च.वि.१.०६

विकिपुस्तकानि तः

तत्र दोषमेकैकं त्रयस्त्रयो रसा जनयन्ति, त्रयस्त्रयश्चोपशमयन्ति।तद्यथा –कटुतिक्तकषाया वातं जनयन्ति, मधुराम्ललवणास्त्वेनं शमयन्ति; कट्वम्ल-लवणाः पित्तं जनयन्ति, मधुरतिक्तकषायास्त्वेनच्छ्मयन्ति; मधुराम्ललवणाः श्लेष्माणं जनयन्ति,कटुतिक्तकषायास्त्वेनं शमयन्ति॥ च.वि.१.६॥

पदच्छेदः-
तत्र दोषम् एक-एकं त्रयः त्रयः रसाः जनयन्ति, त्रयः त्रयः च उपशमयन्ति।तद् यथा-कटु-तिक्त-कषायाः वातं जनयन्ति, मधुर-अम्ल-लवणाः तु एनं शमयन्ति; कटु-अम्ल-लवणाः पित्तं जनयन्ति, मधुर-तिक्त-कषायाः तु एनत् शमयन्ति; मधुर-अम्ल-लवणाः श्लेष्माणं जनयन्ति,कटु-तिक्त-कषायाः तु एनं शमयन्ति॥ च.वि.१.६॥

अन्वयः-
तत्र त्रयः त्रयः रसाः एक-एकं दोषं जनयन्ति, त्रयः त्रयः च (रसाः एक-एकं दोषम्) उपशमयन्ति।तद् यथा-कटु-तिक्त-कषायाः वातं जनयन्ति, मधुर-अम्ल-लवणाः तु एनं शमयन्ति; कटु-अम्ल-लवणाः पित्तं जनयन्ति, मधुर-तिक्त-कषायाः तु एनत् शमयन्ति; मधुर-अम्ल-लवणाः श्लेष्माणं जनयन्ति,कटु-तिक्त-कषायाः तु एनं शमयन्ति॥ च.वि.१.६॥

सरलार्थः-
मधुरादयः ये षड् रसाः उक्ताः, तेषु त्रयः त्रयः रसाः एकम् एकं दोषं जनयन्ति, त्रयः त्रयः च रसाः एकम् एकं दोषं शमयन्ति।
तद् एवं भवति –
कटुः, तिक्तः तथा कषायः इति एते त्रयः रसाः वातं जनयन्ति।एवं जनितं वातं मधुरः, अम्लः तथा तिक्तः इति एते त्रयः रसाः शमयन्ति।
कटुः, अम्लः,लवणः इति एते त्रयः रसाः पित्तं जनयन्ति। एवं जनितं पित्तं मधुरः, तिक्तः, कषायः इति एते त्रयः रसाः शमयन्ति।
मधुरः,अम्लः,लवणः इति एते त्रयः रसाः कफं जनयन्ति, एवं जनितं कफं कटुः, तिक्तः, कषायः इति एते त्रयः रसाः शमयन्ति॥ च.वि.१.६॥

आयुर्वेददीपिका-
रसानाम् असंसृष्टानां कर्म आह- तत्र इत्यादि।अनेन च रसकर्म-उपदेशेन दोषाणाम् अपि तत्-तद्-रस-उत्पाद्यत्वं तथा तत्-तद्-रस-उपशमनीयत्वम् उक्तं भवति।कटु-तिक्त-कषायाः वातं जनयन्ति इति असति परिपन्थिनि इति ज्ञेयं, तेन अर्क-अगुरु-गुडूची-आदीनां तिक्तानाम् अपि वात-अजनकत्वे न दोषः। तत्र हि उष्णवीर्यता परि-पन्थिनी विद्यते, तेन न ते वातं जनयन्ति इत्यादि अनुसरणीयम्। एनम् इति पदेन यः च कटु-आदि-जः वायुः तम् एव मधुर-आदयः सर्वात्म-वैपरीत्याद् विशेषेण शमयन्ति इति दर्शयति; जागरण-आदिजे हि वायौ जागरणादि-विपरीताः स्वप्न-आदयः एव विशेषेण पथ्याः। एवं पित्त-श्लेष्मणोः अपि एनद्-एनं-शब्दयोः तात्पर्यं दर्शयति॥ च.वि.१.६॥

सुशीला पञ्जिका
कटु-तिक्त-कषायाः, मधुर-अम्ल-लवणाः, कटु-अम्ल-लवणाः, मधुर-तिक्त-कषायाः, मधुर-अम्ल-लवणाः, कटु-तिक्त-कषायाः इति सर्वे एते द्वन्द्वसमासाः।
मधुरम्ललवणाः तु एनं शमयन्ति इति सूत्रवचने एनम् इति सर्वनाम्नः रूपम्। ‘एनम्’ इति अनेन पदेन सामान्यतः पूर्ववाक्यस्थस्य वातस्य परामर्शः भवति ।प्रकृते सः अस्ति एव परम् ‘एनम्’ इति पदेन विशेषतः कट्वादिजस्य वातस्य परामर्शः कार्यः इति चक्रपाणिः सूचयति। च.वि.१.६

च.वि.१.०५       चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका        च.वि.१.०७
"https://sa.wikibooks.org/w/index.php?title=च.वि.१.०६&oldid=7323" इत्यस्माद् प्रतिप्राप्तम्