०७ सन्तप्तानाम् ...

विकिपुस्तकानि तः

7. संतप्तानां त्वमसि शरणं तत्पयोद प्रियायाः
संदेशं मे हर धनपतिक्रोधविश्लेषितस्य।
गन्तव्या ते वसतिरलका नाम यक्षेश्ववरस्य
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥

अन्वयः संतप्तानां शरणं त्वम् असि। तत् हे पयोद! धनपतिक्रोधविश्लेषितस्य मे प्रियायाः संदेशं हर। ते अलका नाम यक्षेश्ववरस्य बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या वसतिः गन्तव्या।

"https://sa.wikibooks.org/w/index.php?title=०७_सन्तप्तानाम्_...&oldid=6661" इत्यस्माद् प्रतिप्राप्तम्