१९ स्थित्वा तस्मिन्...

विकिपुस्तकानि तः

स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः।
रेवां द्रक्ष्यत्युपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥

अन्वयः- वनचरवधूभुक्तकुञ्जे तस्मिन् मुहूर्तं स्थित्वा तोयोत्सर्गद्रुततरगतिः तत्परं वर्त्म तीर्णः।उपलविषमे विन्ध्यपादे विशीर्णां रेवां गजस्य अङ्गे विरचितां भक्तिच्छेदैः भूतिम् इव द्रक्ष्यति ॥

"https://sa.wikibooks.org/w/index.php?title=१९_स्थित्वा_तस्मिन्...&oldid=6689" इत्यस्माद् प्रतिप्राप्तम्