सामग्री पर जाएँ

स्फोटः अर्थस्य वाचकः इति मतं.....

विकिपुस्तकानि तः

स्फोटः अर्थस्य वाचकः इति मतं सविस्तरं वर्णयत।

सन्दर्भः
अर्थज्ञानं पदात् भवति वा न इति अस्मिन् विषये मीमांसा-व्याकरणयोः वैमत्यम् अस्ति।तत्र व्याकरणपक्षः एवं यत् स्फोटः अर्थस्य वाचकः।तदर्थं पदवाचकत्वपक्षं प्रत्याख्याय ते स्वमतम् एवं प्रस्थापन्ति। अर्थज्ञानं वर्णेभ्यः एव भवति इति वचनं न युक्तम्।एकः एकः व्यस्तः वर्णः अर्थबोधने असमर्थः।एकः व्यस्तः वर्णः अर्थं बोधयति चेत् अन्येषां वर्णानाम् आनर्थक्यं भवति।
पुनः यथा पृथक् पृथक् पुष्पेभ्यः मालाप्रतीतिः न जायते तथा पृथक् पृथक् वर्णेभ्यः एकपदप्रतीतिः न जायते।जनस्य अनुभवः तु ‘अहं पदं श्रुतवान्’ इति अस्ति, न तु ‘अहं वर्णान् श्रुतवान्’ इति।
समस्ताः वर्णाः अर्थं बोधयन्ति इति अपि न शक्यम्।वर्णाः उत्पन्नाः क्षणेन नष्टाः भवन्ति।तेषां समूहः न सम्भवति।
‘क्षणिकानां वर्णानां समूहः साक्षात् न सम्भवति चेत् समूहं कल्पयामः’ इति अपि वचनं न योग्यं यतो हि अनेन अन्योन्याश्रयदोषः आपतति।वर्णानां समूहरूपस्य कल्पना किमर्थम्?एते वर्णाः एकम् अर्थं वदन्ति इति साधयितुम्।
एते वर्णाः एकम् अर्थं वदन्ति इति कुतः ज्ञायते? वर्णसमूहरूपात् पदात्।एषः अन्योन्याश्रयदोषः।
पदत्वसिद्धौ सत्याम् अर्थबोधः .......... अर्थबोधः भवति अतः वर्णसमूहरूपस्य पदस्य कल्पना
अतः कल्पितसमूहः इत्यपि विकल्पः न सम्भवति।
व्यस्ताश्च समस्ताश्च वर्णाः इति विकल्पः न सम्भवति।
एवं व्यस्ताः वर्णाः अर्थं न बोधयन्ति,समस्ताः वर्णाः न सम्भवन्ति, कल्पितस्य वर्णसमूहस्य अर्थबोधकत्वम् अन्योन्याश्रयदोषग्रस्तं, व्यस्तसमस्ताः वर्णाः न सम्भवन्ति इति एकः अपि विकल्पः न सम्भवति।

अपरोऽपि दोषः पदवाचकत्वपक्षे अस्ति।
वनम् इति पदे ये वर्णाः ते एव वर्णाः नवम् इति पदे सन्ति।तयोः अर्थौ भिन्नौ।यदि वर्णसमूहरूपात् पदाद् एव अर्थः ज्ञायते तर्हि वन-नवयोः अर्थभेदस्य प्रतीतिः न स्यात्, उभयत्र वर्णसमूहस्य समानत्वात्।
अर्थज्ञानं वर्णेभ्यो न भवति चेत् अन्यः कश्चित् अर्थप्रत्यायकः हेतुः अभ्युपगन्तव्यः।सः एव स्फोटः।
तस्य लक्षणम् एवम् –

वर्णातिरिक्तो वर्णाभिव्यङ्ग्यः अर्थप्रत्यायकः नित्यः शब्दः स्फोटः।

अत्र स्फोटः लक्ष्यम्।स्फोटत्वं लक्ष्यतावच्छेदकम्।वर्णातिरिक्तत्वे सति वर्णाभिव्यज्यत्वे सति, अर्थप्रत्यायकत्वे सति नित्यत्वे सति शब्दत्वं स्फोटलक्षणम्।
वर्णातिरिक्तः इति पदेन वर्णाः अर्थवाचकाः इति मतं निरस्तम्।
यथा यथा वर्णानाम् उच्चारः भवति, तथा तथा स्फोटः अभिव्यक्तः अभिव्यक्ततरः भवति अतः वर्णाभिव्यङ्ग्यः इति विशेषणम्।अमुम् एवाशयम् आदाय -
'स्फुट्यते विकस्यते व्यज्यते वर्णैः इति स्फोटः।' इति स्फोटशब्दस्य निरुक्तिः उच्यते।
अर्थं बोधयति इति अर्थप्रत्यायकः।अर्थः स्फोटात् प्रतीयते, न तु वर्णेभ्यः इति स्फोटवादिनां मतम्।अतः अर्थप्रत्यायकः इति विशेषणम्।एतम् आशयम् आदाय स्फोटशब्दस्य अपरा निरुक्तिः उच्यते –

