाप २.११० //

एकस्यानेकरूपत्वं $ नालिकादिपरिग्रहात् &
यथा तथैव तन्त्रात् स्याद् बहूनाम् एकरूपता // वाप २.१११ //

यथा पदसरूपाणां $ वाक्यानां संभवः पृथक् &
तथा वाक्यान्तराभावे स्याद् एषां पृथगर्थता // वाप २.११२ //

अभिधेयः पदस्यार्थो $ वाक्यस्यार्थः प्रयोजनम् &
यस्य तस्य न संबन्धो वाक्यानाम् उपपद्यते // वाप २.११३ //

तत्र क्रियापदान्य् एव $ व्यपेक्षन्ते परस्परम् &
क्रियापदानुषक्तस् तु संबन्धो ऽथ प्रतीयते // वाप २.११४ //

आवृत्तिर् अनुवादो वा $ पदार्थव्यक्तिकल्पने &
प्रत्येकं तु समाप्तो ऽर्थः सहभूतेषु वर्तते // वाप २.११५ //

अविकल्पितवाक्यार्थे $ विकल्पा भावनाश्रयाः &
अत्राधिकरणे वादाः पूर्वेषां बहुधा मताः // वाप २.११६ //

अभ्यासात् प्रतिभाहेतुः $ सर्वः शब्दो ऽपरैः स्मृतः &
बालानां च तिरश्चां च यथार्थप्रतिपादने // वाप २.११७ //

अनागमश् च सो ऽभ्यासः $ समयः कैश् चिद् इष्यते &
अनन्तरम् इदं कार्यम् अस्माद् इत्य् उपदर्शकः // वाप २.११८ //

अस्त्य् अर्थः सर्वशब्दानां $ इति प्रत्याय्यलक्षणम् &
अपूर्वदेवतास्वर्गैः समम् आहुर् गवादिषु // वाप २.११९ //

प्रयोगदर्शनाभ्यासाद् $ आकारावग्रहस् तु यः &
न स शब्दस्य विषयः स हि यत्नान्तराश्रयः // वाप २.१२० //

के चिद् भेदाः प्रकाश्यन्ते $ शब्दैस् तदभिधायिभिः &
अनुनिष्पादिनः कांश् चिच् छब्दार्थान् इति मन्यते // वाप २.१२१ //

जातेः प्रत्यायके शब्दे $ या व्यक्तिर् अनुषङ्गिणी &
न तद्व्यक्तिगतान् भेदाञ् जातिशब्दो ऽवलम्बते // वाप २.१२२ //

घटादीनां न चाकारान् $ प्रत्याययति वाचकः &
वस्तुमात्रनिवेशित्वात् तद्गतिर् नान्तरीयका // वाप २.१२३ //

क्रिया विना प्रयोगेण $ न दृष्टा शब्दचोदिता &
प्रयोगस् त्व् अनुनिष्पादी शब्दार्थ इति गम्यते // वाप २.१२४ //

नियतास् तु प्रयोगा ये $ नियतं यच् च साधनम् &
तेषां शब्दाभिधेयत्वम् अपरैर् अनुगम्यते // वाप २.१२५ //

समुदायो ऽभिधेयो वाप्य् $ अविकल्पसमुच्चयः &
असत्यो वापि संसर्गः शब्दार्थः कैश् चिद् इष्यते // वाप २.१२६ //

असत्योपाधि यत् सत्यं $ तद् वा शब्दनिबन्धनाम् &
शब्दो वाप्य् अभिजल्पत्वम् आगतो याति वाच्यताम् // वाप २.१२७ //

सो ऽयम् इत्य् अभिसंबन्धाद् $ रूपम् एकीकृतं यता &
शब्दस्यार्थेन तं शब्दम् अभिजल्पं प्रचक्षते // वाप २.१२८ //

तयोर् अपृथगात्मत्वे $ रूढिर् अव्यभिचारिणी &
किं चिद् एव क्व चिद् रूपं प्राधान्येनावतिष्ठते // वाप २.१२९ //

लोके ऽर्थरूपतां शब्दः $ प्रतिपन्नः प्रवर्तते &
शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया // वाप २.१३० //

अशक्तेः सर्वशक्तेर् वा $ शब्दैर् एव प्रकल्पिता &
एकस्यार्थस्य नियता क्रियादिपरिकल्पना // वाप २.१३१ //

यो वार्थो बुद्धिविषयो $ बाह्यवस्तुनिबन्धनः &
स बाह्यं वस्त्व् इति ज्ञातः शब्दार्थ इति गम्यते // वाप २.१३२ //

आकारवन्तः संवेद्या $ व्यक्तिस्मृतिनिबन्धनाः &
एते प्रत्यवभासन्ते संविन्ंआत्रं त्व् अतो ऽन्यथा // वाप २.१३३ //

यथेन्द्रियं संनिपतद् $ वैचित्रेणोपदर्शकं &
तथैव शब्दाद् अर्थस्य प्रतिपत्तिर् अनेकधा // वाप २.१३४ //

वक्त्रान्यथैव प्रक्रान्तो $ भिन्नेषु प्रतिपत्तृषु &
स्वप्रत्ययानुकारेण शब्दार्थः प्रविभज्यते // वाप २.१३५ //

एकस्मिन्न् अपि दृश्ये ऽर्थे $ दर्शनं भिद्यते पृथक् &
कालान्तरेण चैको ऽपि तं पश्यत्य् अन्यथा पुनः // वाप २.१३६ //

एकस्यापि च शब्दस्य $ निमित्तैर् अव्यवस्थितैः &
एकेन बहुभिश् चार्थो बहुधा परिकल्प्यते // वाप २.१३७ //

तस्माद् अदृष्टतत्त्वानां $ सापराधं बहुच्छलं &
दर्शनं वचनं वापि नित्यम् एवानवस्थितम् // वाप २.१३८ //

ऋषीणां दर्शनं यच् च $ तत्त्वे किं चिद् अवस्थितम् &
न तेन व्यवहारो ऽस्ति न तच् छब्दनिबन्धनं // वाप २.१३९ //

तलवद् दृश्यते व्योम $ खद्योतो हव्यवाड् इव &
नैव चास्ति तलं व्योम्नि न खद्योते हुताशनः // वाप २.१४० //

तस्मात् प्रत्यक्षम् अप्य् अर्थं $ विद्वान् ईक्षेत युक्तितः &
न दर्शनस्य प्रामाण्याद् दृश्यम् अर्थं प्रकल्पयेत् // वाप २.१४१ //

असमाख्येयतत्त्वानाम् $ अर्थानां लौकिकैर् यथा &
व्यवहारे समाख्यानं तत् प्रज्ञो न विकल्पयेत् // वाप २.१४२ //

विच्छेदग्रहणे ऽर्थानां $ प्रतिभान्यैव जायते &
वाक्यार्थ इति ताम् आहुः पदार्थैर् उपपादिताम् // वाप २.१४३ //

इदं तद् इति सान्येषाम् $ अनाक्येया कथं चन &
प्रत्यात्मवृत्ति सिद्धा सा कर्त्रापि न निरूप्यते // वाप २.१४४ //

उपश्लेषम् इवार्थानां $ सा करोत्य् अविचारिता &
सार्वरूप्यम् इवापन्ना विषयत्वेन वर्तते // वाप २.१४५ //

साक्शाच् छब्देन जनितां $ भावनानुगमेन वा &
इतिकर्तव्यतायां तां न कश् चिद् अतिवर्तते // वाप २.१४६ //

प्रमाणत्वेन तां लोकः $ सर्वः समनुगच्छति &
समारम्भाः प्रतायन्ते तिरश्चाम् अपि तद्वशात् // वाप २.१४७ //

यथा द्रव्यविशेषाणां $ परिपाकैर् अयत्नजाः &
मदादिशक्तयो दृष्टाः प्रतिभास् तद्वतां तथा // वाप २.१४८ //

स्वरवृत्तिं विकुरुते $ मधौ पुंस्कोकिलस्य कः &
जन्त्वादयः कुलायादि- करणे शिक्षिताः कथम् // वाप २.१४९ //

आहारप्रीत्यपद्वेष- $ प्लवनादिक्रियासु कः &
जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् // वाप २.१५० //

भावनानुगताद् एतद् $ आगमाद् एव जायते &
आसत्तिविप्रकर्षाभ्याम् आगमस् तु विशिष्यते // वाप २.१५१ //

स्वभाववरणाभास- $ योगादृष्टोपपादिताम् &
विशिष्टोपहितां चेति प्रतिभां षड्विधां विदुः // वाप २.१५२ //

यथा संयोगिभिर् द्रव्यैर् $ लक्षिते ऽर्थे प्रयुज्यते &
गोशब्दो न त्व् असौ तेषां विशेशाणां प्रकाशकः // वाप २.१५३ //

आकारवर्णावयवैः $ संसृष्टेषु गवादिषु &
शब्दः प्रवर्तमानो ऽपि न तान् अङ्गीकरोत्य् असौ // वाप २.१५४ //

संस्थानवर्णावयवैर् $ विशिष्टे ऽर्थे प्रयुज्यते &
शब्दो न तस्यावयवे प्रवृत्तिर् उपलभ्यते // वाप २.१५५ //

दुर्लभं कस्य चिल् लोके $ सर्वावयवदर्शनं &
कैश् चित् त्व् अवयवैर् दृष्टैर् अर्थः कृत्सो ऽनुमीयते // वाप २.१५६ //

तथा जात्युत्पलादीनां $ गन्धेन सहचारिणाम् &
नित्यसंबन्धिनां दृष्टं गुणानाम् अवधारणम् // वाप २.१५७ //

संख्याप्रमाणसंस्थान- $ निरपेक्षः प्रवर्तते &
बिन्दौ च समुदाये च वाचकः सलिलादिषु // वाप २.१५८ //

संस्कारादिपरिच्छिन्ने $ तैलादौ यो व्यवस्थितः &
आहैकदेशं तत्त्वेन तस्यावयववर्तिना // वाप २.१५९ //

