तव अस्मि .....अतिरंहसा ॥१.०५॥

विकिपुस्तकानि तः

तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥१.०५॥

पदच्छेदः-
तव अस्मि गीतरागेण हारिणा प्रसभं हृतः ।एषः राजा इव दुष्यन्तः सारङ्गेण अतिरंहसा ॥१.०५॥

अन्वयः-
हे नटि, अतिरंहसा सारङ्गेण एषः दुष्यन्तः राजा इव तव हारिणा गीतरागेण (अहं) प्रसभं हृतः अस्मि ।॥१.०५॥

सन्दर्भः-
प्रस्तावनायाः अन्ते सूत्रधारः नटीं वदति।इतः अग्रे कथा आरभ्यते।

सरलार्थः-
हे नटि, तव आकर्षकेण गीतेन अहं बलात् आकृष्टः अस्मि। यथा अयं दुष्यन्तः नृपः वेगवता हरिणेन आकृष्टः भवति।

वृत्तम् – अनुष्टुप्

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि         अभिज्ञानशाकुन्तले अनुष्टुभ्-वृत्तनिबद्धानि पद्यानि
ईषद् ईषत् ..... शिरीषकुसुमानि ॥१.०४॥    कृष्णसारे …..पिनाकिनम् ॥१.०६॥