स्फुटति विकसति व्यक्तः भवति अर्थः अस्माद् इति स्फोटः।
वर्णस्वरूपः शब्दः क्षणिकः।तेभ्यः वर्णेभ्यः व्यज्यमानः अयं स्फोटाख्यः शब्दः नित्यः।सः वर्णेभ्यः न जायते, अपि तु अभिव्यज्यते।अतः नित्यः इति विशेषणम्।

स्फोटवादे आक्षेपाः –
१ विकल्पासहत्वम्
स्फोटः अनभिव्यक्तः एव अर्थं प्रत्याययति अथवा अभिव्यक्तः सन् अर्थं प्रत्याययति इति विकल्पः।उभयोः एकमपि न सङ्गच्छते। अनभिव्यक्तः स्फोटः अर्थं बोधयति चेत् सर्वदा अर्थबोधप्रसङ्गः यतो हि स्फोटः नित्यः। सः अर्थबोधने यदि कारणान्तरं नापेक्षते तर्हि सर्वदा एव बोधः भवतु।तथा न भवति।अतः अनभिव्यक्तः स्फोटः अर्थं प्रत्याययति इति न युज्यते।
अथ यदि वर्णैः अभिव्यक्तः स्फोटः अर्थं प्रत्याययति, तर्हि किं प्रत्येकं वर्णः व्यस्ततया स्फोटं व्यञ्जयति? अथवा सम्भूय सर्वे वर्णाः स्फोटं व्यञ्जयन्ति?
प्रत्येकं वर्णः व्यस्ततया स्फोटं जनयति चेत् एकेन वर्णेन स्फोटे अभिव्यक्ते सति अन्येषां वर्णानां नैरर्थक्यं प्राप्तम्।

सर्वे वर्णाः सम्भूय स्फोटं जनयन्ति चेत् सर्वेषां वर्णानां समूहः एव न भवति, यतो हि वर्णाः क्षणिकाः।द्वितीयवर्णोच्चारकाले प्रथमः वर्णः नष्टः। अतः सम्भूय स्फोटाभिव्यक्तिः अपि न शक्या।
एवं ये दोषाः वर्णवाचकत्वपक्षे उद्भाविताः स्फोटवादिभिः, ते दोषाः स्फोटवादेऽपि सन्ति। तथापि वर्णवाचकत्वपक्षस्वीकारार्थं विनिगमना विद्यते। सा चैवम्-

पाणिनिना सुप्तिङन्तं पदम् इति पदसंज्ञा उक्ता।गौतमेन अपि ‘ते विभक्त्यन्ताः पदम्’ इति पदसंज्ञा उक्ता।उभयत्र वर्णात्मकम् एव पदम् अनुमतम्।
तस्मात् स्फोटवादः त्याज्यः।वर्णवाचकत्वपक्षः ग्राह्यः।

अत्र वैयाकरणानाम् उत्तरम् –
ये दोषाः वर्णवाचकत्वपक्षे सन्ति ते एव स्फोटवादे सन्ति इति यद् आक्षिप्यते, तद् न। उभयोः पक्षयोः वैषम्यम् अस्ति।वर्णाः स्फोटाभिव्यञ्जकाः तथापि ते क्रमशः अभिव्यञ्जकाः।
यथा घटः इति व्याहारे घकारोच्चारे सति स्फोटः किञ्चिदिव अभिव्यक्तो भवति।ततः अकारोच्चारे सति इतोऽपि अभिव्यक्तः भवति।टकारोच्चारे सति स्फोटः अभिव्यक्ततरः भवति। अकारोच्चारे सति इतोऽपि अभिव्यक्ततरः भवति।विसर्जनीयोच्चारे सति स्फोटस्य अभिव्यक्तिः परिपूर्णा भवति। वर्णवाचकत्वपक्षे एषा अर्थप्रत्ययरीतिः न सम्भवति।इदमेव वैषम्यम् उभयोः पक्षयोः। तस्मात् स्फोटवादः ग्राह्यः, वर्णवाचकत्वपक्षः अग्राह्यः।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे पाणिनिदर्शनम्