येनार्थेनाभिसंबद्धम् $ अभिधानं प्रयुज्यते &
तदर्थापगमे तस्य प्रयोगो विनिवर्तते // वाप २.१६० //

यांस् तु संभविनो धर्मान् $ अन्तर्णीय प्रयुज्यते &
शब्दस् तेषां न सांनिध्यं नियमेन व्यपेक्षते // वाप २.१६१ //

यथा रोमशफादीनां $ व्यभिचारे ऽपि दृश्यते &
गोशब्दो न तथा जातेर् विप्रयोगे प्रवर्तते // वाप २.१६२ //

तस्मात् संभविनो ऽर्थस्य $ शब्दात् संप्रत्यये सति &
अदृष्टविप्रयोगार्थः संबन्धित्वेन गम्यते // वाप २.१६३ //

वाचिका द्योतिका व स्युर् $ द्वित्वादीनां विभक्तयः &
स्याद् वा संख्यावतो ऽर्थस्य समुदायो ऽभिधायकः // वाप २.१६४ //

विना संख्याभिधानाद् वा $ संख्याभेदसमन्वितान् &
अर्थान् स्वरूपभेदेन काम्श् चिद् आहुर् गवादयः // वाप २.१६५ //

ये शब्दा नित्यसंबन्धा $ विवेके ज्ञातशक्तयः &
अन्वयव्यतिरेकाभ्यां तेषाम् अर्थो विभज्यते // वाप २.१६६ //

यावच् चाव्यभिचारेण $ तयोः शक्यं प्रकल्पनम् &
नियमस् तत्र न त्व् एवं नियमो नुट्शबादिषु // वाप २.१६७ //

संभवे नाभिधानस्य $ लक्षणत्वं प्रकल्पते &
आपेक्षिक्यो हि संसर्गे नियताः शब्दशक्तयः // वाप २.१६८ //

न कूपसूपयूपानाम् $ अन्वयो ऽर्थस्य दृश्यते &
अतो ऽर्थान्तरवाचित्वं संघातस्यैव गम्यते // वाप २.१६९ //

अन्वाख्यानानि भिद्यन्ते $ शब्दव्युत्पत्तिकर्मसु &
बहूनां संभवे ऽर्थानां निमित्तं किं चिद् इष्यते // वाप २.१७० //

वैरवासिष्ठगिरिशास् $ तथैकागारिकादयः &
कैश् चित् कथं चिद् आख्याता निमित्तावधिसंकरैः // वाप २.१७१ //

यथा पथः समाख्यानं $ वृक्षवल्मीकपर्वतैः &
अविरुद्धं गवादीनां भिन्नैश् च सहचारिभिः // वाप २.१७२ //

अन्यथा च समाख्यानम् $ अवस्थाभेददर्शिभिः &
क्रियते किंशुकादीनाम् एकदेशावधारणं // वाप २.१७३ //

कैश् चिन् निर्वचनं भिन्नं $ गिरतेर् गर्जतेर् गमेः &
गवतेर् गदतेर् वापि गौर् इत्य् अत्रानुदर्शितम् // वाप २.१७४ //

गौर् इत्य् एव स्वरूपाद् वा $ गोशब्दो गोषु वर्तते &
व्युत्पाद्यते न वा सर्वं कैश् चिच् चोभयथेष्यते // वाप २.१७५ //

सामान्येनोपदेशश् च $ शास्त्रे लघ्वर्थम् आश्रितः &
जात्यन्तरवद् अन्यस्य विशेषाः प्रतिपादकाः // वाप २.१७६ //

अर्थान्तरे च यद् वृत्तं $ तत् प्रकृत्यन्तरं विदुः &
तुल्यरूपं न तद् रूढाव् अन्यस्मिन्न् अनुषज्यते // वाप २.१७७ //

भिन्नाव् इजियजी धातू $ नियतौ विषयान्तरे &
कैश् चित् कथं चिद् उद्दिष्टौ चित्रं हि प्रतिपादनम् // वाप २.१७८ //

एवं च वालवायादि $ जित्वरीवद् उपाचरेत् &
भेदाभेदाभ्युपगमे न विरोधो ऽस्ति कश् चन // वाप २.१७९ //

अडादीनां व्यवस्थार्थं $ पृथक्त्वेन प्रकल्पनम् &
धातूपसर्गयोः शास्त्रे धातुर् एव तु तादृशः // वाप २.१८० //

तथा हि संग्रामयतेः $ सोपसर्गाद् विधिः स्मृतः &
क्रियाविशेषाः सम्घाते प्रक्रम्यन्ते तथाविधाः // वाप २.१८१ //

कार्याणाम् अन्तरङ्गत्वम् $ एवं धातूपसर्गयोः &
साधनैर् याति संबन्धं तथाभूतैव सा क्रिया // वाप २.१८२ //

प्रयोगार्थेषु सिद्धः सन् $ भेत्तव्यो ऽर्थो विशिष्यते &
प्राक् च साधनसंबन्धात् क्रिया नैवोपजायते // वाप २.१८३ //

धातोः साधनयोगस्य $ भाविनः प्रक्रमाद् यथा &
धातुत्वं कर्मभावश् च तथान्यद् अपि दृश्यताम् // वाप २.१८४ //

बीजकालेषु संबन्धाद् $ यथा लाक्षारसादयः &
वर्णादिपरिणामेन फलानाम् उपकुर्वते // वाप २.१८५ //

बुद्धिस्थाद् अभिसंबन्धात् $ तथा धातूपसर्गयोः &
अभ्यन्तरीकृताद् भेदः पदकाले प्रकाशते // वाप २.१८६ //

क्व चित् संभविनो भेदाः $ केवलैर् अनिदर्शिताः &
उपसर्गेण संबन्धे व्यज्यन्ते प्रनिरादिना // वाप २.१८७ //

स वाचको विशेषाणां $ संभवाद् द्योतको ऽपि वा &
शक्त्याधानाय वा धातोः सहकारी प्रयुज्यते // वाप २.१८८ //

स्थादिभिः केवलैर् यच् च $ गमनादि न गम्यते &
तत्रानुमानाद् द्विविधात् तद्धर्मा प्रादिर् उच्यते // वाप २.१८९ //

अप्रयोगे ऽधिपर्योश् च $ यावद् दृष्टं क्रियान्तरम् &
तस्याभिधायको धातुः सह ताभ्याम् अनर्थकः // वाप २.१९० //

तथैव स्वार्थिकाः के चित् $ संघातान्तरवृत्तयः &
अनर्थकेन संसृष्टाः प्रकृत्यर्थानुवादिनः // वाप २.१९१ //

निपाता द्योतकाः के चित् $ पृथगर्थप्रकल्पने &
आगमा इव के चित् तु संभूयार्थस्य साधकाः // वाप २.१९२ //

उपरिष्टात् पुरस्ताद् वा $ द्योतकत्वं न भिद्यते &
तेषु प्रयुज्यमानेषु भिन्नार्थेष्व् अपि सर्वथा // वाप २.१९३ //

चादयो न प्रयुज्यन्ते $ पदत्वे सति केवलाः &
प्रत्ययो वाचकत्वे ऽपि केवलो न प्रयुज्यते // वाप २.१९४ //

समुच्चिताभिधाने तु $ व्यतिरेको न विद्यते &
असत्त्वभूतो भावश् च तिङ्पदैर् अभिधीयते // वाप २.१९५ //

समुच्चिताभिधाने ऽपि $ विशिष्टार्थाभिधायिनाम् &
गुणैर् पदानां संबन्धः परतन्त्रास् तु चादयः // वाप २.१९६ //

जनयित्वा क्रिया का चित् $ संबन्धं विनिवर्तते &
श्रूयमाणे क्रियाशब्दे संबन्धो जायते क्व चित् // वाप २.१९७ //

तत्र षष्ठी प्रतिपदं $ समासस्य निवृत्तये &
विहिता दर्शनार्थं तु कारकं प्रत्युदाहृतम् // वाप २.१९८ //

स चोपजातः संबन्धो $ विनिवृत्ते क्रियापदे &
कर्मप्रवचनीयेन तत्र तत्र नियम्यते // वाप २.१९९ //

येन क्रियापदाक्षेपः $ स कारकविभक्तिभिः &
युज्यते विर् यथा तस्य लिखाव् अनुपसर्गता // वाप २.२०० //

तिष्ठतेर् अप्रयोगश् च $ दृष्टो ऽप्रत्य् अजयन्न् इति &
सुन्व् अभीत्य् आभिमुख्ये च केवलो ऽपि प्रयुज्यते // वाप २.२०१ //

कर्मप्रवचनीयत्वं $ क्रियायोगे विधीयते &
षत्वादिविनिवृत्त्यर्थं स्वत्यादीनां विधर्मणाम् // वाप २.२०२ //

हेतुहेतुमतोर् योग- $ परिच्छेदे ऽनुना कृते &
आरम्भाद् बाध्यते प्राप्ता तृतीया हेतुलक्षणा // वाप २.२०३ //

क्रियाया द्योतको नायं $ न संबन्धस्य वाचकः &
नापि क्रियापदाक्षेपि संबन्धस्य तु भेदकः // वाप २.२०४ //

अनर्थकानां संघातः $ सार्थको ऽनर्थकस् तथा &
वर्णानां पदम् अर्थेन युक्तं नावयवाः पदे // वाप २.२०५ //

पदानाम् अर्थयुक्तानां $ संघातो भिद्यते पुनः &
अर्थान्तरावबोधेन संबन्धविगमेन च // वाप २.२०६ //

सार्थकानर्थकौ भेदे $ संबन्धं नाधिगच्छतः &
अधिगच्छत इत्य् एके कुटीरादिनिदर्शनात् // वाप २.१०७ //

अर्थवद्भ्यो विशिष्टार्थः $ संघात उपजायते &
नोपजायत इत्य् एके समासस्वार्थिकादिषु // वाप २.२०८ //

के चिद् धि युतसिद्धार्था $ भेदे निर्ज्ञातशक्तयः &
अन्वयव्यतिरेकाभ्यां के चित् कल्पितशक्तयः // वाप २.२०९ //

