सामग्री पर जाएँ

च.वि.१.०४

विकिपुस्तकानि तः

तत्रादौ रसद्रव्यदोषविकारप्रभावान् वक्ष्यामः।रसास्तावत् षट्- मधुराम्ललवणकटुतिक्त-कषायाः।ते सम्यगुपयुज्यमानाः शरीरं यापयन्ति, मिथ्योपयुज्यमानास्तु खलु दोष-प्रकोपायोपकल्पन्ते॥ च.वि.१.४॥

पदच्छेदः-
तत्र आदौ रस-द्रव्य-दोष-विकार-प्रभावान् वक्ष्यामः।रसाः तावत् षट्-मधुर-अम्ल-लवण-कटु-तिक्त-कषायाः।ते सम्यग् उपयुज्यमानाः शरीरं यापयन्ति, मिथ्या उप-युज्यमानाः तु खलु दोषप्रकोपाय उपकल्पन्ते॥ च.वि.१.४॥

अन्वयः-
तत्र आदौ रस-द्रव्य-दोष-विकार-प्रभावान् वक्ष्यामः। रसाः तावत् षट्-मधुर-अम्ल-लवण-कटु-तिक्त-कषायाः। ते सम्यग् उपयुज्यमानाः शरीरं यापयन्ति, मिथ्या उप-युज्यमानाः तु खलु दोषप्रकोपाय उपकल्पन्ते॥ च.वि.१.४॥

सरलार्थः-
तत्र प्रथमं रसस्य, द्रव्यस्य, दोषस्य तथा विकारस्य प्रभावान् वयं वदामः।रसाः षट् सन्ति – मधुररसः, अम्लरसः, लवणरसः, कटुरसः, तिक्तरसः, कषायरसः च। एतेषां रसानां सम्यग् उपयोगः भवति चेत्, एते शरीरं धारयन्ति।यदि एतेषां रसानां मिथ्या उपयोगः भवति, तर्हि एते दोषप्रकोपं कुर्वन्ति। च.वि.१.४

आयुर्वेददीपिका-
अध्याय-अर्थं वक्तुं प्रतिजानीते- तत्र आदौ इत्यादि। यद्यपि च दोषभेषज-इत्यादौ दोष-अपेक्षत्वाद् भेषजस्य दोषः आदौ कृतः, तथा अपि इह रस-द्रव्य-रूप-भेषजस्य अपेक्षित-रोगप्रशम-कर्तृत्वेन तथा दोषस्य अपि च रसद्रव्ययोः एव कारणत्वेन भेषजशब्दसूचिते रसद्रव्ये एव अग्रे कृते, पश्चात् तु दोषग्रहण-गृहीतौ दोष-विकारौ। प्रकृष्टः भावः प्रभावः शक्तिः इति अर्थः; स च इह अचिन्त्यः चिन्त्यः च ग्राह्यः। येन, ‘तत्र खल्वनेकरसेषु’ इत्यादिना द्रव्य-विकारयोः प्रभावं रसद्वारा दोषद्वारा च चिन्त्यम् अपि वक्ष्यति। यापयन्ति इति साम्येन अवस्थापयन्ति। मिथ्याशब्दः इह अयोग-अतियोग-मिथ्यायोगेषु वर्तते॥ च.वि.१.४॥

सुशीला पञ्जिका –
रस-द्रव्य-दोष-विकार-प्रभावान् इति।रसाः च द्रव्याणि च दोषाः च विकाराः च इति रसद्रव्यदोषविकाराः।तेषां प्रभावाः रसद्रव्यदोषविकारप्रभावाः।
मधुर-अम्ल-लवण-कटु-तिक्त-कषायाः इति। मधुरः च अम्लः च लवणः च कटुः च तिक्तः कषायः च इति द्वन्द्वः। च.वि.१.४

च.वि.१.०३    चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका    च.वि.१.०५
"https://sa.wikibooks.org/w/index.php?title=च.वि.१.०४&oldid=7326" इत्यस्माद् प्रतिप्राप्तम्