सरसिजम् अनुविध्दं..... आकृतीनाम् ॥१.२० ॥

विकिपुस्तकानि तः

सरसिजमनुविध्दं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥१.२० ॥

पदच्छेदः-
सरसिजम् अनुविध्दं शैवलेन अपि रम्यं मलिनम् अपि हिमांशोः लक्ष्म लक्ष्मीं तनोति ।
इयम् अधिकमनोज्ञा वल्कलेन अपि तन्वी किम् इव हि मधुराणां मण्डनं न आकृतीनाम् ॥१.२० ॥

अन्वयः-
शैवलेन अनुविध्दम् अपि सरसिजं रम्यम्।मलिनम् अपि लक्ष्म हिमांशोः लक्ष्मीं तनोति । वल्कलेन अपि इयं तन्वी अधिकमनोज्ञा।हि मधुराणाम् आकृतीनाम् किम् इव मण्डनं न ?१.२० ॥

सन्दर्भः-

सरलार्थः-
शैवलेन परिवृतं भवति चेदपि कमलं रम्यम् एव भासते।चन्द्रकलङ्कः मलिनः अस्ति चेदपि चन्द्रस्य शोभां वर्धयति एव।एषा सुन्दरी वल्कलेन अपि अधिकमनोज्ञा दृश्यते।यतो हि सुन्दरशरीराणां किं वस्तु भूषणं न भवति?१.२०

वृत्तम् –
मालिनी

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि   अभिज्ञानशाकुन्तले मालिनी-वृत्तनिबद्धानि पद्यानि
अधरः ..... सन्नध्दम् ॥१.२१॥