शास्त्रार्थ एव वर्णानाम् $ अर्थवत्त्वे प्रदर्शितः &
धात्वादीनां हि शुद्धानां लौकिको ऽर्थो न विद्यते // वाप २.२१० //

कृत्तद्धितानाम् अर्थश् च $ केवलानाम् अलौकिकः &
प्राग् विभक्तेस् तदन्तस्य तथैवार्थो न विद्यते // वाप २.२११ //

अभिव्यक्ततरो यो ऽर्थः $ प्रत्ययान्तेषु लक्ष्यते &
अर्थवत्ताप्रकरणाद् आश्रितः स तथाविधः // वाप २.२१२ //

आत्मभेदो न चेत् कश् चिद् $ वर्णेभ्यः पदवाक्ययोः &
अन्योन्यापेक्षया शक्त्या वर्णः स्याद् अभिधायकः // वाप २.२१३ //

वर्णेन केन चिन् न्यूनः $ संघातो यो ऽभिधायकः &
न चेच् छब्दान्तरम् असाव् अन्यूनस् तेन गम्यते // वाप २.२१४ //

स तस्मिन् वाचके शब्दे $ निमित्तात् स्मृतिम् आदधत् &
साक्षाद् इव व्यवहितं शब्देनार्थम् उपोहते // वाप २.२१५ //

पदवाच्यो यथा नार्थः $ कश् चिद् गौरखरादिषु &
सत्य् अपि प्रत्यये ऽत्यन्तं समुदाये न गम्यते // वाप २.२१६ //

समन्वित इवार्थात्मा $ पदार्थैर् यः प्रतीयते &
पदार्थदर्शनं तत्र तथैवानुपकारकम् // वाप २.२१७ //

समुदायावयवयोर् $ भिन्नार्थत्वे च वृत्तिषु &
युगपद् भेदसंसर्गौ विरुद्धाव् अनुषङ्गिणौ // वाप २.२१८ //

कश् च साधनमात्रार्थान् $ अध्यादीन् परिकल्पयेत् &
अप्रयुक्तपदश् चार्थो बहुव्रीहौ कथं भवेत् // वाप २.२१९ //

प्रज्ञुसंज्ञ्वाद्यवयवैर् $ न चास्त्य् अर्थावधारणम् &
तस्मात् संघात एवैको विशिष्टार्थनिबन्धनम् // वाप २.२२० //

गर्गा इत्य् एक एवायं $ बहुष्व् अर्थेषु वर्तते &
द्वन्द्वसंज्ञो ऽपि संघातो बहूनाम् अभिधायकः // वाप २.२२१ //

यथैकशेषे भुज्यादिः $ प्रत्येकम् अवतिष्ठते &
क्रियैवं द्वन्द्ववाच्ये ऽर्थे प्रत्येकं प्रविभज्यते // वाप २.२२२ //

यच् च द्वन्द्वपदार्थस्य $ तच्छब्देन व्यपेक्षणम् &
सापि व्यावृत्तरूपे ऽर्थे सर्वनामसरूपता // वाप २.२२३ //

यथा च खदिरच्छेदे $ भागेषु क्रमवांस् छिदिः &
तथा द्वन्द्वपदार्थस्य भागेषु क्रमदर्शनम् // वाप २.२२४ //

सङ्घैकदेशे प्रक्रान्तान् $ यथा सङ्घानुपातिनः &
क्रियाविशेषान् मन्यन्ते स द्वन्द्वावयवे क्रमः // वाप २.२२५ //

प्रतिपादयता वृत्तिम् $ अबुद्धान् वाक्यपूर्विकाम् &
वृत्तौ पदार्थभेदेन प्राधान्यम् उपदर्शितम् // वाप २.२२६ //

अभेदाद् अभिधेयस्य $ नञ्समासे विकल्पितम् &
प्राधान्यं बहुधा भाष्ये दोषास् तु प्रक्रियागताः // वाप २.२२७ //

जहत्स्वार्थविकल्पे च $ सर्वार्थत्यागम् इच्छता &
बहुव्रीहिपदार्थस्य त्यागः सर्वस्य दर्शितः // वाप २.२२८ //

शास्त्रे क्व चित् प्रकृत्यर्थः $ प्रत्ययेनाभिधीयते &
प्रकृतौ विनिवृत्तायां प्रत्ययार्थश् च धातुभिः // वाप २.२२९ //

यम् अर्थम् आहतुर् भिन्नौ $ प्रत्ययाव् एक एव तम् &
क्व चिद् आह पचन्तीति धातुस् ताभ्यां विना क्व चित् // वाप २.२३० //

अन्वाख्यानस्मृतेर् ये च $ प्रत्ययार्था निबन्धनम् &
निर्दिष्टास् ते प्रकृत्यर्थाः स्मृत्यन्तर उदाहृताः // वाप २.२३१ //

प्रसिद्धेर् उद्वमिकरीत्य् $ एवं शास्त्रे ऽभिधीयते &
व्यवहाराय मन्यन्ते शास्त्रार्थप्रक्रिया यतः // वाप २.२३२ //

शास्त्रेषु प्रक्रियाभेदैर् $ अविद्यैवोपवर्ण्यते &
अनागमविकल्पा तु स्वयं विद्योपवर्तते // वाप २.२३३ //

अनिबद्धं निमित्तेषु $ निरुपाख्यं फलं यथा &
तथा विद्याप्य् अनाख्येया शास्त्रोपायेव लक्ष्यते // वाप २.२३४ //

यथाभ्यासं हि वाग् अर्थे $ प्रतिपत्तिं समीहते &
स्वभाव इव चानादिर् मिथ्याभ्यासो व्यवस्थितः // वाप २.२३५ //

उत्प्रेक्षते सावयवं $ परमाणुम् अपण्डितः &
तथावयविनं युक्तम् अन्यैर् अवयवैः पुनः // वाप २.२३६ //

घटादिदर्शनाल् लोकः $ परिच्छिन्नो ऽवसीयते &
समारम्भाच् च भावानाम् आदिमद् ब्रह्म शाश्वतम् // वाप २.२३७ //

उपायाः शिक्षमाणानां $ बालानाम् उपलापनाः &
असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते // वाप २.२३८ //

अन्यथा प्रतिपद्यार्थं $ पदग्रहणपूर्वकम् &
पुनर् वाक्ये तम् एवार्थम् अन्यथा प्रतिपद्यते // वाप २.२३९ //

उपात्ता बहवो ऽप्य् अर्था $ येष्व् अन्ते प्रतिषेधनम् &
क्रियते ते निवर्तन्ते तस्मात् तांस् तत्र नाश्रयेत् // वाप २.२४० //

वृक्षो नास्तीति वाक्यं च $ विशिष्टाभावलक्षणम् &
नार्थे न बुद्धौ संबन्धो निवृत्तेर् अवतिष्ठते // वाप २.२४१ //

विच्छेदप्रतिपत्तौ च $ यद्य् अस्तीत्य् अवधार्यते &
अशब्दवाच्या सा बुद्धिर् निवर्त्येत स्थिता कथम् // वाप २.२४२ //

अथ यज् ज्ञानम् उत्पन्नं $ तन् मिथ्येति नञा कृतम् &
नञो व्यापारभेदे ऽस्मिन्न् अभावावगतिः कथम् // वाप २.२४३ //

निराधारप्रवृत्तौ च $ प्राक्प्रवृत्तिर् नञो भवेत् &
अथाधारः स एवास्य नियमार्था श्रुतिर् भवेत् // वाप २.२४४ //

नियमद्योतनार्था वाप्य् $ अनुवादो यथा भवेत् &
कश् चिद् एवार्थवांस् तत्र शब्दः शेषास् त्व् अनर्थकाः // वाप २.२४५ //

विरुद्धं चाभिसंबन्धम् $ उदाहार्यादिभिः कृतम् &
वाक्ये समाप्ते वाक्यार्थम् अन्यथा प्रतिपद्यते // वाप २.२४६ //

स्तुतिनिन्दाप्रधानेषु $ वाक्येष्व् अर्थो न तादृशः &
पदानां प्रविभागेन यादृशः परिकल्प्यते // वाप २.२४७ //

अथासंसृष्ट एवार्थः $ पदेषु समवस्थितः &
वाक्यार्थस्याभ्युपायो ऽसाव् एकस्य प्रतिपादने // वाप २.२४८ //

पूर्वं पदेष्व् असंसृष्टो $ यः क्रमाद् उपचीयते &
छिन्नग्रथितकल्पत्वात् तद् विशिष्टतरं विदुः // वाप २.२४९ //

एकम् आहुर् अनेकार्थं $ शब्दम् अन्ये परीक्षकाः &
निमित्तभेदाद् एकस्य सार्वार्थ्यं तस्य भिद्यते // वाप २.२५० //

यौगपद्यम् अतिक्रम्य $ पर्याये व्यवतिष्ठते &
अर्थप्रकरणाभ्यां वा योगाच् छब्दान्तरेण वा // वाप २.२५१ //

यथा सास्नादिमान् पिण्डो $ गोशब्देनाभिधीयते &
तथा स एव गोशब्दो वाहीके ऽपि व्यवस्थितः // वाप २.२५२ //

सर्वशक्तेस् तु तस्यैव $ शब्दस्यानेकधर्मणः &
प्रसिद्धिभेदाद् गौणत्वं मुख्यत्वं चोपजायते // वाप २.२५३ //

एको मन्त्रस् तथाध्यात्मम् $ अधिदैवम् अधिक्रतु &
असंकरेण सर्वार्थो भिन्नशक्तिर् अवस्थितः // वाप २.२५४ //

गोत्वानुषङ्गो वाहीके $ निमित्तात् कैश् चिद् इष्यते &
अर्थमात्रं विपर्यस्तं शब्दः स्वार्थे व्यवस्थितः // वाप २.२५५ //

