भव हृदय .....रत्नम् ॥१.२८॥

विकिपुस्तकानि तः

भव हृदय साभिलाषं संप्रति सन्देहनिर्णयो जातः । आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम् ॥१.२८॥

पदच्छेदः-
भव हृदय साभिलाषं संप्रति सन्देहनिर्णयः जातः । आशङ्कसे यद् अग्निं तद् इदं स्पर्शक्षमं रत्नम् ॥१.२८॥

अन्वयः-
हे हृदय, साभिलाषं भव। संप्रति सन्देहनिर्णयः जातः ।यद् अग्निम् आशङ्कसे, तद् इदं स्पर्शक्षमं रत्नम् ॥१.२८॥

सन्दर्भः-

सरलार्थः-
हे मम हृदय, इदानीं त्वम् अस्य अभिलाषं कर्तुम् अर्हति।अधुना सन्देहस्य निराकरणं जातम्।अग्निः इति यद्विषये आशङ्का आसीत्, तद् एतद् स्पर्शार्हं रत्नम् अस्ति॥१.२८

वृत्तम् –
आर्या

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि     अभिज्ञानशाकुन्तले आर्या-वृत्तनिबद्धानि पद्यानि
वैखानसं .....हरिणाङ्गनाभिः ॥१.२७॥  अनुयास्यन् .....प्रतिनिवृत्तः ॥१.२९॥
"https://sa.wikibooks.org/w/index.php?title=भव_हृदय_.....रत्नम्_॥१.२८॥&oldid=7259" इत्यस्माद् प्रतिप्राप्तम्