च.वि.१.०५

विकिपुस्तकानि तः

दोषाः पुनस्त्रयो वातपित्तश्लेष्माणः।ते प्रकृतिभूताः शरीरोपकारका भवन्ति, विकृतिमापन्नास्तु खलु नानाविधैर्विकारैः शरीरमुपतापयन्ति॥ च.वि.१.५॥

पदच्छेदः-
दोषाः पुनः त्रयः वात-पित्त-श्लेष्माणः।ते प्रकृतिभूताः शरीर-उपकारकाः भवन्ति, विकृतिम् आपन्नाः तु खलु नानाविधैः विकारैः शरीरम् उपतापयन्ति॥ च.वि.१.५॥

अन्वयः-
पुनः दोषाः त्रयः वात-पित्त-श्लेष्माणः। ते प्रकृतिभूताः शरीर-उपकारकाः भवन्ति, विकृतिम् आपन्नाः तु खलु नानाविधैः विकारैः शरीरम् उपतापयन्ति॥ च.वि.१.५॥

सरलार्थः-
दोषाः त्रयः सन्ति, वातः पित्तं कफः च।ते यदा प्राकृताः सन्ति, तदा शरीरस्य उपकारं कुर्वन्ति।यदा ते विकृताः भवन्ति, तदा नाना रोगैः शरीरं पीडयन्ति। च.वि.१.५।

आयुर्वेददीपिका-
दोषाः इति शारीरदोषाः। पुनःशब्दः मानसदोषं व्यावर्तयति॥ च.वि.१.५॥

सुशीला पञ्जिका-
वात-पित्त-श्लेष्माणः इति।वातः च पित्तं च श्लेष्मा च वातपित्तश्लेष्माणः।
प्रकृतिभूताः इति।प्रकृतिः एव भूतः प्रकृतिभूतः, ते प्रकृतिभूताः। कर्मधारयः।
शरीरस्य उपकारकाः शरीरोपकारकाः। च.वि.१.५

च.वि.१.०४        चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका       च.वि.१.०६
"https://sa.wikibooks.org/w/index.php?title=च.वि.१.०५&oldid=7325" इत्यस्माद् प्रतिप्राप्तम्