स्फोटलक्षणम्। टिप्पनीं लिखता ।

विकिपुस्तकानि तः

स्फोटलक्षणम्। टिप्पनीं लिखता ।
पाणिनिदर्शने स्फोटस्य लक्षणम् एवम् उक्तम् –

वर्णातिरिक्तो वर्णाभिव्यङ्ग्यः अर्थप्रत्यायकः नित्यः शब्दः स्फोटः।
अत्र स्फोटः लक्ष्यम्।स्फोटत्वं लक्ष्यतावच्छेदकम्।वर्णातिरिक्तत्वे सति वर्णाभिव्यज्यत्वे सति, अर्थप्रत्यायकत्वे सति नित्यत्वे सति शब्दत्वं स्फोटलक्षणम्।
वर्णातिरिक्तः इति पदेन वर्णाः अर्थवाचकाः इति मतं निरस्तम्।
यथा यथा वर्णानाम् उच्चारः भवति, तथा तथा स्फोटः अभिव्यक्तः अभिव्यक्ततरः भवति अतः वर्णाभिव्यङ्ग्यः इति विशेषणम्।अमुम् एवाशयम् आदाय -
'स्फुट्यते विकस्यते व्यज्यते वर्णैः इति स्फोटः।'
इति स्फोटशब्दस्य निरुक्तिः उच्यते।
अर्थं बोधयति इति अर्थप्रत्यायकः।अर्थः स्फोटात् प्रतीयते, न तु वर्णेभ्यः इति स्फोटवादिनां मतम्।अतः अर्थप्रत्यायकः इति विशेषणम्।एतम् आशयम् आदाय स्फोटशब्दस्य अपरा निरुक्तिः उच्यते –
स्फुटति विकसति व्यक्तः भवति अर्थः अस्माद् इति स्फोटः।
वर्णस्वरूपः शब्दः क्षणिकः।तेभ्यः वर्णेभ्यः व्यज्यमानः अयं स्फोटाख्यः शब्दः नित्यः।सः वर्णेभ्यः न जायते, अपि तु अभिव्यज्यते।अतः नित्यः इति विशेषणम्।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे पाणिनिदर्शनम्