तथा स्वरूपं शब्दानां $ सर्वार्थेष्व् अनुषज्यते &
अर्थमात्रं विपर्यस्तं स्वरूपे तु श्रुतिः स्थिता // वाप २.२५६ //

एकत्वं तु सरूपत्वाच् $ छब्दयोर् गौणमुख्ययोः &
प्राहुर् अत्यन्तभेदे ऽपि भेदमार्गानुदर्शिनः // वाप २.२५७ //

सामिधेन्यन्तरं चैवम् $ आवृत्ताव् अनुषज्यते &
मन्त्रास् च विनियोगेन लभन्ते भेदम् ऊहवत् // वाप २.२५८ //

तान्य् आम्नायान्तराण्य् एव $ पठ्यते किं चिद् एव तु &
अनर्थकानां पाठो वा शेषस् त्व् अन्यः प्रतीयते // वाप २.२५९ //

शब्दस्वरूपम् अर्थस् तु $ पाठे ऽन्यैर् उपवर्ण्यते &
अत्यन्तभेदः सर्वेषां तत्संबन्धात् तु तद्वताम् // वाप २.२६० //

अन्या संस्कारसावित्री $ कर्मण्य् अन्या प्रयुज्यते &
अन्या जपप्रबन्धेषु सा त्व् एकैव प्रतीयते // वाप २.२६१ //

अर्थस्वरूपे शब्दानां $ स्वरूपाद् वृत्तिम् इच्छतः &
वाक्यरूपस्य वाक्यार्थे वृत्तिर् अन्यानपेक्षया // वाप २.२६२ //

अनेकार्थत्वम् एकस्य $ यैः शब्दस्यानुगम्यते &
सिद्ध्यसिद्धिकृता तेषां गौणमुख्यप्रकल्पना // वाप २.२६३ //

अर्थप्रकरणापेक्षो $ यो वा शब्दान्तरैः सह &
युक्तः प्रत्याययत्य् अर्थं तं गौणम् अपरे विदुः // वाप २.२६४ //

शुद्धस्योच्चारणे स्वार्थः $ प्रसिद्धो यस्य गम्यते &
स मुख्य इति विज्ञेयो रूपमात्रनिबन्धनः // वाप २.२६५ //

यस् त्व् अन्यस्य प्रयोगेण $ यत्नाद् इव नियुज्यते &
तम् अप्रसिद्धं मन्यन्ते गौणार्थाभिनिवेशिनम् // वाप २.२६६ //

स्वार्थे प्रवर्तमानो ऽपि $ यस्यार्थं यो ऽवलम्बते &
निमित्तं तत्र मुख्यं स्यान् निमित्ती गौण इष्यते // वाप २.२६७ //

पुराराद् इति भिन्ने ऽर्थे $ यौ वर्तेते विरोधिनि &
अर्थप्रकरणापेक्षं तयोर् अप्य् अवधारणम् // वाप २.२६८ //

वाक्यस्यार्थात् पदार्थानाम् $ अपोद्धारे प्रकल्पिते &
शब्दान्तरेण संबन्धः कस्यैकस्योपपद्यते // वाप २.२६९ //

यच् चाप्य् एकं पदं दृष्टं $ चरितास्तिक्रियं क्व चित् &
तद् वाक्यान्तरम् एवाहुर् न तद् अन्येन युज्यते // वाप २.२७० //

यच् च को ऽयम् इति प्रश्ने $ गौर् अश्व इति चोच्यते &
प्रश्न एव क्रिया तत्र प्रक्रान्ता दर्शनादिका // वाप २.२७१ //

नैवाधिकत्वं धर्माणां $ न्यूनता वा प्रयोजिका &
आधिक्यम् अपि मन्यन्ते प्रसिद्धेर् न्यूनतां क्व चित् // वाप २.२७२ //

जातिशब्दो ऽन्तरेणापि $ जातिं यत्र प्रयुज्यते &
संबन्धिसदृशाद् धर्मात् तं गौणम् अपरे विदुः // वाप २.२७३ //

विपर्यासाद् इवार्थस्य $ यत्रार्थान्तरताम् इव &
मन्यन्ते स गवादिस् तु गौण इत्य् उच्यते क्व चित् // वाप २.२७४ //

नियताः साधनत्वेन $ रूपशक्तिसमन्विताः &
यथा कर्मसु गम्यन्ते सीरासिमुसलादयः // वाप २.२७५ //

क्रियान्तरे न चैतेषां $ विभवन्ति न शक्तयः &
रूपाद् एव तु तादर्थ्यं नियमेन प्रतीयते // वाप २.२७६ //

तथैव रूपशक्तिभ्याम् $ उत्पत्त्या समवस्थितः &
शब्दो नियततादर्थ्यः शक्त्यान्यत्र प्रयुज्यते // वाप २.२७७ //

श्रुतिमात्रेण यत्रास्य $ सामर्थ्यम् अवसीयते &
तं मुख्यम् अर्थं मन्यन्ते गौणं यत्नोपपादितम् // वाप २.२७८ //

गोयुष्मन्महतां च्व्यर्थे $ स्वार्थाद् अर्थान्तरे स्थितौ &
अर्थान्तरस्य तद्भावस् तत्र मुख्यो ऽपि दृश्यते // वाप २.२७९ //

महत्त्वं शुक्लभावं च $ प्रकृतिः प्रतिपद्यते &
भेदेनापेक्षिता सा तु गौणत्वस्य प्रसाधिका // वाप २.२८० //

अग्निसोमादयः शब्दा $ ये स्वरूपपदार्थकाः &
संज्ञिभिः संप्रयुज्यन्ते ऽप्रसिद्धेस् तेषु गौणता // वाप २.२८१ //

अग्निदत्तस् तु यो ऽग्निः स्यात् $ तत्र स्वार्थोपसर्जनः &
शब्दो दत्तार्थवृत्तित्वाद् गौणत्वं प्रतिपद्यते // वाप २.२८२ //

निमित्तभेदात् प्रक्रान्ते $ शब्दव्युत्पत्तिकर्मणि &
हरिश्चन्द्रादिषु सुटो भावाभावौ व्यवस्थितौ // वाप २.२८३ //

ऋष्यादौ प्राप्तसंस्कारो $ यः शब्दो ऽन्येन युज्यते &
तत्रान्तरङ्गसंस्कारो बाह्ये ऽर्थे न निवर्तते // वाप २.२८४ //

अत्यन्तविपरीतो ऽपि $ यथा यो ऽर्थो ऽवधार्यते &
यथासंप्रत्ययं शब्दस् तत्र मुख्यः प्रयुज्यते // वाप २.२८५ //

यद्य् अपि प्रत्ययाधीनम् $ अर्थतत्त्वावधारणम् &
न सर्वः प्रत्ययस् तस्मिन् प्रसिद्ध इव जायते // वाप २.२८६ //

दर्शनं सलिले तुल्यं $ मृगतृष्णादिदर्शनैः &
भेदात् तु स्पर्शनादीनां न जलं मृगतृष्णिका // वाप २.२८७ //

यद् असाधारणं कार्यं $ प्रसिद्धं रज्जुसर्पयोः &
तेन भेदपरिच्छेदस् तयोस् तुल्ये ऽपि दर्शने // वाप २.२८८ //

प्रसिद्धार्थविपर्यास- $ निमित्तं यच् च दृश्यते &
यस् तस्माल् लक्ष्यते भेदस् तम् असत्यं प्रचक्षते // वाप २.२८९ //

यच् च निम्नोन्नतं चित्रे $ सरूपं पर्वतादिभिः &
न तत्र प्रतिघातादि कार्यं तद्वत् प्रवर्तते // वाप २.२९० //

स्पर्शप्रबन्धो हस्तेन $ यथा चक्रस्य संततः &
न तथालातचक्रस्य विच्छिन्नं स्पृश्यते हि तत् // वाप २.२९१ //

वप्रप्राकारकल्पैश् च $ स्पर्शनावरणे यथा &
नगरेषु न ते तद्वद् गन्धर्वनगरेष्व् अपि // वाप २.२९२ //

मृगपश्वादिभिर् यावान् $ मुख्यैर् अर्थः प्रसाध्यते &
तावान् न मृन्मयेष्व् अस्ति तस्मात् ते विषयः कनः // वाप २.२९३ //

महान् आव्रियते देशः $ प्रसिद्धैः पर्वतादिभिः &
अल्पदेशान्तरावस्थं प्रतिबिम्बं तु दृश्यते // वाप २.२९४ //

मरणादिनिमित्तं च $ यथा मुख्या विषादयः &
न ते स्वप्नादिषु स्वस्य तद्वद् अर्थस्य साधकाः // वाप २.२९५ //

देशकालेन्द्रियगतैर् $ भेदैर् यद् दृश्यते ऽन्यथा &
यथा प्रसिद्धिर् लोकस्य तथा तद् अवसीयते // वाप २.२९६ //

यच् चोपघातजं ज्ञानं $ यच् च ज्ञानम् अलौकिकम् &
न ताभ्यां व्यवहारो ऽस्ति शब्दा लोकनिबन्धनाः // वाप २.२९७ //

घटादिषु यथा दीपो $ येनार्थेन प्रयुज्यते &
ततो ऽन्यस्यापि सांनिध्यात् स करोति प्रकाशनम् // वाप २.२९८ //

संसर्गिषु तथार्थेषु $ शब्दो येन प्रयुज्यते &
तस्मात् प्रयोजकाद् अन्यान् अपि प्रत्याययत्य् असौ // वाप २.२९९ //

निर्मन्थनं यथारण्योर् $ अग्न्यर्थम् उपपादितम् &
धूमम् अप्य् अनभिप्रेतं जनयत्य् एकसाधनम् // वाप २.३०० //

तथा शब्दो ऽपि कस्मिंश् चित् $ प्रत्याय्ये ऽर्थे विवक्षिते &
अविवक्षितम् अप्य् अर्थं प्रकाशयते संनिधेः // वाप २.३०१ //

यथैवात्यन्तसंसृष्टस् $ त्यक्तुम् अर्थो न शक्यते &
तथा शब्दो ऽपि संबन्धी प्रविवक्तुं न शक्यते // वाप २.३०२ //

