१३ आपृच्छस्व प्रिय ...

विकिपुस्तकानि तः

आपृच्छस्व प्रियसखममुं तुङ्गं आलिन्ग्य शैलं
वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेघालासु ।
काले काले भवति भवता यस्य संयोगं एत्य
स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पं उष्णं ॥

पुंसां वन्द्यैः रघुपतिपदैः मेघालासु अङ्कितं अमुं प्रियसखम् शैलं तुङ्गं आलिन्ग्य आपृच्छस्व। भवता काले काले यस्य संयोगं एत्य स्नेहव्यक्तिश्चिरविरहजं उष्णं बाष्पं मुञ्चतः भवति।

"https://sa.wikibooks.org/w/index.php?title=१३_आपृच्छस्व_प्रिय_...&oldid=6673" इत्यस्माद् प्रतिप्राप्तम्