अध्याया: २१-३०

विकिपुस्तकानि तः

धूमप्रयोजनम् -- द्विविधम् -- जत्रूर्ध्वकफवातोत्थविकारजन्मप्रतिबन्ध-जत्रूर्ध्वकफवातोत्थविकारध्वंस-भेदात् अ.हृ.सू.२१.१

धूम: त्रिविध: स्निध-मध्य-तीक्ष्णभेदात् अ.हृ.सू.२१.२

धूमविषय: -- त्रिविध: -- वात-वातकफ-कफ-भेदात् अ.हृ.सू.२१.२

धूमविषय: -- चतुर्विध: -- घ्राणशिरोगतोत्क्लिष्टदोष- घ्राणशिरोगतानुत्क्लिष्टदोष- कण्ठगतोक्लिष्टदोष- कण्ठगतानुत्क्लिष्टदोष-भेदात् अ.हृ.सू.२१.१०

धूमपानविधि: -- द्विविध: नासापानोत्तरमुखपान- मुखपानोत्तरनासापान-भेदात् अ.हृ.सू.२१.१०

धूमपानम् -- त्रिविधम् -- सकृदाक्षेपमोक्ष-द्विक्षेपमोक्ष-अधिकाक्षेपमोक्षभेदात् अ.हृ.सू.२१.१२

गण्डूष: चतुर्विध: -- स्निगध-शमन-शोधन-रोपण-भेदात् अ.हृ.सू.२२.१

प्रतिसारणम् -- त्रिविधम् -- कल्क-रसक्रिया-चूर्ण-भेदात् अ.हृ.सू.२२.१३

मुखलेप: -- त्रिविध: -- दोषघ्न-विषघ्न-वर्णकृद्भेदात् अ.हृ.सू.२२.१४

मुखलेप: -- द्विविध: उष्ण-अतिशीतभेदात् अ.हृ.सू.२२.१५

मुखलेपप्रमाणम् -- त्रिविधम् -- चतुर्भागाङ्गुल-त्रिभागाङ्गुल-अर्धाङ्गुल-भेदात् अ.हृ.सू.२२.१५

मुखलेपावस्था -- द्विविधा -- अशुष्क-शुष्कभेदात् अ.हृ.सू.२२.१६

मुखलेप: -- षड्विध: -- हैमन्त-शैशिर-वासन्त-ग्रैष्म-प्रावृष-शारद-भेदात् अ.हृ.सू.२२.२२

मूर्द्धतैलम् -- चतुर्विधम् -- अभ्यङ्ग-सेक-पिचु-बस्ति-भेदात् अ.हृ.सू.२२.२३

आश्चोतनम् -- त्रिविधम् -- उष्ण-कोष्ण-शीत-भेदात् अ.हृ.सू.२३.२

अञ्जनम् -- त्रिविधम् -- लेखन-रोपण-दृष्टिप्रसादनभेदात् अ.हृ.सू.२३.१०

अञ्जनकल्पना -- त्रिविधा -- पिण्ड-रसक्रिया-चूर्णभेदात् अ.हृ.सू.२३.१४

अञ्जनविषय: -- त्रिविध: -- गुरुदोष-मध्यदोष-लघुदोष-भेदात् अ.हृ.सू.२३.१४

अञ्जनमात्रा -- पञ्चविधा -- हरेणु-वेल्ल-द्विहरेणु-शलाकाद्वय-शलाकात्रय-भेदात् अ.हृ.सू.२३.१५

तर्पणावृत्ति: -- त्रिविधा -- प्रतिदिन-एकान्तर-द्व्यन्तरभेदात् अ.हृ.सू.२४.१०

पुटपाक: -- त्रिविध: -- स्नेहन-लेखन-प्रसादन-भेदात् अ.हृ.सू.२४.१३

पुटपाक: -- द्विविध: -- कोष्ण-शीतभेदात् अ.हृ.सू.२४.२०

तालयन्त्रम् -- द्विविधम् -- एकतालक-द्वितालकभेदात् अ.हृ.सू.२५.१०

शलाका -- षड्विधा -- आसन्नार्थ-दूरार्थभेदात् अ.हृ.सू.२५.३४

शलाका -- षड्विधा -- षडङ्गुल-सप्ताङ्गुल-अष्टाङ्गुल-नवाङ्गुल- दशाङ्गुल-द्वादशाङ्गुल-भेदात् अ.हृ.सू.२५.३४,३५

जलौका -- द्विविधा -- सविष-निर्विषभेदात् अ.हृ.सू.२६.३७

शल्याकर्षणोपाय: द्विविध: प्रतिलोम-अनुलोम-भेदात् अ.हृ.सू.२८.१९

व्रणशोथावस्था -- त्रिविधा -- आम-पच्यमान-पक्व-भेदात् अ.हृ.सू.२९.२-५

व्रणबन्ध: -- पञ्चदशविध: -- कोश१-स्वस्तिक२-मुत्तोली३-चीन४-दाम५-अनुवेल्लित६-खट्वा७-विबन्ध८-स्थगिका९-वितान१०-उत्सङ्ग११-गोष्फणा१२-यमक१३-मण्डल१४-पञ्चाङ्ग१५-भेदात् अ.हृ.सू.२९.५९

क्षार: -- द्विविध: -- पेय-प्रतिसारणीय-भेदात् अ.हृ.सू.३०.३

क्षार: -- त्रिविध: -- तीक्ष्ण–मध्यम-मृदु-भेदात् अ.हृ.सू.३०.२०,२१

दग्धम् -- चतुर्विधम् -- तुच्छदग्ध-दुर्दग्ध-अतिदग्ध-सम्यग्दग्ध-भेदात् अ.हृ.सू.३०.४७


अध्याया: १- १०    अध्याया: ११-२०   पाठक्रमेण पदार्थभेदकोश:
"https://sa.wikibooks.org/w/index.php?title=अध्याया:_२१-३०&oldid=6288" इत्यस्माद् प्रतिप्राप्तम्