अर्थानां संनिधाने ऽपि $ सति चैषां प्रकाशने &
प्रयोजको ऽर्थः शब्दस्य रूपाभेदे ऽपि गम्यते // वाप २.३०३ //

क्व चिद् गुणप्रधानत्वम् $ अर्थानाम् अविवक्षितम् &
क्व चित् सांनिध्यम् अप्य् एषां प्रतिपत्ताव् अकारणम् // वाप २.३०४ //

  • यच् चानुपात्तं शब्देन $ तत् कस्मिंश् चित् प्रतीयते &

क्व चित् प्रधानम् एवार्थो भवत्य् अयस्य लक्षणम् // वाप २.३०५ *//

  • आख्यातं तद्धितार्थस्य $ यत् किं चिद् उपदर्शकम् &

गुणप्रधानभावस्य तत्र दृष्टो विपर्ययः // वाप २.३०६ *//

  • निर्देशे लिङ्गसंख्यानां $ संनिधानम् अकारणम् &

प्रमाणम् अर्धह्रसादाव् अनुपात्तं प्रतीयते // वाप २.३०७ //

ह्रस्वस्यार्धं च यद् दृष्टं $ तत् तस्यासंनिधाव् अपि &
ह्रस्वस्य लक्षणार्थत्वात् तद्वद् एवाभिधीयते // वाप २.३०८ //

दीर्घप्लुताभ्यां तस्य स्यान् $ मात्रया वा विशेषणम् &
जातेर् वा लक्षणाय स्यात् सर्वथा सप्तपर्णवत् // वाप २.३०९ //

गन्तव्यं दृश्यतां सूर्य $ इति कालस्य लक्षणे &
ज्ञायतां काल इत्य् एतत् सोपायम् अभिधीयते // वाप २.३१० //

विध्यत्य् अधनुषेत्य् अत्र $ विशेषेण निदर्श्यते &
सामान्यम् आश्रयः शक्तेर् यः कश् चित् प्रतिपादकः // वाप २.३११ //

काकेभ्यो रक्ष्यतां सर्पिर् $ इति बालो ऽपि चोदितः &
उपघातपरे वाक्ये न श्वादिभ्यो न रक्षति // वाप २.३१२ //

प्रक्षालने शरावाणां $ स्थाननिर्मार्जनं तथा &
अनुक्तम् अपि रूपेण भुज्यङ्गत्वात् प्रतीयते // वाप २.३१३ //

वाक्यात् प्रकरणाद् अर्थाद् $ औचित्याद् देशकालतः &
शब्दार्थाः प्रविभज्यन्ते न रूपाद् एव केवलात् // वाप २.३१४ //

संसर्गो विप्रयोगश् च $ साहचर्यं विरोधिता &
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः // वाप २.३१५ //

सामर्थ्यम् औचिती देशः $ कालो व्यक्तिः स्वरादयः &
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः // वाप २.३१६ //

भेदपक्षे ऽपि सारूप्याद् $ भिन्नार्थाः प्रतिपत्तृषु &
नियता यान्त्य् अभिव्यक्तिं शब्दाः प्रकरणादिभिः // वाप २.३१७ //

नामाख्यातसरूपा ये $ कार्यान्तरनिबन्धनाः &
शब्दा वाक्यस्य तेष्व् अर्थो न रूपाद् अधिगम्यते // वाप २.३१८ //

या प्रवृत्तिनिवृत्त्यर्था $ स्तुतिनिन्दाप्रकल्पना &
कुशलः प्रतिपत्ता ताम् अयथार्थां समीहते // वाप २.३१९ //

विधीयमानं यत् क्रर्म $ दृष्टादृष्टप्रयोजनम् &
स्तूयते सा स्तुतिस् तस्य कर्तुर् एव प्रयोजिका // वाप २.३२० //

व्याघ्रादिव्यपदेशेन $ यथा बालो निवर्त्यते &
असत्यो ऽपि तथा कश् चित् प्रत्यवायो ऽभिधीयते // वाप २.३२१ //

न संविधानां कृत्वापि $ प्रत्यवाये तथाविधे &
शास्त्रेण प्रतिषिद्धे ऽर्थे विद्वान् कश् चित् प्रवर्तते // वाप २.३२२ //

सर्पेषु संविधायापि $ सिद्धैर् मन्त्रौषधादिभिः &
नान्यथा प्रतिपत्तव्यं न दतो गमयेद् इति // वाप २.३२३ //

क्व चित् तत्त्वसमाख्यानं $ क्रियते स्तुतिनिन्दयोः &
तत्रापि च प्रवृत्तिश् च निवृत्तिश् चोपदिश्यते // वाप २.३२४ //

रूपं सर्वपदार्थानां $ वाक्यार्थोपनिबन्धनम् &
सापेक्षा ये तु वाक्यार्थाः पदार्थैर् एव ते समाः // वाप २.३२५ //

वाक्यं तद् अपि मन्यन्ते $ यत् पदं चरितक्रियम् &
अन्तरेण क्रियाशब्दं वाक्यादेर् द्वित्वदर्शनात् // वाप २.३२६ //

आख्यातशब्दे नियतं $ साधनं यत्र गम्यते &
तद् अप्य् एकं समाप्तार्थं वाक्यम् इत्य् अभिधीयते // वाप २.३२७ //

शब्दव्यवहिता बुद्धिर् $ अप्रयुक्तपदाश्रया &
अनुमानं तदर्थस्य प्रत्यये हेतुर् उच्यते // वाप २.३२८ //

[थिस् वेर्से इस् ओन्ल्य् इन् ऋऔ] अपरे तु पदस्यैव $ तम् अर्थं प्रतिजानते &
शब्दान्तराभिसंबन्धम् अन्तरेण व्यवस्थितम् // वाप २.३२९ //

यस्मिन्न् उच्चरिते शब्दे $ यदा यो ऽर्थः प्रतीयते &
तम् आहुर् अर्थं तस्यैव नान्यद् अर्थस्य लक्षणम् // वाप २.३३० //

क्रियार्थोपपदेश्व् एवं $ स्थानिनां गम्यते क्रिया &
वृत्तौ निरादिभिश् चैवं क्रान्ताद्यर्थः प्रतीयते // वाप २.३३१ //

तानि शब्दान्तराण्य् एव $ पर्याया इव लौकिकाः &
अर्थप्रकरणाभ्यां तु तेषां स्वार्थो नियम्यते // वाप २.३३२ //

प्रतिबोधाभ्युपायास् तु $ ये तं तं पुरुषं प्रति &
नावश्यं ते ऽभिसंबद्धाः शब्दा ज्ञेयेन वस्तुना // वाप २.३३३ //

असत्यां प्रतिपत्तौ वा $ मिथ्या वा प्रतिपादने &
स्वैर् अर्थैर् नित्यसंबन्धास् ते ते शब्दा व्यवस्थिताः // वाप २.३३४ //

यथाप्रकरणं द्वारम् $ इत्य् अस्यां कर्मणः श्रुतौ &
बधान देहि वेत्य् एतद् उपायाद् अवगम्यते // वाप २.३३५ //

तत्र साधनवृत्तिर् यः $ शब्दः सत्त्वनिबन्धनः &
न स प्रधानभूतस्य साध्यस्यार्थस्य वाचकः // वाप २.३३६ //

स्वार्थमात्रं प्रकाश्यासौ $ सापेक्षो विनिवर्तते &
अर्थस् तु तस्य संबन्धी प्रकल्पयति संनिधिम् // वाप २.३३७ //

पारार्थ्यस्याविशिष्टत्वान् $ न शब्दाच् छब्दसंनिधिः &
नार्थाच् छब्दस्य सांनिध्यं न शब्दाद् अर्थसंनिधिः // वाप २.३३८ //

नष्टरूपम् इवाख्यातम् $ आक्षिप्तं कर्मवाचिना &
यदि प्राप्तं प्रधानत्वं युगपद् भावसत्त्वयोः // वाप २.३३९ //

तैस् तु नामसरूपत्वम् $ आख्यातस्यास्य वर्ण्यते &
अन्वयव्यतिरेकाभ्यां व्यवहारो विभज्यते // वाप २.३४० //

न चापि रूपात् संदेहे $ वाचकत्वं निवर्तते &
अर्धं पशोर् इति यथा सामर्थ्यात् तद् धि कल्पते // वाप २.३४१ //

सर्वं सत्त्वपदं शुद्धं $ यदि भावनिबन्धनम् &
संसर्गे च विभक्तो ऽस्य तस्यार्थो न पृथग् यदि // वाप २.३४२ //

क्रियाप्रधानम् आख्यातं $ नाम्नां सत्त्वप्रधानता &
चत्वारि पदजातानि सर्वम् एतद् विरुध्यते // वाप २.३४३ //

वाक्यस्य बुद्धौ नित्यत्वम् $ अर्थयोगं च लौकिकम् &
दृष्ट्वा चतुष्ट्वं नास्तीति वदत्य् औदुम्बरायणः // वाप २.३४४ //

व्याप्तिमांश् च लघुश् चैव $ व्यवहारः पदाश्रयः &
लोके शास्त्रे च कार्यार्थं विभागेनैव कल्पितः // वाप २.३४५ //

न लोके प्रतिपत्तॄणाम् $ अर्थयोगात् प्रसिद्धयः &
तस्माद् अलौकिको वाक्याद् अन्यः कश् चिन् न विद्यते // वाप २.३४६ //

अन्यत्र श्रूयमाणैश् च $ लिङ्गैर् वाक्यैश् च सूचिताः &
स्वार्था एव प्रतीयन्ते रूपाभेदाद् अलक्षिताः // वाप २.३४७ //

उत्सर्गवाक्ये यत् त्यक्तम् $ अशब्दम् इव शब्दवत् &
तद् बाधकेषु वाक्येषु श्रुतम् अन्यत्र गम्यते // वाप २.३४८ //

