२० तस्यास्तिक्तैः...

विकिपुस्तकानि तः

तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टि जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः ।
अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां रिक्तः सर्वे भवति हि लखुः पूर्णता गौरवाय॥

अन्वयः- तिक्तैर्वनगजमदैः वासितं वान्तवृष्टि जम्बूकुञ्जप्रतिहतरयं तस्याः तोयम् आदाय गच्छेः। घन! अन्तःसारं त्वां तुलयितुं अनिलः न शक्ष्यति। रिक्तः सर्वे भवति हि लखुः पूर्णता गौरवाय॥

"https://sa.wikibooks.org/w/index.php?title=२०_तस्यास्तिक्तैः...&oldid=6688" इत्यस्माद् प्रतिप्राप्तम्