१४ अद्रेः शृङ्गम् ...

विकिपुस्तकानि तः

अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखिभिः
द्र्ष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः।
स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः खं
दिङ्ग्नागानां पथि परिहरन् स्थुलहस्तावलेपान्॥

अन्वयः- पवनः अद्रेः शृङ्गं किंस्वित् हरति इति उन्मुखिभिः मुग्धसिद्धाङ्गनाभिः चकितचकितं द्र्ष्टोत्साहः सरसनिचुलात् अस्मात् स्थानात् दिङ्ग्नागानां स्थुलहस्तावलेपान् पथि परिहरन् उदङ्मुखः खं उत्पत ।

"https://sa.wikibooks.org/w/index.php?title=१४_अद्रेः_शृङ्गम्_...&oldid=6677" इत्यस्माद् प्रतिप्राप्तम्