ब्राह्मणानां श्रुतिर् दध्नि $ प्रक्रान्ता माठराद् विना &
माठरस् तक्रसंबन्धात् तत्राचष्टे यथार्थताम् // वाप २.३४९ //

अनेकाख्यातयोगे ऽपि $ वाक्यं न्यायापवादयोः &
एकम् एवेष्यते कैश् चिद् भिन्नरूपम् इव स्थितम् // वाप २.३५० //

नियमः प्रतिषेधश् च $ विधिशेषस् तथा सति &
द्वितीये यो लुग् आख्यातस् तच्छेषम् अलुकं विदुः // वाप २.३५१ //

निराकाङ्क्षाणि निर्वृत्तौ $ प्रधानानि परस्परम् &
तेषाम् अनुपकारित्वात् कथं स्याद् एकवाक्यता // वाप २.३५२ //

विशेषविधिनार्थित्वाद् $ वाक्यशेषो ऽनुमीयते &
विधेयवन् निवर्त्ये ऽर्थे तस्मात् तुल्यं व्यपेक्षणम् // वाप २.३५३ //

संज्ञाशब्दैकदेशो यस् $ तस्य लोपो न विद्यते &
विशिष्टरूपा सा संज्ञा कृता च न निवर्तते // वाप २.३५४ //

संज्ञान्तराच् च दत्तादेर् $ नान्या संज्ञा प्रतीयते &
संज्ञिनं देवदत्ताख्यं दत्तशब्दः कथं वदेत् // वाप २.३५५ //

सर्वैर् अवयवैस् तुल्यं $ संबन्धं समुदायवत् &
के चिच् छब्दस्वरूपाणां मन्यन्ते सर्वसंज्ञिभिः // वाप २.३५६ //

वर्णानाम् अर्थवत्त्वं तु $ संज्ञानां संज्ञिभिर् भवेत् &
संबद्धो ऽवयवः संज्ञा- प्रविवेके न कल्पते // वाप २.३५७ //

सर्वस्वरूपैर् युगपत् $ संबन्धे सति संज्ञिनः &
नैकदेशसरूपेभ्यस् तत्प्रत्यायनसंभवः // वाप २.३५८ //

एकदेशात् तु संघाते $ केषां चिज् जायते स्मृतिः &
स्मृतेस् तु विषयाच् छब्दात् संघातार्थः प्रतीयते // वाप २.३५९ //

एकदेशात् स्मृतिर् भिन्ने $ संघाते नियता कथम् &
कथं प्रतीयमानः स्याच् छब्दो ऽर्थस्याभिधायकः // वाप २.३६० //

एकदेशसरूपास् तु $ तैस् तैर् भेदैः समन्विताः &
अनुनिष्पादिनः शब्दाः संज्ञासु समवस्थिताः // वाप २.३६१ //

साधारणत्वात् संधिग्धाः $ सामर्थ्यान् नियताश्रयाः &
तेषां ये साधवस् तेषु शास्त्रे लोपादि शिष्यते // वाप २.३६२ //

तुल्यायाम् अनुनिष्पत्तौ $ ज्ये-द्रा-घा इत्य् असाधवः &
न ह्य् अन्वाख्यायके शास्त्रे तेषु दत्तादिवत् स्मृतिः // वाप २.३६३ //

कृतणत्वाश् च ये शब्दा $ नित्याः खरणसादयः &
एकद्रव्योपदेशित्वात् तान् साधून् संप्रचक्षते // वाप २.३६४ //

गोत्राण्य् एव तु तान्य् आहुः $ संज्ञाशक्तिसमन्वयात् &
निमित्तापेक्षणं तेषु स्वार्थे नावश्यम् इष्यते // वाप २.३६५ //

व्यवहाराय नियमः $ संज्ञानां संज्ञिनि क्व चित् &
नित्य एव तु संबन्धो डित्थादिषु गवादिवत् // वाप २.३६६ //

कृतकत्वाद् अनित्यत्वं $ संबन्धस्योपपद्यते &
संज्ञायां सा हि पुरुषैर् यथाकामं नियुज्यते // वाप २.३६७ //

यथा हि पांसुलेखानां $ बालकैर् मधुक्रादयः &
संज्ञाः क्रियन्ते सर्वासु संज्ञास्व् एषैव कल्पना // वाप २.३६८ //

वृद्ध्यादीनां च शास्त्रे ऽस्मिञ् $ छक्त्यवच्छेदलक्षणः &
अकृत्रिमो हि संबन्धो विशेषणविशेष्यवत् // वाप २.३६९ //

संज्ञा स्वरूपम् आश्रित्य $ निमित्ते सति लौकिकी &
का चित् प्रवर्तते का चिन् निमित्तासंनिधाव् अपि // वाप २.३७० //

शास्त्रे ऽपि महती संज्ञा $ स्वरूपोपनिबन्धना &
अनुमानं निमित्तस्य संनिधाने प्रतीयते // वाप २.३७१ //

आवृत्तेर् अनुमानं वा $ सारूप्यात् तत्र गम्यते &
शब्दभेदानुमानं वा शक्तिभेदस्य वा गतिः // वाप २.३७२ //

क्व चिद् विषयभेदेन $ कृत्रिमा व्यवतिष्ठते &
संख्यायाम् एकविषयं व्यवस्थानं द्वयोर् अपि // वाप २.३७३ //

विषयं कृत्रिमस्यापि $ लौकिकः क्व चिद् उच्चरन् &
व्याप्नोति दूरात् संबुद्धौ तथा हि ग्रहणं द्वयोः // वाप २.३७४ //

सङ्घैकशेषद्वन्द्वेषु $ के चित् सामर्थ्यलक्षणम् &
प्रत्याश्रयम् अवस्थानं क्रियाणां प्रतिजानते // वाप २.३७५ //

भोजनं फलरूपाभ्याम् $ एकैकस्मिन् समाप्यते &
अन्यथा हि व्यवस्थाने न तदर्थः प्रकल्प्यते // वाप २.३७६ //

अन्नादानादि रूपां च $ सर्वे तृप्तिफलां भुजिम् &
प्रत्येकं प्रतिपद्यन्ते न तु नाट्यक्रियाम् इव // वाप २.३७७ //

पाद्यवत् सा विभागेन $ सामर्थ्याद् अवतिष्ठते &
भुजिः करोति भुज्यर्थं न तन्त्रेण प्रदीपवत् // वाप २.३७८ //

दृश्यादिस् तु क्रियैकापि $ तथाभूतेषु कर्मसु &
आवृत्तिम् अन्तरेणापि समुदायाश्रया भवेत् // वाप २.३७९ //

भिन्नव्यापाररूपाणां $ व्यवहारादिदर्शने &
कर्तॄणां दर्शनं भिन्नं संभूयार्थस्य साधकम् // वाप २.३८० //

लक्ष्यस्य लोकसिद्धत्वाच् $ छास्त्रे लिङ्गस्य दर्शनात् &
अर्थिष्व् आदैक्षु भेदेन वृद्धिसंज्ञा समाप्यते // वाप २.३८१ //

शतादानप्रधानत्वाद् $ दण्डने शतकर्मके &
अर्थिनां गुणभेदे ऽपि संख्येयो ऽर्थो न भिद्यते // वाप २.३८२ //

सङ्घस्यैव विधेयत्वात् $ कार्यवत् प्रतिपादने &
तत्र तन्त्रेण संबन्धः समासाभ्यस्तसंज्ञयोः // वाप २.३८३ //

लक्षणार्था श्रुतिर् येषां $ कां चिद् एव क्रियां प्रति &
तैर् व्यस्तैश् च समस्तैश् च स धर्म उपलक्ष्यते // वाप २.३८४ //

वृषलैर् न प्रवेष्टव्यम् $ इत्य् एतस्मिन् गृहे यथा &
प्रत्येकं संहतानां च प्रवेशः प्रतिषिध्यते // वाप २.३८५ //

संभूय त्व् अर्थलिप्सादि- $ प्रतिषेधोपदेशने &
पृथग् अप्रतिषिद्धत्वात् प्रवृत्तिर् न विरुध्यते // वाप २.३८६ //

व्यवायलक्षणार्थात्वाद् $ अट्कुप्वाङादिभिस् तथा &
प्रत्येकं वा समस्तैर् वा णत्वं न प्रतिषिध्यते // वाप २.३८७ //

अनुग्रहार्था भोक्तॄणां $ भुजिर् आरभ्यते यदा &
देशकालाद्यभेदेन नानुगृह्णाति तान् असौ // वाप २.३८८ //

पात्रादिभेदान् नानात्वं $ यस्यैकस्योपदिश्यते &
विपर्यये वा भिन्नस्य तस्यैकत्वं प्रकल्प्यते // वाप २.३८९ //

संहत्यापि च कुर्वाणा $ भेदेन प्रतिपादिताः &
स्वं स्वं भोज्यं विभागेन प्राप्तं संभूय भुञ्जते // वाप २.३९० //

वीप्साया विषयाभावाद् $ विरोधाद् अन्यसंख्यया &
द्विधा समाप्त्ययोगाच् च शतम् सङ्घे ऽवतिष्ठते // वाप २.३९१ //

भुजिर् द्वन्द्वैकशेषाभ्यां $ यत्रान्यैः सह शिष्यते &
तत्रापि लक्षणार्थत्वाद् द्विधा वाक्यं समाप्यते // वाप २.३९२ //

वाक्यान्तराणां प्रत्येकं $ समाप्तिः कैश् चिद् इष्यते &
रूपान्तरेण युक्तानां वाक्यनां तेन संग्रहः // वाप २.३९३ //

न वाक्यस्याभिधेयानि $ भेदवाक्यानि कानि चित् &
तस्मिंस् तूच्चरिते भेदांस् तथान्यान् प्रतिपद्यते // वाप २.३९४ //

येषां समस्तो वाक्यार्थः $ प्रतिभेदं समाप्यते &
तेषां तदानीं भिन्नस्य किं पदार्थस्य सत्तया // वाप २.३९५ //

