असंशयं .....अन्तःकरणप्रवृत्तयः ॥१.२२॥

विकिपुस्तकानि तः

असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः ॥१.२२॥

पदच्छेदः-
असंशयं क्षत्रपरिग्रहक्षमा यद् आर्यम् अस्याम् अभिलाषि मे मनः ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणम् अन्तःकरणप्रवृत्तयः ॥१.२२॥

अन्वयः-
एषा असंशयं क्षत्रपरिग्रहक्षमास्ति,यद् मे आर्यं मनः अस्याम् अभिलाषि। हि सन्देहपदेषु वस्तुषु सताम् अन्तःकरणप्रवृत्तयः प्रमाणम् ॥१.२२॥

सन्दर्भः-

सरलार्थः-
नूनम् एषा क्षत्रियस्य पत्नी भवितुम् अर्हति।सुसंस्कृतम् अपि मम मनः अस्यां साभिलाषं जातम्।यतो हि सन्देहस्थले सज्जनानां कृते चित्तवृत्तिः एव प्रमाणं भवति।१.२२

वृत्तम् –
वंशस्थम्

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि  अभिज्ञानशाकुन्तले वंशस्थ-वृत्तनिबद्धानि पद्यानि
अधरः ..... सन्नध्दम् ॥१.२१॥    यतः यतः .....दृष्टिबिभ्रमम्॥१.२३