अधरः ..... सन्नध्दम् ॥१.२१॥

विकिपुस्तकानि तः

अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नध्दम् ॥१.२१॥

पदच्छेदः-
अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
कुसुमम् इव लोभनीयं यौवनम् अङ्गेषु सन्नध्दम् ॥१.२१॥

अन्वयः-
अधरः किसलयरागः अस्ति। बाहू कोमलविटपानुकारिणौ स्तः।
कुसुमम् इव लोभनीयं यौवनम् अङ्गेषु सन्नध्दम् ॥१.२१॥

सन्दर्भः-

सरलार्थः-
अस्याः ओष्ठस्य वर्णः किसलयवर्णसदृशः अस्ति। बाहू कोमलवृक्षतुल्यौ स्तः।कुसुमम् इव लोभनीयं यौवनम् अस्याः अवयवेषुव्याप्तम्।॥१.२१॥

वृत्तम् –
आर्या

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि             अभिज्ञानशाकुन्तले आर्या-वृत्तनिबद्धानि पद्यानि
सरसिजम् अनुविध्दं..... आकृतीनाम् ॥१.२० ॥   असंशयं .....अन्तःकरणप्रवृत्तयः ॥१.२२॥