०५ धूमज्योतिसलिल...

विकिपुस्तकानि तः

धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः
संदेशार्थाः क्व पटु करणैः प्राणिभिः प्रापणीयाः
इत्यौत्सुक्यादपरिगणयन् गुह्यकः तं ययाचें
कामार्तः हि प्रकृतिकृपणाः चेतनाचेतनेषु

अन्वयः धूमज्योतिःसलिलमरुतां संनिपातः मेखः क्व? पटु कारणैः प्राणिभिः प्रापणीयाः संदेशार्थाः क्व? इति औत्सुक्यात् अपरिगणयन् तं गुह्यकः ययाचे। कामर्ताः चेतनाचेतनेषु प्रकृतिकृपणाः हि!

"https://sa.wikibooks.org/w/index.php?title=०५_धूमज्योतिसलिल...&oldid=6660" इत्यस्माद् प्रतिप्राप्तम्