इदं किल..... ऋषिः व्यवस्यति ॥१.१८॥

विकिपुस्तकानि तः

इदं किलाव्याजमनोहरं वपु – स्तपः क्षमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां च्छेत्तुमृषिव्यवस्यति ॥१.१८॥

पदच्छेदः-
इदं किल अव्याजमनोहरं वपुः तपःक्षमं साधयितुं यः इच्छति ।
ध्रुवं सः नीलोत्पलपत्रधारया शमीलतां छेत्तुम् ऋषिः व्यवस्यति ॥१.१८॥

अन्वयः-
इदम् अव्याजमनोहरं वपुः तपःक्षमं साधयितुं यः इच्छति किल, सः ऋषिः ध्रुवं नीलोत्पलपत्रधारया शमीलतां छेत्तुम् व्यवस्यति ॥१.१८॥

सन्दर्भः-
आश्रमे शकुन्तलां दृष्ट्वा दुष्यन्तः चिन्तयति।

सरलार्थः-
अलङ्कारैः विना अपि इदं शरीरं मनोहरम्।ईदृशं जनं तपसि योजयितुं यः ऋषिः इच्छति, सः नूनं नीलकमलपत्रस्य धारया शमीच्छेदनं कर्तुं प्रयतते।१.१८

वृत्तम् –
वंशस्थम्

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि        अभिज्ञानशाकुन्तले वंशस्थ-वृत्तनिबद्धानि पद्यानि
शुध्दान्तदुर्लभम्..... वनलताभिः ॥१.१७॥   इदम् ..... पाण्डुपत्रोदरेण॥१.१९