अथ तैर् एव जनितः $ सो ऽर्थो भिन्नेषु वर्तते &
पूर्वस्यार्थस्य तेन स्याद् विरोधः सह वा स्थितिः // वाप २.३९६ //

सहस्थितौ विरोधित्वं $ स्याद् विशिष्टाविशिष्टयोः &
व्यभिचारी तु संबन्धस् त्यागे ऽर्थस्य प्रसज्यते // वाप २.३९७ //

एकः साधारणो वाच्यः $ प्रतिशब्दम् अवस्थितः &
सङ्घे सङ्घिषु चार्थात्मा सम्निधाननिदेशकः // वाप २.३९८ //

यथा साधारणे स्वत्वं $ त्यागस्य च फलं धने &
प्रीतिश् चाविकला तद्वत् संबन्धो ऽर्थेन तद्वताम् // वाप २.३९९ //

वर्णानाम् अर्थवत्तायां $ तेनैवार्थेन तद्वति &
समुदाये न चैकत्वं भेदेन व्यवतिष्ठते // वाप २.४०० //

एकेनैव प्रदीपेन $ सर्वे साधारणं धनम् &
पश्यन्ति तद्वद् एकेन सुपा संख्याभिधीयते // वाप २.४०१ //

नार्थवत्ता पदे वर्णे $ वाक्ये चैवं विशिष्यते &
अभ्यासात् प्रक्रमो ऽन्यस् तु विरुद्ध इव दृश्यते // वाप २.४०२ //

विनियोगाद् ऋते शब्दो $ न स्वार्थस्य प्रकाशकः &
अर्थाभिधानसंबन्धम् उक्तिद्वारं प्रचक्षते // वाप २.४०३ //

यथा प्रणिहितं चक्षुर् $ दर्शनायोपकल्पते &
तथाभिसंहितः शब्दो भवत्य् अर्थस्य वाचकः // वाप २.४०४ //

क्रियाव्यवेतः संबन्धो $ दृष्टः करणकर्मभिः &
अभिधानियमस् तस्माद् अभिधानाभिधेययोः // वाप २.४०५ //

बहुष्व् एकाभिधानेषु $ सर्वेष्व् एकार्थकारिषु &
यत् प्रयोक्ताभिसंधत्ते शब्दस् तत्रावतिष्ठते // वाप २.४०६ //

आम्नायशब्दान् अभ्यासे $ के चिद् आहुर् अनर्थकान् &
स्वरूपमात्रवृत्तींश् च परेषां प्रतिपादने // वाप २.४०७ //

अभिधानक्रियायोगाद् $ अर्थस्य प्रतिपादकान् &
नियोगभेदान् मन्यन्ते तान् एवैकत्वदर्शिनः // वाप २.४०८ //

तेषाम् अत्यन्तनानात्वं $ नानात्वव्यवहारिणः &
अक्षादीनाम् इव प्राहुर् एकजातिसमन्वयात् // वाप २.४०९ //

प्रयोगाद् अभिसंधानम् $ अन्यद् एषु न विद्यते &
विषये यतशक्तित्वात् स तु तत्र व्यवस्थितः // वाप २.४१० //

नानात्वस्यैव संज्ञानम् $ अर्थप्रकरणादिभिः &
न जात्व् अर्थान्तरे वृत्तिर् अन्यार्थानां कथं चन // वाप २.४११ //

पदरूपम् च यद् वाक्यम् $ अस्तित्वोपनिबन्धनम् &
कामं विमर्शस् तत्रायं न वाक्यावयवे पदे // वाप २.४१२ //

यथैवानर्थकैर् वर्णैर् $ विशिष्टो ऽर्थो ऽभिधीयते &
पदैर् अनर्थकैर् एवं विशिष्टो ऽर्थो ऽभिधीयते // वाप २.४१३ //

यद् अन्तराले ज्ञानं तु $ पदार्थेषूपजायते &
प्रतिपत्तेर् उपायो ऽसौ प्रक्रमानवधारणात् // वाप २.४१४ //

पूर्वैर् अर्थैर् अनुगतो $ यथार्थात्मा परः परः &
संसर्ग एव प्रक्रान्तस् तथान्येष्व् अर्थवस्तुषु // वाप २.४१५ //

अङ्गीकृते तु केषां चित् $ साध्येनार्थेन साधने &
आराधनियमार्थैव साधनानां पुनः श्रुतिः // वाप २.४१६ //

आधारे नियमाभावात् $ तदाक्षेपो न विद्यते &
सामर्थ्यात् संभवस् तस्य श्रुतिस् त्व् अन्यनिवृत्तये // वाप २.४१७ //

क्रिया क्रियान्तराद् भिन्ना $ नियताधारसाधना &
प्रक्रान्ता प्रतिपत्तॄणां भेदाः संबोधहेतवः // वाप २.४१८ //

अविभागं तु शब्देभ्यः $ क्रमवद्भ्यो ऽपदक्रमम् &
प्रकाशते तदन्येषां वाक्यं वाक्यार्थ एव च // वाप २.४१९ //

स्वरूपं विद्यते यस्य $ तस्यात्मा न निरूप्यते &
नास्ति यस्य स्वरूपं तु तस्यैवात्मा निरूप्यते // वाप २.४२० //

अशब्दम् अपरे ऽर्थस्य $ रूपनिर्धारणं विदुः &
अर्थावभासरूपा च शब्देभ्यो जायते स्मृतिः // वाप २.४२१ //

अन्यथैवाग्निसंबन्धाद् $ दाहं दग्धो ऽभिमन्यते &
अन्यथा दाहशब्देन दाहार्थः संप्रतीयते // वाप २.४२२ //

पृथङ्निविष्टतत्त्वानां $ पृथगर्थानुपातिनाम् &
इन्द्रियाणां यथा कार्यम् ऋते देहान् न कल्पते // वाप २.४२३ //

तथा पदानां सर्वेषां $ पृथगर्थनिवेशिनाम् &
वाक्येभ्यः प्रविभक्तानाम् अर्थवत्ता न विद्यते // वाप २.४२४ //

संसर्गरूपं संसृष्टेष्व् $ अर्थवस्तुषु गृह्यते &
नात्रोपाख्यायते तत्त्वम् अपदार्थस्य दर्शनात् // वाप २.४२५ //

दर्शनस्यापि यत् सत्यं $ न तथा दर्शनं स्थितम् &
वस्तु संसर्गरूपेण तद् अरूपं निरूप्यते // वाप २.४२६ //

अस्तित्वेनानुषक्तो वा $ निवृत्त्यात्मनि वा स्थितः &
अर्थो ऽभिधीयते यस्माद् अतो वाक्यं प्रयुज्यते // वाप २.४२७ //

क्रियानुषङ्गेण विना $ न पदार्थः प्रतीयते &
सत्यो वा विपरीतो वा व्यवहारे न सो ऽस्त्य् अतः // वाप २.४२८ //

सद् इत्य् एतत् तु यद् वाक्यं $ तद् अभूद् अस्ति नेति वा &
क्रियाभिधानसंबन्धम् अन्तरेण न गम्यते // वाप २.४२९ //

आख्यातपदवाच्ये ऽर्थे $ साधनोपनिबन्धने &
विना सत्त्वाभिधानेन नाकाङ्क्षा विनिवर्तते // वाप २.४३० //

प्राधान्यात् तु क्रिया पूर्वम् $ अर्थस्य प्रविभज्यते &
साध्यप्रयुक्तान्य् अङ्गानि फलं तस्य प्रयोजकम् // वाप २.४३१ //

प्रयोक्तैवाभिसंधत्ते $ साध्यसाधनरूपताम् &
अर्थस्य चाभिसंबन्ध- कल्पनां प्रसमीहते // वाप २.४३२ //

पचिक्रियां करोतीति $ कर्मत्वेनाभिधीयते &
पक्तिः करणरूपं तु साध्यत्वेन प्रतीयते // वाप २.४३३ //

यो ऽंशो येनोपकारेण $ प्रयोक्तॄणां विवक्षितः &
अर्थस्य सर्वशक्तित्वात् स तथैव व्यवस्थितः // वाप २.४३४ //

आराद्वृत्तिषु संबन्धः $ कदा चिद् अभिधीयते &
आश्लिष्टो यो ऽनुपश्लिष्टः स कदा चित् प्रतीयते // वाप २.४३५ //

संसृष्टानां विभक्तत्वं $ संसर्गश् च विवेकिनाम् &
नानात्मकानाम् एकत्वं नानात्वं च विपर्यये // वाप २.४३६ //

सर्वात्मकत्वाद् अर्थस्य $ नैरात्म्याद् वा व्यवस्थितम् &
अत्यन्तयतशक्तित्वाच् छब्द एव निबन्धनम् // वाप २.४३७ //

वस्तूपलक्षणः शब्दो $ नोपकारस्य वाचकः &
न स्वशक्तिः पदार्थानां संस्प्रष्टुं तेन शक्यते // वाप २.४३८ //

संबन्धिधर्मा संयोगः $ स्वशब्देनाभिधीयते &
संबन्धः समवायस् तु संबन्धित्वेन गम्यते // वाप २.४३९ //

लक्षणाद् व्यवतिष्ठन्ते $ पदार्था न तु वस्तुतः &
उपकारात् स एवार्थः कथं चिद् अनुगम्यते // वाप २.४४० //

वाक्यार्थो यो ऽभिसंबन्धो $ न तस्यात्मा क्व चित् स्थितः &
व्यवहारे पदार्थानां तम् आत्मानं प्रचक्षते // वाप २.४४१ //

पदार्थे समुदाये वा $ समाप्तो नैव वा क्व चित् &
पदार्थरूपभेदेन तस्यात्मा प्रविभज्यते // वाप २.४४२ //

अन्वाख्यानाय यो भेदः $ प्रतिपत्तिनिबन्धनम् &
साकाङ्क्षावयवं भेदे तेनान्यद् उपवर्ण्यते // वाप २.४४३ //

अनेकशक्तेर् एकस्य $ प्रविभागो ऽनुगम्यते &
एकार्थत्वं हि वाक्यस्य मात्रयापि प्रतीयते // वाप २.४४४ //

