च.वि.१.०५
दोषाः पुनस्त्रयो वातपित्तश्लेष्माणः।ते प्रकृतिभूताः शरीरोपकारका भवन्ति, विकृतिमापन्नास्तु खलु नानाविधैर्विकारैः शरीरमुपतापयन्ति॥ च.वि.१.५॥
पदच्छेदः-
दोषाः पुनः त्रयः वात-पित्त-श्लेष्माणः।ते प्रकृतिभूताः शरीर-उपकारकाः भवन्ति, विकृतिम् आपन्नाः तु खलु नानाविधैः विकारैः शरीरम् उपतापयन्ति॥ च.वि.१.५॥
अन्वयः-
पुनः दोषाः त्रयः वात-पित्त-श्लेष्माणः।
ते प्रकृतिभूताः शरीर-उपकारकाः भवन्ति,
विकृतिम् आपन्नाः तु खलु नानाविधैः विकारैः शरीरम् उपतापयन्ति॥ च.वि.१.५॥
सरलार्थः-
दोषाः त्रयः सन्ति, वातः पित्तं कफः च।ते यदा प्राकृताः सन्ति, तदा शरीरस्य उपकारं कुर्वन्ति।यदा ते विकृताः भवन्ति, तदा नाना रोगैः शरीरं पीडयन्ति। च.वि.१.५।
आयुर्वेददीपिका-
दोषाः इति शारीरदोषाः। पुनःशब्दः मानसदोषं व्यावर्तयति॥ च.वि.१.५॥
सुशीला पञ्जिका-
वात-पित्त-श्लेष्माणः इति।वातः च पित्तं च श्लेष्मा च वातपित्तश्लेष्माणः।
प्रकृतिभूताः इति।प्रकृतिः एव भूतः प्रकृतिभूतः, ते प्रकृतिभूताः। कर्मधारयः।
शरीरस्य उपकारकाः शरीरोपकारकाः। च.वि.१.५
च.वि.१.०४ चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका च.वि.१.०६