अधरः ..... सन्नध्दम् ॥१.२१॥
पठन सेटिंग्स
अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नध्दम् ॥१.२१॥
पदच्छेदः-
अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
कुसुमम् इव लोभनीयं यौवनम् अङ्गेषु सन्नध्दम् ॥१.२१॥
अन्वयः-
अधरः किसलयरागः अस्ति। बाहू कोमलविटपानुकारिणौ स्तः।
कुसुमम् इव लोभनीयं यौवनम् अङ्गेषु सन्नध्दम् ॥१.२१॥
सन्दर्भः-
सरलार्थः-
अस्याः ओष्ठस्य वर्णः किसलयवर्णसदृशः अस्ति। बाहू कोमलवृक्षतुल्यौ स्तः।कुसुमम् इव लोभनीयं यौवनम् अस्याः अवयवेषुव्याप्तम्।॥१.२१॥
वृत्तम् –
आर्या
अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि अभिज्ञानशाकुन्तले आर्या-वृत्तनिबद्धानि पद्यानि सरसिजम् अनुविध्दं..... आकृतीनाम् ॥१.२० ॥ असंशयं .....अन्तःकरणप्रवृत्तयः ॥१.२२॥