संप्रत्ययार्थाद् बाह्यो ऽर्थः $ सन्न् असन् वा विभज्यते &
बाह्यीकृत्य विभागस् तु शक्त्यपोद्धारलक्षणः // वाप २.४४५ //

प्रत्ययार्थात्मनियताः $ शक्तयो न व्यवस्थिताः &
अन्यत्र च ततो रूपं न तासाम् उपलभ्यते // वाप २.४४६ //

बहुश्व् अपि तिङन्तेषु $ साकाङ्क्षेष्व् एकवाक्यता &
तिङा तिङ्भ्यो निघातस्य पर्युदासस् तथार्थवान् // वाप २.४४७ //

एकतिङ् यस्य वाक्यं तु $ शास्त्रे नियतलक्षणम् &
तस्यातिङ्ग्रहणेनार्थो वाक्यभेदान् न विद्यते // वाप २.४४८ //

तिङन्तान्तरयुक्तेषु $ युक्तयुक्तेषु वा पुनः &
मृगः पश्यत यातीति भेदाभेदौ न तिष्ठतः // वाप २.४४९ //

इतिकर्तव्यतार्थस्य $ सामर्थ्याद् यत्र काङ्क्ष्यते &
अशब्दलक्षणाकाङ्क्षं समाप्तार्थं तद् उच्यते // वाप २.४५० //

तत्त्वान्वाख्यानमात्रे तु $ यावान् अर्थो ऽनुषज्यते &
विनापि तत्प्रयोगेण श्रुतेर् वाक्यं समाप्यते // वाप २.४५१ //

चिङ्क्रम्यमाणो ऽधीष्वात्र $ जपंश् चङ्क्रमणं कुरु &
तादर्थ्यस्याविशेषे ऽपि शब्दाद् भेदः प्रतीयते // वाप २.४५२ //

फलवन्तः क्रियाभेदाः $ क्रियान्तरनिबन्धनाः &
असंख्याताः क्रमोद्देशैर् एकाख्यातनिदर्शिताः // वाप २.४५३ //

निवृतभेदा सर्वैव $ क्रियाख्याते ऽभिधीयते &
श्रुतेर् अशक्या भेदानां प्रविभागप्रकल्पना // वाप २.४५४ //

अश्वमेधेन यक्ष्यन्ते $ राजानः सत्त्रम् आसते &
ब्राह्मणा इति नाख्यात- रूपाद् भेदः प्रतीयते // वाप २.४५५ //

सकृच् छ्रुता सप्तदशस्व् $ अनावृत्तापि या क्रिया &
प्रजापत्येषु सामर्थ्यात् सा भेदं प्रतिपद्यते // वाप २.४५६ //

देवदत्तादिषु भुजिः $ प्रत्येकम् अवतिष्ठते &
प्रतिस्वतन्त्रं वाक्यं वा भेदेन प्रतिपद्यते // वाप २.४५७ //

उच्चारणे तु वाक्यानाम् $ अन्यद् रूपं न गृह्यते &
प्रतिपत्तौ तु भिन्नानाम् अन्यद् रूपं प्रतीयते // वाप २.४५८ //

एकं ग्रहणवाक्यं च $ सामान्येनाभिधीयते &
कर्तरीति यथा तच् च पश्वादिषु विभज्यते // वाप २.४५९ //

यदि आकाङ्क्षा निवर्तेत $ तद्भूतस्य सकृच् छ्रुतौ &
नैवान्येनाभिसंबन्धं तद् उपेयात् कथं चन // वाप २.४६० //

एकरूपम् अनेकार्थं $ तस्माद् उपनिबन्धनम् &
योनिर् विभागवाक्यानां तेभ्यो ऽनन्यद् इव स्थितम् // वाप २.४६१ //

क्व चित् क्रिया व्यक्तिभागैर् $ उपकारे प्रवर्तते &
सामान्यभाग एवास्याः क्व चिद् अर्थस्य साधकः // वाप २.४६२ //

कालभिन्नाश् च ये भेदा $ ये चाप्य् उष्ट्रासिकादिषु &
प्रक्रमे जातिभागस्य शब्दात्मा तैर् न भिद्यते // वाप २.४६३ //

एकसंख्येषु भेदेषु $ भिन्ना जात्यादिभिः क्रियाः &
भेदेन विनियुज्यन्ते तच्छब्दस्य सकृच् छ्रुतौ // वाप २.४६४ //

अक्षादेषु यथा भिन्ना $ भक्षिभञ्जिदिविक्रियाः &
प्रयोगकालाभेदे ऽपि प्रतिभेदं पृथक् स्थिताः // वाप २.४६५ //

अक्षिणां तन्त्रिणां तन्त्रम् $ उपायस् तुल्यरूपता &
एषां क्रमो विभक्तानां तन्निबद्धा सकृच् छ्रुतिः // वाप २.४६६ //

द्वाव् अप्य् उपायौ शब्दानां $ प्रयोगे समवस्थितौ &
क्रमो वा यौगपद्यं वा यौ लोको नातिवर्तते // वाप २.४६७ //

क्रमे विभज्यते रूपं $ यौगपद्ये न भिद्यते &
क्रिया तु यौगपद्ये ऽपि क्रमरूपानुपातिनी // वाप २.४६८ //

भेदसंसर्गशक्ती द्वे $ शब्दाद् भिन्ने इव स्थिते &
यौगपद्ये ऽप्य् अनेकेन प्रयोगे भिद्यते श्रुतिः // वाप २.४६९ //

अभिन्नो रूपभेदेन $ य एको ऽर्थो विवक्षितः &
तस्यावयवधर्मेण समुदायो ऽनुगम्यते // वाप २.४७० //

भेदनिर्वचने त्व् अस्य $ प्रत्येदं वा समाप्यते &
श्रुतिर् वचनभिन्ना वा वाक्यभेदे ऽवतिष्ठते // वाप २.४७१ //

तत्रैकवचनान्तो वा $ सो ऽक्षशब्दः प्रयुज्यते &
प्रत्येकं वा बहुत्वेन प्रविभागो यथाश्रुति // वाप २.४७२ //

द्विष्ठानि यानि वाक्यानि $ तेष्व् अप्य् एकत्वदर्शिनाम् &
अनेकशक्तेर् एकस्य स्वशक्तिः प्रविभज्यते // वाप २.४७३ //

अत्यन्तभिन्नयोर् वा स्यात् $ प्रयोगे तन्त्रलक्षणः &
उपायस् तत्र संसर्गः प्रतिपत्तृषु भिद्यते // वाप २.४७४ //

भेदेनाधिगतौ पूर्वं $ शब्दौ तुल्यश्रुती पुनः &
तन्त्रेण प्रतिपत्तारः प्रयोक्त्रा प्रतिपादिताः // वाप २.४७५ //

एकस्यापि विवक्षायाम् $ अनुनिष्पद्यते परः &
विनाभिसंधिना शब्दः शक्तिरूपः प्रकाशते // वाप २.४७६ //

अनेका शक्तिर् एकस्य $ युगपच् छ्रूयते क्व चित् &
अग्निः प्रकाशदाहाभ्याम् एकत्रापि नियुज्यते // वाप २.४७७ //

आवृत्तिशक्तिभिन्नार्थे $ वाक्ये सकृद् अपि श्रुते &
लिङ्गाद् वा तन्त्रधर्माद् वा विभागो व्यवतिष्ठते // वाप २.४७८ //

संप्रसारणसंज्ञायां $ लिङ्गाभ्यां वर्णवाक्ययोः &
प्रविभागस् तथा सूत्र एकस्मिन्न् एव जायते // वाप २.४७९ //

तथा द्विर्वचने ऽचीति $ तन्त्रोपायाद् अलक्षणः &
एकशेषेण निर्देशो भाष्य एव प्रदर्शितः // वाप २.४८० //

प्रायेण संक्षेपरुचीन् $ अल्पविद्यापरिग्रहान् &
संप्राप्य वैयाकरणान् संग्रहे ऽस्तम् उपागते // वाप २.४८१ //

कृते ऽथ पातञ्जलिना $ गुरुणा तीर्थदर्शिना &
सर्वेसं न्यायबीजानां महाभाष्ये निबन्धने // वाप २.४८२ //

अलब्धगाधे गाम्भीर्याद् $ उत्तान इव सौष्ठवात् &
तस्मिन्न् अकृतबुद्धीनाम् नैवावास्थित निश्चयः // वाप २.४८३ //

वैजिसौभवहर्यक्षैः $ शुष्कतर्कानुसारिभिः &
आर्षे विप्लाविते ग्रन्थे संग्रहप्रतिकञ्चुके // वाप २.४८४ //

यः पातञ्जलिशिष्येभ्यो $ भ्रष्टो व्याकरणागमः &
कालेन दाक्षिणात्येषु ग्रन्थमात्रो व्यवस्थितः // वाप २.४८५ //

पर्वताद् आगमं लब्ध्वा $ भाष्यबीजानुसारिभिः &
स नीतो बहुशाखत्वं चान्द्राचार्यादिभिः पुनः // वाप २.४८६ //

न्यायप्रस्थानमार्गांस् तान् $ अभ्यस्य स्वम् च दर्शनम् &
प्रणीतो गुरुणास्माकम् अयम् आगमसंग्रहः // वाप २.४८७ //

वर्त्मनाम् अत्र केषाम् चिद् $ वस्तुमात्रम् उदाहृतम् &
काण्डे तृतीये न्यक्षेन भविष्यति विचारणा // वाप २.४८८ //

प्रज्ञा विवेकं लभते $ भिन्नैर् आगमदर्शनैः &
कियद् वा शक्यम् उन्नेतुं स्वतर्कम् अनुधावता // वाप २.४८९ //

तत् तद् उत्प्रेक्षमाणानां $ पुराणैर् आगमैर् विना &
अनुपासितवृद्धानां विद्या नातिप्रसीदति // वाप २.४९० //


मुखपृष्ठं गच्छतु