स्पष्टीकुरुत – यश्चोभयोः समो दोषः...

विकिपुस्तकानि तः

स्पष्टीकुरुत – यश्चोभयोः समो दोषः...

सन्दर्भः-
पाणिनिदर्शने ‘अर्थस्य वाचकाः वर्णाः अथवा स्फोटः’ इति विवादः उपस्थापितः।तत्र वर्ण-वाचकत्वपक्षेण स्वपक्षमण्डनार्थम् उद्धृतं वचनम् एतत्। वादस्य नियमः अयं यत्
यश्चोभयोः समो दोषः परिहारस्तयोः समः।नैकः पर्यनुयोक्तव्यः तादृगर्थविचारणे॥

यदि कश्चिद् दोषः उभयपक्षे समानः, तयोः पक्षयोः दोषपरिहारः अपि समः तर्हि एकस्मिन् एव पक्षे आक्षेपः न करणीयः। प्रकृते वैयाकरणेन (स्फोटवादिना) मीमांसकमते(वर्णवाचकत्वपक्षे) केचन दोषाः दर्शिताः।ते दोषाः स्फोटवादे अपि सन्ति इति मीमांसकः प्रतिपादयति। ते च दोषाः एवम् –

वर्णवाचकत्वपक्षे दोषः स्फोटवादे दोषः
एकः वर्णः अर्थं प्रत्याययति चेत्अन्येषां वर्णानां नैरर्थक्यम्। एकः वर्णः स्फोटं व्यनक्ति चेत् अन्येषां वर्णानां नैरर्थक्यम्।
वर्णानां समूहः अर्थं प्रत्याययति चेत्,क्षणिकानां वर्णानां समूहः एव न सम्भवति। वर्णानां समूहः स्फोटं व्यनक्ति चेत्,क्षणिकानां वर्णानां समूहः एव न सम्भवति।
अतः वर्णवाचकत्वपक्षः एतद्दोषनिमित्तं न खण्डनीयः इति मीमांसकस्य आशयः।
सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे पाणिनिदर्शनम्