०९ मन्दम् मन्दम्...

विकिपुस्तकानि तः

9. मन्दं मन्दं नुदति पवनः चानुकूलो यथा त्वां
वामश्चायं नदति मधुरं चातकस्ते स गन्धः ।
गर्भाधानक्ष्मपरिचायात् नूनम् आबद्धमालाः
सेविष्यन्ते नयनसुभगं खे भवन्तम् बलाकाः॥

अनुकूलःसगन्धः अयं पवनः च यथा त्वां मन्दं मन्दं नुदति। चातक च ते वामः मधुरं नदति। आबद्धमालाः बलाकाः नयनसुभगं भवन्तम् खे गर्भाधानक्ष्मपरिचायात् नूनम् सेविष्यन्ते ।

"https://sa.wikibooks.org/w/index.php?title=०९_मन्दम्_मन्दम्...&oldid=6664" इत्यस्माद् प्रतिप्राप्तम्