१५ रत्नच्छायाव्यतिकर...

विकिपुस्तकानि तः

रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत् पुरस्तात्
वत्मिकाग्रात् प्रभवति धनुर्खण्डमाखण्डलस्य।
येनश्यामं वपुरतितरां कान्तिमापत्स्यते ते
बर्हेणेव स्फुरितरूचिना गोपवेषस्य विष्णोः॥

अन्वयम्र- त्नच्छायाव्यतिकर इव एतत् पुरस्तात् प्रेक्ष्यम् वत्मिकाग्रात् आखण्डलस्य धनुष्खण्डम् प्रभवति, येन अतितरां श्यामं ते वपुः बर्हेणेव स्फुरितरूचिना गोपवेषस्य विष्णोः कान्तिमापत्स्यते॥