१० ताम् चावश्यम्...

विकिपुस्तकानि तः

10 तां च अवश्यं दिवसगणनातत्परामेकपत्नीं
अव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।
आशाबन्धः कुसुमसदृशं प्रायशः हि अङ्गनानां
सद्यः पाति प्रणयि ह्रदयं विप्रयोगे रुणद्धि ॥

अन्वयः- तां च दिवसगणनातत्पराम् ऎकपत्नीं अव्यापन्नाम् भ्रातृजायाम् अविहतगतिः (त्वम्) अवश्यं द्रक्ष्यसि। प्रायशः कुसुमसदृशं सद्यःपाति अङ्गनानां प्रणयिह्रदयं विप्रयोगे आशाबन्धः रुणद्धि हि।

"https://sa.wikibooks.org/w/index.php?title=१०_ताम्_चावश्यम्...&oldid=6667" इत्यस्माद् प्रतिप्राप्तम्