०८ त्वामारूढम्...

विकिपुस्तकानि तः

8. त्वामारूढम् पवनपदवीम् उद्गृहीतालकान्ताः
प्रेक्षिश्यन्ते पथिकवनिताः प्रत्ययात् आश्वसत्यः
कस्सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायां
नस्यादन्योप्यहमिव जनो यः पराधीनवृत्तिः

अन्वयः- पवनपदवीम् आरूढम् त्वाम् उद्गृहीतालकान्ताः पथिकवनिताः प्रत्ययात् आश्वसत्यः प्रेक्षिश्यन्ते। त्वयि सन्नद्धे अहमिव यः पराधीनवृत्तिः नस्यात् अन्यः कः जनो विरहविधुरां अपि जायां उपेक्षेत।

"https://sa.wikibooks.org/w/index.php?title=०८_त्वामारूढम्...&oldid=6663" इत्यस्माद् प्रतिप्राप्तम्