वैखानसं .....हरिणाङ्गनाभिः ॥१.२७॥

विकिपुस्तकानि तः

वैखानसं किमनया व्रतमाप्रदानाद् व्यापाररोधि मदनस्य निषेवितव्यम् ।
अत्यन्तमेव सदृशेक्षणवल्लभाभि – राहो निवत्स्यति समं हरिणाङ्गनाभिः ॥१.२७॥

पदच्छेदः-
वैखानसं किम् अनया व्रतम् आप्रदानाद् व्यापाररोधि मदनस्य निषेवितव्यम् ।
अत्यन्तम् एव सदृश-ईक्षणवल्लभाभिः आहो निवत्स्यति समं हरिणाङ्गनाभिः ॥१.२७॥

अन्वयः-
आप्रदानाद् अनया मदनस्य व्यापाररोधि वैखानसं व्रतं निषेवितव्यं किम् ? आहो (इयम्) अत्यन्तम् एव सदृश-ईक्षणवल्लभाभिः हरिणाङ्गनाभिः समं निवत्स्यति ॥१.२७॥

सन्दर्भः-

सरलार्थः-
ब्रह्मचर्यव्रतं नाम मदनस्य व्यापाररोधकं व्रतम्।विवाहपर्यन्तम् अनया शकुन्तलया तद् एव व्रतम् आचरणीयं किम्?अथवा एताः हरिण्यः शकुन्तलया सदृशनेत्राः। अतः ताभिः सह एव एषा निवासं करिष्यति वा?

वृत्तम् –
वसन्ततिलका

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि    अभिज्ञानशाकुन्तले वसन्ततिलका-वृत्तनिबद्धानि पद्यानि
मानुषीषु .....वसुधातलात् ॥१.२६॥   भव हृदय .....रत्नम् ॥१.२८॥