०४ प्रथ्यासन्ने नभसि...

विकिपुस्तकानि तः

4. प्रत्यासन्ने नभसि दयिताजिवितालम्बनार्थी
जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिं
सप्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै
प्रीतः प्रीतिप्रमुखवचनं स्वागतम् व्याजहार

अन्वयः नभसि (मेघे) प्रत्यासन्ने (सति)दयिताजीवितालम्बनार्थी सः स्वकुशलमयीं प्रवृत्तिं जीमूतेन हारयिष्यन् प्रत्यग्रैः कुटजकुसुमैः तस्मै कल्पितार्घाय प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार॥

"https://sa.wikibooks.org/w/index.php?title=०४_प्रथ्यासन्ने_नभसि...&oldid=6659" इत्यस्माद् प्रतिप्राप्तम्