च.वि.१.१९

विकिपुस्तकानि तः

सूत्रम् -
तस्मात्तेषां तत्सात्म्यतः क्रमेणापगमनं श्रेयः। सात्म्यमपि हि क्रमेणोपनिवर्त्यमानमदोषमल्पदोषं वा भवति॥ च.वि.१.१९॥

पदच्छेदः-
तस्मात् तेषां तत्सात्म्यतः क्रमेण अपगमनं श्रेयः।सात्म्यम् अपि हि क्रमेण उपनिवर्त्यमानम् अदोषम् अल्पदोषं वा भवति॥ च.वि.१.१९॥

अन्वयः-
तस्मात् तेषां तत्सात्म्यतः क्रमेण अपगमनं श्रेयः। हि सात्म्यम् अपि क्रमेण उपनिवर्त्यमानम् अदोषम् अल्पदोषं वा भवति॥ च.वि.१.१९॥

सरलार्थः-
अतः येषाम् अतिलवणं सात्म्यम् अस्ति, तेषाम् अतिलवणसात्म्यात् क्रमशः दूरीभवनं हितकरं भवति।यतो हि कश्चिद् विषयः यद्यपि सात्म्यः अस्ति, तथापि सः यदि क्रमशः निवर्त्यते, तर्हि अल्प-पीडाकरः अथवा अपीडाकरः भवति। च.वि.१.१९।

आयुर्वेददीपिका-
तेषाम् इति अतिक्षारलवणसात्म्यानाम्। तत्सात्म्यतः इति अतिमात्रक्षाराद् अति-मात्रलवणात् च सात्म्यात्। क्रमेण इति नवेगान्धारणीयोक्त-सात्म्यपरित्यागक्रमेण। इह च सात्म्यशब्देन ओकसात्म्यम् अभिप्रेतम्। अल्पदोषम् अदोषं वा इति पक्षद्वये अत्यर्थसात्म्यम् अल्पदोषं भवति, अन्यत् तु अदोषम् इति व्यवस्था॥ च.वि.१.१९॥

सुशीला पञ्जिका-
तत्सात्म्यतः इति।तयोः सात्म्यम् तत्सात्म्यम्।तत्सात्म्यशब्दात्-

पञ्चम्यास्तसिल् (अष्टा.५.३.७)

इति तसिल्प्रत्ययः।तयोः सात्म्यम् इति अत्र तयोः इति सर्वनाम।अनेन सर्वनाम्ना अतिमात्रक्षारस्य अतिमात्रलवणस्य च परामर्शः कार्यः।एतयोः सात्म्यात् तेषां क्रमेण दूरीभवनं हितकरम् इत्यर्थः।
अदोषमल्पदोषमिति।अविद्यमानः दोषः यस्मिन् तद् अदोषम्।अल्पः दोषः यस्मिन् तद् अल्पदोषम्।उभयत्र बहुव्रीहिः। च.वि.१.१९

च.वि.१.१८      चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका         च.वि.१.२०
"https://sa.wikibooks.org/w/index.php?title=च.वि.१.१९&oldid=7311" इत्यस्माद् प्रतिप्राप्तम्